शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत्। रावणः शोकस्न्तप्तः सीतां हन्तुं समुद्यतः
अविन्ध्यवारितो राजरथस्यः सबलौययौ। इन्द्रोक्तो मातलीरामं रथस्थं प्रचकार तम्
रामरावणयोर्युद्धं रामरावणयोरिव। रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम्
रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा। तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम्
धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि। पैतामहेन हृदयं भित्त्वा रामेण रावणः
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः। आश्वास्य तञ्च संस्कृत्य रामज्ञप्तो विभीषणः
हनृमतानयद्रामः सीतां शुद्धां गृहीतवान्। रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः
ब्रह्मणा दशरथेन त्वं विष्ण् राक्षसमर्द्दनः। इन्द्रौर्च्चितोऽमृतवृष्ट्या जीवयामास वानरान्
रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते । रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान्
ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः। दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः
भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः। भरतेन नतश्चागादयोध्यान्तत्र संश्थितः
वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् । सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत्
वासुदेवं स्वमात्मानमश्वमेधैरथायजत्। सर्वदानानि स ददौ पालयामास स प्रजाः
पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः। सर्वधर्म्मपरो लोकः सर्वशस्या च मेदिनी
नारद उवाच राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः। धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः
ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्यनैकषी। पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः
नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः। तपसा ब्रह्मदत्तेन वरेण जितदैवतः
कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्धिभीषणः। स्वसा शूर्पणखा तेषां रावणान्मेघनादकः
इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली। हतस्त्वया लक्षमणेन देवादेः क्षेममिच्छता
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः। देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः
अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्। कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः
शैलूषं दुप्टगन्धर्वं सिन्धुतीरनिवासिनम्। तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः
भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः। रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः
पुत्रौ कुशल्वौ जातौ वाल्मीकेराश्रमे वरौ। लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात्
राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः। दशवर्षसहस्त्राणि दशवर्षसतानि च
अग्निरुवाच हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः । ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः
तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः। यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत
द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः
भूवो भारावतारार्थं देवक्यां वसुदेवतः। हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया
विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः