सन्निधाने ततः शम्भोरुपविश्य निजासने। पवित्रमात्मने दद्याद् गणाय गुरुवह्नये
ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतं
तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतम्(४)। सर्वात्मनाऽमुना शम्भो पवित्रेण त्वदिच्छया
ओं पूरयमखव्रतं नियमेश्वराय स्वाहा। आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना
मूलं लयान्तमुच्चार्य्य पवित्रेणार्च्चयेच्छिवम्। विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते
ईश्वरान्तं समुच्चार्य्य पवित्रमधिरोपयेत्। शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते
शिवान्तं मन्त्रमुच्चार्य्य तस्मै देवं पवित्रकम्। सर्वकारणपालेषु शिवमुच्चर्य सुव्रत
मूलं लयान्तमुच्चार्य दद्याद् गङ्गावतारकम् । आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकम्
विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात्। स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत्
ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा। ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा । ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा। नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः। त्वङ्गतिः सर्व्वभूतानां संस्थितस्त्वञ्चराचरे
अन्तश्चारेण भूताना द्रष्टा त्वं परमेश्वर। कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्म्मम ।। मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतम्। जपहोमार्च्चनैर्हीनं कृतं नित्यं मया तव
अकृतं वाक्यहीनं च तत् पूरय महेश्वर । सपूतत्वं परेशान पवित्रं पापनाशनम्
त्वया पवित्रितं सर्व जगत् स्थावरजङ्गमम्। खण्डितं यन्मया देव व्रतं वैकल्पयोगतः
एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितम्। जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च
नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः। चतुर्म्मासं त्रिमासं वा त्र्यहमेकाहमेव च
प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती। पावलकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयम्
समारोप्य समभ्यर्च्च्य पुष्पधूपाक्षतादिभिः। अन्तर्बलिं पवित्रञ्च रुद्रदिभ्यो निवेदयेत्
प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत्। प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसं
शनैः पूर्णाहुतिं दत्वा वह्निस्थं विसृजेच्छिवं। होमं व्याहृतिमिः कृत्वा रुन्ध्यान्निष्ठुरयाऽनलं
अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयं। दिक्पतिभ्यस्ततो दद्यात् सपवित्रं बहिर्बलिं
सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकं ।। ओं हां भूः स्वाहा। ओं हां भुवः स्वाहा। ओं हां स्वः स्वाहा। ओं हां भुर्भुवः स्वः स्वाहा। होमं व्याहृतिभिः कृत्वा दत्वाऽऽहुतिचतुष्टयं
ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हां अग्नीषोमाभ्यां स्वाहा। ओं हां अग्नये स्विष्टकृते स्वाहा। गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः। समग्नं सफलं तस्य क्रियाकाण्डादि वार्षिकं ।। यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः। इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकं
द्विजादीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत्। दानेनानेन देवेश प्रीयतां मे सदाशिवः
भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत्। पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्ज्जयेत्
नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा। पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत्
प्रायश्चित्तं ततोऽस्त्रेण हुत्वा पूर्णाहुतिं यजेत्। भुक्तिकामः शिवायाथ कुर्य्यात् कर्म्मसमर्पणं
त्वत्प्रसादेन कर्म्मेदं ममास्तु फलसाधकं। मुक्तिकामस्तु कर्म्मेदं माऽस्तु मे नाथ बन्धकं
वह्निस्थं नाडीयोगेन शिवं संयोजयेच्छिवे। हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत्
समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान्। शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत्
विसृज्य लोकपालादीनादायेशात् पवित्रकं। सति चण्डेश्वरे पूजां कृत्वा दत्वा पवित्रकं