सहैतेन च पर्य्यन्ताः कथ्यन्तेऽथ पदान्यपि। व्यापिन् ओं अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष ओं अग्ने ओं अधूम ओं अभस्म ओं अनादि ओं नाना ओं धूधू ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वेसर्वेति द्वात्रिंशत् पदानि। बीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा
गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा। समानोदाननामानौ रसनापायुरिन्द्रिये
रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः। मण्डलं वर्त्तुलं तच्च पुण्डरीकाङ्कितं सितं
स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजं। प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकं
सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत् । ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फट् स्वाहान्तेनानैनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत् ततः ओं हां ह्रूं ह्रां ह्रूं प्रतितष्ठा कलापाशाय ह्रं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो नाडीसूत्रादादाय ओं हां ह्रूं ह्रां हां प्रतिष्ठाकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे समारोपयेत् ओं हां ह्रीं प्रतिष्ठाकलापशाय नम इत्यनेनार्च्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य सन्तर्प्य। विष्णो तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं
भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति। ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत्
आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत्। ओं हां हां हं फट् । प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया। ओं हां हं हों ह्रूं फट् । स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना
गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत् । ओं हां हं होम् आत्मने नमः। पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया
वामया तदनेनैव देवीगर्भे विनिक्षिपेत्। ओं हां हं हां आत्मन नमः। देहोत्पत्तौ हृदा ह्येवं शिरसा जन्मना तथा
शिखया वाधिकाराय भोगाय कवचाणुना। तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानाय पूर्ववत्
शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत्। एवं पाशवियोगेऽपि ततः शस्त्रात्मजप्तया
छिन्द्यादस्त्रेण कर्त्तंर्य्या कलाबीजवता यथा। ओं ह्रीं प्रतिष्ठाकलापाशाय हः फट्। विसृज्य वर्त्तुलीकृत्य पाशमस्त्रेण पूर्ववत्
घृतपूर्णे स्रुवे दत्वा कलास्त्रेणैव होमयेत्। अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः। ओं हः अस्त्राय ह्रूं फट्। हृदावाह्य हृषीकेशं कृत्वा पूजनतर्पणे
पूर्व्वोक्तविधिना कुर्य्यादधिकारसमर्पणं। ओं हां रसशुल्कं गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोरस्य हरे त्वया
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति। ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च
बाहुमुक्तार्द्धदृश्येन चन्द्रबिम्बेन सन्निभं। संहारमुद्रया स्वस्थं विधायोद्भवमुद्रया
सूत्रे संयोज्य विन्यस्य तोयबिन्दुं यथा पुरा। विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः
ईश्वर उवाच सन्धानमथ विद्यायाः प्राचीनकलया सह। कुर्वीत पूर्ववत् कृत्वा तत्त्वं वर्णय तद्यथा
ओं हों क्षीमिति सन्धानं। रागश्च शुद्धविद्या च नियतिः कलया सह। कालो माया तथाऽविद्या तत्त्वानामिति सप्तकं
रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्त्तिताः। पदानि प्रणवादीनि एकविंशतिसङ्ख्यया
ओं नमः शिवाय सर्वप्रभवे हं शिवाय ईशानमूर्द्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओं व्योम। ओं रूद्राणां भुवनानाञ्च स्वरूपमथ कथ्यते। प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः
वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः। वटुः प्रशान्तनामा च परमाक्षरसञ्ज्ञकः
शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च। अदृष्टरूपनामानौ तथाऽन्यो रूपवर्द्धनः
मनोन्मनो महावीर्य्यश्चित्राड्गस्तदनन्तरं। कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया
मन्त्रो घोरामरौ वीजे नाड्यौ द्वे तत्र ते यथा। पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ
विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी। शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृता
अवस्थाऽत्र सुषुप्तिश्च रुद्रो देवस्तु कारणं। विद्यामध्यगतं सर्वं भावयेद्भवनादिकं
ताडनं छेदनं तत्र प्रवेशञ्चापि योजनं। आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः