रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरम् । ब्राह्मणान् बोजयेच्छक्त्या शक्त्या दद्याच्च दक्षिणाम्
गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः। पूर्ववन्मण्डलाद्ये च ऐशान्यां भद्रपीठके
दर्प्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्व्ववद् घटैः। नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः
न्यसेत्तु पौरुषं सूक्तं वेदाद्यं तत्र पुस्तके। कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः
सम्प्राश्य दक्षिणाभिस्तु गुर्व्वादीन् भोजयेद् द्विजान्। रथेन हस्तिना वापि भ्रामयेत् पुस्तकं नरैः
गृहे देवालयादौ तु षुस्तकं स्थाप्य पूजयेत्। वस्त्रादिवेष्टितं पाठादादावन्ते समर्च्चयेत्
जगच्छान्तिञ्चावधार्य्य पुस्तकं वाचयेन्नरः। अद्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत्
द्विजाय पुस्तकं दत्त्वा फलस्यान्तो न विद्यते। त्रीण्याहुरतिदीनानि गावः पृथ्वी सरस्वती
विद्यादानफलं दत्त्वा मस्यन्तं पत्रसञ्चयम्। यावत्तु पत्रसङ्ख्यानमक्षराणां तथाऽन्घ
तावद्वर्षसहस्राणि विष्णुलोके महीयते। पञ्चरात्रं पुराणानि भारतानि ददन्नरः। कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते
ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः। यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्
उदङ्मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः। विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं
खड्गेन खातमुद्धारं पूरणं समतामपि। कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना
सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा
रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः। कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः
वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्। अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्। वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्
क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्। औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम्
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्। संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम्
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्। पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्र्ध्वं प्रदक्षिणम्
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे। वागीश्वरेण देवेन क्षिप्यमानं विभावयेत्
भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्। ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम्
सम्भृतिं परिधानस्य शौचमाचमनं हृदा। गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना
वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे। गर्भाधानाय सम्पूज्य सद्योजातेन पावकम्
ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम्। पुंसवनाय वामेन तृतीये मासि पूजयेत्
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं। सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा
जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु। वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्घाटननिष्कृती
जातकर्म्मंनृकर्म्मभ्यां दशमे मासि पूर्ववत। वह्नि सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहं
सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत्। सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा
कुम्भन्तु वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत्। अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान्