ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया। हृत्सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत्
ओं हां हां हां आत्मने नमः । जाज्वल्यमाने निर्द्धूमे जुहुयादिष्टसिद्धये। अप्रवृद्धे सधूमे तु होमो वह्नौ न सिध्यति
स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यतेऽनलः। विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते
इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यष्य कल्मषं। पापभक्षणहोमेन दहेद्वा तं भवात्मना
द्विजत्वापादनार्थाय तथा रुद्रांशभावने। आहारवीज संशुद्धौ गर्भाधानाय संस्थितो
सीमन्ते जन्मतो नामकरणाच च होमयेत्। शतानि पञ्च मूलेन वौषडादिदशांशतः
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत्। आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते
स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं। मायात्मनोविवेकेन ज्ञानं सीमन्तवर्द्धनं
शिवादितत्त्वश्रुद्धेस्तु स्वीकारोजननं मतं। बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं
संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं। विदधीत समादाय निजे हृदयपङ्कजे
ततः कुम्भकयोगेन मूलमन्त्रमुदीरयेत्। कुर्य्यात् समवशीभावं तदा च शिवयोर्हृदि
ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः। नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया
हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित्। शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत्
पूजां शिवस्य वह्नेश्च गुरुः कुर्य्यात्तदोचितां। प्रणतिञ्चात्मने शिषयं समयान् श्रावयेत्तथा
देवं न निन्देच्छास्त्राणि निर्म्माल्यादिन लङ्घयेत्। शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां। यथाशक्ति ददीतार्थं समर्थस्य समग्रकान्
भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान्। ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात्
स्वाहान्तसंहितामन्त्रैः प्रात्रेष्वारोप्य पूर्ववत्। सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत्
रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं। शिवादाज्ञां समादाय ददीत व्रतिने गुरुः
एवं समयदीक्षायां विशिष्टायां विशेषतः। वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः
ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानादिको गुरुः। दध्यार्द्रमांसमद्यादेः प्रशस्ताऽभ्यवहारिता
गजाश्वारोहणं स्वप्ने शुभं शुक्लांशुकादिकं । तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये
नित्यकर्म्मद्वयं कृत्वा प्रविश्य मखमण्डपं। स्वाचान्तो नित्यवत् कर्म्म कुर्यान्नैमित्तिके विधौ
ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि। विन्यस्य कुम्भगं प्राच्चर्य इन्द्रादीनामनुक्रमात्
मण्डलो स्थण्डिले वाऽपि प्रकुर्वीत शिवार्च्चनं। तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणं
दुःस्वप्नदोषमोषाय शस्त्रेणाष्टाधिकं शतं। हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनं
अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः। कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो बहिर्व्रजेत्
कुर्य्यात्समयवत्तत्र मण्डलारोपणादिकं। सम्पातहोमं तन्नाडीरूपदर्भकरानुगं
तत्सन्निधानाय तिस्रो हुत्वा मूलाणुनाऽऽहुतीः। कुम्भस्थं शिवमभ्यर्च्च्य पाशसूत्रमुपाहरेत्
स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्च्चितस्य च। तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितं