ओं हों क्षीमिति सन्धानं। रागश्च शुद्धविद्या च नियतिः कलया सह। कालो माया तथाऽविद्या तत्त्वानामिति सप्तकं
रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्त्तिताः। पदानि प्रणवादीनि एकविंशतिसङ्ख्यया
ओं नमः शिवाय सर्वप्रभवे हं शिवाय ईशानमूर्द्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओं व्योम। ओं रूद्राणां भुवनानाञ्च स्वरूपमथ कथ्यते। प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः
वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः। वटुः प्रशान्तनामा च परमाक्षरसञ्ज्ञकः
शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च। अदृष्टरूपनामानौ तथाऽन्यो रूपवर्द्धनः
मनोन्मनो महावीर्य्यश्चित्राड्गस्तदनन्तरं। कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया
मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा। पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ
विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी। शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृता
अवस्थाऽत्र सुषुप्तिश्च रुद्रो देवस्तु कारणं। विद्यामध्यगतं सर्वं भावयेद्भवनादिकं
ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं। आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः
आत्मन्यारोप्य सङगृह्य कलां कुण्डे निवेशयेत्। रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति
पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिशुं। प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत्
आकृष्यादाय पूर्वोक्तविधिनाऽऽत्मनि योजयेत्। वामया योजयेद् योनौ गृहीत्वा द्वादशान्ततः
कुर्व्वीत देहसम्पत्तिं जन्माधिकारमेव च। भोगं लयन्तथा श्रोतः शुद्धितत्त्वविशोधनं
निः शेषमलकर्म्मादिपाशबन्धनिवृत्तये। निष्कृत्यैव विधानेन यजेत शतमाहुतीः
अस्त्रेण पाशशैथिल्यं मलशक्तिं तिरोहितां। छेदनं मर्द्दनं तेषां वर्त्तुलीकरणं तथा
दाहं तदक्षराभावं प्रायश्चित्तमथोदितं। रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणं
ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहाण स्वाहा। संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणं। विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत्
विन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः। दद्यात् पूर्णां विधानेन समस्तविधिपूरणीं
पूर्वोक्तविधिना कार्य्यं विद्यायां ताडनादिकं। स्ववीजन्तु विशेषः स्यादिति विद्या विशोधिता
ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते । सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना
कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्। समतत्त्वे समग्राणि सूत्रे मणिगणानिव
आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्। मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणं
प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भितां। एकयैव यया शिष्यो निर्व्वाणमधिगच्छति
योजनायै शिवे चान्यां स्थिरत्वापादनाय च। दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं
ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके क्षिये। सुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत्
तेषु क्षारोदं क्षीरीदं दध्युदं घृतसागरं। इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्
निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ। एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं
त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं। सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं
मध्ये शिवं समुद्रञ्च शिंवमन्त्रं च विन्यसेत्। यागालयान् दिगीशस्य रचिते स्नानमण्डपे