रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः। कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः
वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्। अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्। वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्
क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्। औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम्
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्। संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम्
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्। पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्र्ध्वं प्रदक्षिणम्
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे। वागीश्वरेण देवेन क्षिप्यमानं विभावयेत्
भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्। ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम्
सम्भृतिं परिधानस्य शौचमाचमनं हृदा। गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना
वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे। गर्भाधानाय सम्पूज्य सद्योजातेन पावकम्
ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम्। पुंसवनाय वामेन तृतीये मासि पूजयेत्
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं। सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा
जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु। वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्घाटननिष्कृती
जातकर्म्मंनृकर्म्मभ्यां दशमे मासि पूर्ववत। वह्नि सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहं
सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत्। सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा
कुम्भन्तु वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत्। अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान्
आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरं। वक्ताणामस्त्रमन्त्रेण ततो नालापन्तुत्तये
समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः। ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत्
दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात्। इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात्
अग्नेरभिमुशीभूतान् निजदिक्षु हृदार्च्चयेत्। निनार्य्य विघ्नसङ्घातं वालकं पालयिष्यथ
शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तम्। गृहीत्वा स्रुक्स्रुवावलूर्ध्ववदनाधोमुखैः क्रमात्
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्परृशेत् । कुशस्पृषृप्रदेशे तु आत्मविद्याशिवात्मकं
क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात्। स्रुचि शक्तिं स्तुवे शम्भुं विन्यस्य हृदयाणुना
त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः। कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे
गव्यमाज्यं समादाय वीक्षणादिविशोधितं। स्वकां ब्रह्ममयीं मूर्त्ति सञ्चिन्त्यादाय तद्घृतं
कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे। पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे
धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना । जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं
बावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः। प्रादेशमात्रदर्भाभप्यामङ्गुष्ठानामिकाग्रकैः
धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्। हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः
हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत्। दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत्