सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं ।। ओं हां भूः स्वाहा। ओं हां भुवः स्वाहा। ओं हां स्वः स्वाहा। ओं हां भुर्भुवः स्वः स्वाहा। होमं व्याहृतिभिः कृत्वा दत्वाऽऽहुतिचतुष्टयं
ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हां अग्नीषोमाभ्यां स्वाहा। ओं हां अग्नये स्विष्टकृते स्वाहा। गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः। समग्नं सफलं तस्य क्रियाकाण्डादि वार्षिकं ।। यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः। इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं
द्विजादीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत्। दानेनानेन देवेश प्रीयतां मे सदाशिवः
भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत्। पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्ज्जयेत्
नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा। पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत्
प्रायश्चित्तं ततोऽस्त्रेण हुत्वा पूर्णाहुतिं यजेत्। भुक्तिकामः शिवायाथ कुर्य्यात् कर्म्मसमर्पणं
त्वत्प्रसादेन कर्म्मेदं ममास्तु फलसाधकं। मुक्तिकामस्तु कर्म्मेदं माऽस्तु मे नाथ बन्धकं
वह्निस्थं नाडीयोगेन शिवं संयोजयेच्छिवे। हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत्
समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान्। शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत्
विसृज्य लोकपालादीनादायेशात् पवित्रकं। सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं
तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत्। अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत्
यत् किञ्चिद्वार्षिकं कर्म्म कृतं न्यूनाधिकं मया। तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया
इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत् । त्यक्तनिर्म्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत्
ईश्वर उवाच वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत्। हरकोपात् पुरा जातो भैरवो दमिताः सुराः
तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा। प्रसन्नेनेरितं चेदं पूजयिष्यन्त्रि ये नराः
परिपूर्णफलं तेषां नान्यथा ते भविष्यति। सप्तम्यां वा त्रयो दश्यां दमनं संहितात्मभिः
सम्पूज्य बोधयेद् वृक्षं भववाक्येन मन्त्रवित्। हरप्रसादसम्भूत त्वमत्र सन्निधीभव
शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया। गृहेऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनं
यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान्। देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं
वामेन शिरसा वाऽथ नालं धात्रीं तथोत्तरे। दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं
पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं। पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत्
आमन्त्रितोऽकसि देवेश प्रातः काले मथा प्रभो। कर्त्तव्यस्तपसो लाभः पूर्ण सर्वं तवाज्ञया
मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं। प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्
नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः। शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः
मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः। ओं हौं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं। सर्व तदस्तु सम्पूर्णं यच्च दामनकं मम
ईश्वर उवाच वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।८२.००१ आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥८२.००१ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।८२.००२ तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥८२.००२ कुसुमेनास्त्रलिप्तेन(३) ताडयेत्तं हृदा शिशुं ।८२.००३ प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥८२.००३ प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।८२.००४ संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥८२.००४ ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।८२.००५ हृत्सम्पुटितमन्त्रेण(१) रेचकेन विनिक्षिपेत् ॥८२.००५ ओं हां हां हां आत्मने नमः(२) जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।८२.००६ अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥८२.००६ स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यतेऽनलः ।८२.००७ विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥८२.००७ इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यस्य कल्मषं ।८२.००८ पापभक्षणहोमेन(३) दहेद्वा तं भवात्मना ॥८२.००८ द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।८२.००९ आहारबीजसंशुद्धौ(४) गर्भाधानाय संस्थितौ ॥८२.००९ सीमन्ते जन्मतो नामकरणाय च होमयेत् ।८२.०१० शतानि पञ्च मूलेन वौषडादिदशांशतः ॥८२.०१० शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।८२.०११ आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥८२.०११ स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।८२.०१२ मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥८२.०१२ शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।८२.०१३ बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं(१) ॥८२.०१३ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।८२.०१४ विदधीत समादाय निजे हृदयपङ्कजे ॥८२.०१४ ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।८२.०१५ कुर्यात्समवशीभावं तदा च शिवयोर्हृदि ॥८२.०१५ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।८२.०१६ नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥८२.०१६ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।८२.०१७ शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥८२.०१७ पूजां शिवस्य वह्नेश्च गुरुः कुर्यात्तदोचितां ।८२.०१८ प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥८२.०१८ देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।८२.०१९ शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥८२.०१९ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।८२.०२० यथाशक्ति ददीतार्थं(२) समर्थस्य समग्रकान् ॥८२.०२० भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।८२.०२१ ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥८२.०२१ स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।८२.०२२ सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥८२.०२२ रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।८२.०२३ शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥८२.०२३ एवं समयदीक्षायां विशिष्टायां विशेषतः ।८२.०२४ वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥८२.०२४ इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः ॥ ईश्वर उवाच वक्ष्ये संस्कारदीक्षाया विधानं शृणु षण्मुक। आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि
संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयान्मना। ततोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं
कुसुमेनास्त्रलिप्तेन ताडयेत्तं हृदा शिशुं। प्रस्फुरत्तारकाकारं चैतन्यं तत्र बावयेत्
प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः। संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत्