कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्। कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम्
होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः। घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम्
स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना। पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया
समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः। नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः
ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्णया । वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्। तदग्नौ जुहुयादाज्यं यवसम्मितधारया
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि। भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परं
ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान्। संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च
भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना । श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् । अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा। वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ । अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः। हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा
वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः। द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च
नैर्ऋताय जलेशाय वायवे धनरक्षिणे। ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः
नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः। बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि
ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः। यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्
उदङ्मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः। विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं
खड्गेन खातमुद्धारं पूरणं समतामपि। कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना
सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा
रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः। कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः
वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्। अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्। वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्
क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्। औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम्
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्। संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम्
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्। पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्र्ध्वं प्रदक्षिणम्
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे। वागीश्वरेण देवेन क्षिप्यमानं विभावयेत्
भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्। ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम्
सम्भृतिं परिधानस्य शौचमाचमनं हृदा। गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना
वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे। गर्भाधानाय सम्पूज्य सद्योजातेन पावकम्