अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत्। क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं
पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत्। क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत्
स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात्। ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हां अग्नीषोमाभ्यां स्वाहा। उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये भुखे
स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत्। ओं हां अग्नये स्विष्टकृते स्वाहा। अभिमन्ञ्य षडङ्गेन बोधयेद्धेनुमुद्रया
अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना । हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं
वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा। ओं हां सद्योजाताय स्वाहा। ओं हां वामदेवाय स्वाहा। ओं हां अघोराय स्वाहा। ओं तत्पुरुषाय स्वाहा। ओं हां ईशानाय स्वाहा। इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम्
औं हां सद्योजातवामदेवाभ्यां स्वाहा। ओं हां वामदेवाघोराब्यां स्वाहा। ओं हां अघोरतत्पुरुषाभ्यां स्वाहा। ओं हां तत्पुरुषेशानाब्यां स्वाहा। इतीवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत्। अग्नितो गतया वायुं निर्ऋतादिशिवान्तया
बक्त्राणापेकतां कुर्य्यात् स्रुवेण घृतधारया। ओं हां सद्योजातवामदेवाघोरतत्पुरुषेसानेभ्यः स्वारा। इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः
ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयम्। कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन
हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं। मूलेन वौषुडन्तेन दद्यात् पूर्णां यथाविधि
ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् । यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम्
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना। शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा। शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु
यथावत् सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्। खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः
ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्। इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम्
पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम्। चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान्
कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्। कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम्
होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः। घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम्
स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना। पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया
समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः। नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः
ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्णया । वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्। तदग्नौ जुहुयादाज्यं यवसम्मितधारया
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि। भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परं
ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान्। संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च
भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना । श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् । अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा। वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ । अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः। हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा
वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः। द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च