आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरं। वक्ताणामस्त्रमन्त्रेण ततो नालापन्तुत्तये
समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः। ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत्
दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात्। इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात्
अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्च्चयेत्। निवार्य्य विघ्नसङ्घातं बालकं पालयिष्यथ
शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तरम्। गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात्
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् । [https://vedastudy.yolasite.com/kusha1.php कुश]स्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं
क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात्। स्रुचि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना
त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः। कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे
गव्यमाज्यं समादाय वीक्षणादिविशोधितं। स्वकां ब्रह्ममयीं मूर्त्ति सञ्चिन्त्यादाय तद्घृतं
कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे। पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे
धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना । जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं
बावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः। प्रादेशमात्रदर्भाभप्यामङ्गुष्ठानामिकाग्रकैः
धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्। हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः
हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत्। दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत्
अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत्। क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितं
पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत्। क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत्
स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात्। ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हां अग्नीषोमाभ्यां स्वाहा। उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये भुखे
स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत्। ओं हां अग्नये स्विष्टकृते स्वाहा। अभिमन्ञ्य षडङ्गेन बोधयेद्धेनुमुद्रया
अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना । हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं
वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा। ओं हां सद्योजाताय स्वाहा। ओं हां वामदेवाय स्वाहा। ओं हां अघोराय स्वाहा। ओं तत्पुरुषाय स्वाहा। ओं हां ईशानाय स्वाहा। इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम्
औं हां सद्योजातवामदेवाभ्यां स्वाहा। ओं हां वामदेवाघोराब्यां स्वाहा। ओं हां अघोरतत्पुरुषाभ्यां स्वाहा। ओं हां तत्पुरुषेशानाब्यां स्वाहा। इतीवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत्। अग्नितो गतया वायुं निर्ऋतादिशिवान्तया
बक्त्राणापेकतां कुर्य्यात् स्रुवेण घृतधारया। ओं हां सद्योजातवामदेवाघोरतत्पुरुषेसानेभ्यः स्वारा। इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः
ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयम्। कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन
हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं। मूलेन वौषुडन्तेन दद्यात् पूर्णां यथाविधि
ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् । यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम्
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना। शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा। शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु
यथावत् सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्। खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः
ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्। इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम्
पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम्। चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान्