ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् । यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम्
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना। शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा। शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु
यथावत् सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्। खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः
ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्। इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम्
पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम्। चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान्
कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्। कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम्
होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः। घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम्
स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना। पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया
समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः। नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः
ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्णया । वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्। तदग्नौ जुहुयादाज्यं यवसम्मितधारया
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि। भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परं
ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान्। संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च
भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना । श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् । अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा। वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ । अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः। हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा
वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः। द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च
नैर्ऋताय जलेशाय वायवे धनरक्षिणे। ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः
नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः। बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि
ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्म्मन्त्रैर्यजेच्च गाम्। ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः
ओं कपिले सुशीले नमः कपिले सुरभिप्रभे। ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः
सौरभेयि जगन्मातर्देवानाममृतप्रदे। गृहाण वरदे ग्रासमीपसितार्थञ्च देहि मे
वन्दिताऽसि वसिष्ठेन विश्वामित्रेण धीमता। कपिले हर मे पापं यन्तया दुष्कृतं कृतम्
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावो मे हृदये चापि गवां मध्ये वसाम्यहम्
दत्तं गुह्णन्तु मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः। प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः
यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम्। पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुषिपिका
मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत्। ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा