स्यादेकैकं तथा द्वारदिक्पालकलशादिषु। हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम्
अष्टाविंशतितो वृद्धं दशभिर्द्दशभिः क्रमात्। द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः
ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितम्। सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः
भूषयेत् पुष्पवस्त्रद्यैः सायाह्ने यागमन्दिरं। कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणम्
परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत् । आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः
द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्च्चयेत्। हां शन्तिकलद्वारं द्वौ द्वौ द्वाराधिपौ यजेत्
निवृत्तिकलाद्वारायप्रतिष्ठाख्यकलात्मने। तच्छाकयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत्
जन्दिने महाकालाय भृङ्गिणेऽथ गणाय च। वृषभाय च स्कन्दाय देव्यै चण्डायचक्रमात्
नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे। इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः
प्रोक्षणाद्यं विदायाथ यज्ञसम्बारकृन्नरः। मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः
शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत्। शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता
अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः। नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः
अर्घ्याम्बुपञ्चगव्यञ्च समस्तान् मखमण्डपे। चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः
विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् । तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत्
नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत्। पश्चिमाभिमुखं कुम्भं सर्वदान्योपरि स्थितम्
प्रणवेन वृषारूढं सिहस्थां वर्द्धनीन्ततः। कुम्भे शाङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत्
दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्। वर्द्धनीं सम्यगादाय घटप्टष्ठानुगामिनीं
शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम्। अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत्
समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम्। पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः
समग्रासनके कुम्भे यजेद्देवं स्थिरासने। वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा
तद्दशांश्न वर्द्धन्यां रक्षां विज्ञापयेदपि । गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः
स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्। विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम्
देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्त्रिधा। दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि
शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम्। तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदां
सद्योजातेन च हृदा चोत्तरे वामनीकृतम् । जलं वामेन शिरसा ईशे गन्धान्वितं जलम्
पञ्चगव्यं पलाशादिपुटकं वै समन्ततः। ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां
अगुरुं निर्ऋताशायां वायव्यां च चतुः समम्। होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः
दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे। कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि। आसनं पादुके पात्रं योगपट्टातपत्रकम्