भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः। भरतेन नतश्चागादयोध्यान्तत्र संश्थितः
वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् । सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत्
वासुदेवं स्वमात्मानमश्वमेधैरथायजत्। सर्वदानानि स ददौ पालयामास स प्रजाः
पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः। सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी
नारद उवाच राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः। धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः
ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी। पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः। तपसा ब्रह्मदत्तेन वरेण जितदैवतः
कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः। स्वसा शूर्पणखा तेषां रावणान्मेघनादकः
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली। हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः। देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः
अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्। कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्। तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः। रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ। लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात्
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः। दशवर्षसहस्त्राणि दशवर्षसतानि च
अग्निरुवाच हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः । ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः
तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः। यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत
द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः
भूवो भारावतारार्थं देवक्यां वसुदेवतः। हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः
सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः । कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः
देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः । वसुदेवः कंसभयाद्यसोदाशयनेऽनयत्
यशोदावालिकां गृह्य देवकीशयनेऽनयत् । कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले
वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम। श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः
समर्पितास्तु देवक्या विवाहसमयेरिताः। सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम्
किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति। सर्वस्वभूतो देवानां भूभारहरणाय सः
इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता। आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि
भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम्। त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात्
कंसोपि पूतनादींश्च प्रैषयद् बालनाशने। यशोदापतिनन्दाय वसुदेवेन चार्पितौ
रक्षणाय च संसादेर्भीतेनैव हि गोकुले। रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह