मन्त्रेसैर्ल्लेकपालैश्च सहितः परिचारकैः। निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम्
नियमञ्च करिष्यामि परमेश तवाज्ञया। इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतम्
शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत्। जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत्
हुत्वा चरोस्तृतीयांशं तद्ददीत शिवाग्नये । दिग्वासिब्यो दिगीशेभ्यो भूतमातृगणेभ्य उ
रुद्रेभ्यः क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयं। दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः
तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि। ओमग्नीषोमाभ्यां स्वाहाऽग्नये स्विष्टकृते तथा
इत्याहुतिच्तुष्कन्तु दत्वा कुर्य्यात्तु योजनाम्। वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे
नाडीसन्धानरूपेण विधिना योजयेत्तत्तः। वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः
अधिरोप्य पवित्राणि कलाभिर्वाऽथ मन्त्रयेत्। षडङ्गं ब्रह्ममूलैर्व्वां हृद्वर्म्मास्त्रञ्च योजयेत्
विधाय सूत्रैः संवेष्ट्य पूजयित्वाऽङ्गसम्भवैः । रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत्
पूजिते पुष्पधूपाद्यैर्द्दत्वा सिद्धान्तपुस्तके। गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकम्
निर्गत्य वहिराचम्य गोमये मण्डलत्रये। पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद यजेत् ।.
आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः। स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे
अनेनैव प्रकारेण मुमुक्षुरपि संविशेत्। केवलम्भस्मशय्यायां सोपवासः समाहितः
ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः। कृतसन्ध्यार्चनो मन्त्री प्रवीस्य मखमण्डपम्
समादाय पवित्राणि अविसर्जितदैवतः। ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले
ततो विसर्ज्य देवेशं निर्म्माल्यमपनीय च। पूर्ववद् भूतले शुद्धे कृत्वाह्नि कमथ द्वयम्
आदित्यद्वारदिक्पालकुम्भेशानौ शिवेऽनले । नैमित्तिकीं सविस्तारां कुर्य्यात् पूजां विशेषतः
मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना । अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः
पवित्रं भानवे दत्वा समाचम्य ददीत च। द्वारपालादिदिक्पालकुम्भवर्द्धनिकादिषु
सन्निधाने ततः शम्भोरुपविश्य निजासने। पवित्रमात्मने दद्याद् गणाय गुरुवह्नये
ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ । कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतं
तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतम्(४)। सर्वात्मनाऽमुना शम्भो पवित्रेण त्वदिच्छया
ओं पूरयमखव्रतं नियमेश्वराय स्वाहा। आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना
मूलं लयान्तमुच्चार्य्य पवित्रेणार्च्चयेच्छिवम्। विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते
ईश्वरान्तं समुच्चार्य्य पवित्रमधिरोपयेत्। शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते
शिवान्तं मन्त्रमुच्चार्य्य तस्मै देवं पवित्रकम्। सर्वकारणपालेषु शिवमुच्चर्य सुव्रत
मूलं लयान्तमुच्चार्य दद्याद् गङ्गावतारकम् । आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकम्
विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात्। स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत्
ओं हां आत्मतत्त्वाधिपतये शिवाय स्वाहा। ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा । ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा। नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः। त्वङ्गतिः सर्व्वभूतानां संस्थितस्त्वञ्चराचरे