तदाकृष्य स्वमन्त्रेण गृहीत्वाऽऽत्मनि योजयेत्। ओं हां ह्रूं हाम् आत्मने नमः। पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत्
ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदं। गर्भाधानार्थमादाय युगपत् सर्वयोनिषु
क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया। ओं हां हां हां आत्मने नमः । पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा
अन्ययोनिषु सर्व्वासु देहशुद्धिं हृदा चरेत्। नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात्
सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत्। शिरसा जन्म कुर्व्वीत जुगुप्सन् सर्व्वदेहिनां
तथैव भावयेदेषामधिकारं शिवाणुना भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना
मोहरूपमभेदञ्च लयसञ्ज्ञं विभावयेत्। शिवेन स्रोतसां शुद्धिं हृदा तत्त्वविशोधनं
पञ्च पञ्चाहुतीः कुर्य्यात् गर्भाधानादिषु क्रमात्। मायया मलकर्मादिपाशबन्धनिवृत्तये
निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः। मलशक्तिनिरोधेन पाशानाञ्च वियोजनं
स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत्। मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया
कर्त्तर्य्या छेदनं कुर्य्यात् कल्पशस्त्रेण तद्यथा। ओं हूं निवृत्तिकलापाशाय हूं फट्। बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना
विसृज्य वर्त्तुलीकृत्य घृतपूर्णे स्रुवे धरेत्। दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात्
कुर्यात् पञ्चाहुतीर्दत्वा पाशाङ्कुशनिवृत्तये। ओं हः अस्त्राय हूं फट्। प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः
अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा। तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत् । दग्धनिःशेषपापस्य ब्रह्मन्नस्य पशोस्त्वया
बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति। ततो विसृज्य धातारं नाड्या दक्षिणया शनैः
संहारमुद्रयात्मानं कुम्भकेन निजात्मना। पूजयित्वार्घ्यंपात्रस्थतोयबिन्दुसुधोपमं
आदाय योजयेत् सूत्रे रेचकेनोद्भवाख्यया। पूजयित्वार्घ्यपात्रस्थतोयबिन्दुं सुधोपमं
आप्यायनाय शिष्यस्य गुरूः शिरसि विन्यसेत्। विसृज्य पितरौ दद्याद्वौषडन्तशिवाणुना। पूरणाय विधिः पूर्णो निवृत्तिरिति शोधिता
ईश्वर उवाच तत्त्वयोरथ सन्धानं कुर्य्याच्छुद्धविशुद्धयोः। ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना
ओं हां ह्रूं हाम् अप्तेजोवायुराकाशं तन्मात्रेन्द्रियबुद्धयः। गुणत्रयमहङ्काश्चतुर्विंशः पुमानिति
प्रतिष्ठायां निविष्टानि तत्त्वान्येतानि भावयेत्। पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च
पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः। तावन्त एव रुद्राश्च विज्ञेयास्तत्र तद्यथा
अमरेशः प्रभावश्च नैमिषः पुष्करोऽपि च। तथा पादिश्च दण्डिश्च भावभूतिरथाष्टमः
तु. स्कन्दपुराणे (७.१.१०) तीर्थानां महाभूतानुसारेण वर्गीकरणम् नकुलीशो हरिश्चन्द्रः श्रीशैलो दशमः स्मृतः। अन्वीशोऽस्नातिकेशश्च महाकालोऽथ मध्यमः
केदारो भैरवश्चैव द्वितीयाष्टकमीरितं। ततो गयाकुरुक्षेत्रखलानादिकनादिके
विमलश्चाट्टहासश्च महेन्द्रो भीम एव च। वस्वापदं रुद्रकोटिरवियुक्तो महाबलः
गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च। अजेशश्चैव सर्वज्ञो भास्वरः सूद नान्तरः
सुबाहुर्म्मत्तरूपी च विशालो जटिलस्तथा। रौद्रोऽथ पिङ्गलाक्षश्च कालदंष्ट्री भवेत्ततः
विदुरश्चैव घोरश्च प्राजापत्यो हुताशनः। कामरूपी तथा कालः कर्णोऽप्यथ भयानकः
मतङ्गः पिङ्गलश्चैव हरो वै धातृसञ्ज्ञकः। शङ्कुकर्णो विधानश्च श्रीकण्ठश्चन्द्रशेखरः