शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत्। शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता
अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः। नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः
अर्घ्याम्बुपञ्चगव्यञ्च समस्तान् मखमण्डपे। चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः
विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् । तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत्
नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत्। पश्चिमाभिमुखं कुम्भं सर्वदान्योपरि स्थितम्
प्रणवेन वृषारूढं सिहस्थां वर्द्धनीन्ततः। कुम्भे शाङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत्
दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्। वर्द्धनीं सम्यगादाय घटप्टष्ठानुगामिनीं
शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम्। अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत्
समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम्। पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः
समग्रासनके कुम्भे यजेद्देवं स्थिरासने। वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा
तद्दशांश्न वर्द्धन्यां रक्षां विज्ञापयेदपि । गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः
स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्। विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम्
देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्त्रिधा। दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि
शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम्। तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदां
सद्योजातेन च हृदा चोत्तरे वामनीकृतम् । जलं वामेन शिरसा ईशे गन्धान्वितं जलम्
पञ्चगव्यं पलाशादिपुटकं वै समन्ततः। ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां
अगुरुं निर्ऋताशायां वायव्यां च चतुः समम्। होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः
दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे। कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि। आसनं पादुके पात्रं योगपट्टातपत्रकम्
ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये। पूर्वस्याञ्चरुकं साज्यं दद्याद् गन्धादिकं नवे
पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा। संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं
कृष्णाजिनादिनाऽऽच्छाद्य स्मरन् संवत्सरात्मकम्। साक्षइणं सर्वकृत्यानां गोप्तारं शिवमव्ययं
स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः। शोधयेच्च पवित्राणि वाराणामेकविंशतिं
गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत्। पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः
नन्द्यादिब्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च । शस्त्रेभ्यो लोकपालेब्यः स्वनाम्ना शिवकुम्भके
वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत्। अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया
आमन्त्रय च पवित्रं तत् विधायाञ्जलिमध्यगम्। आसस्तविधिच्छिद्रपूरणे च विधि प्रति
प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां। तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते
सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे। आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः