सुदर्शन महाचक्र शान्त दुष्टभयङ्कर। च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय अभ्यर्च्य चक्रं चानेन रणे दारयते रिपून्
ओं क्षों नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा ओं क्षौं नमो भगवते नरसिंहाय प्रदिप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधाय स्फुटविकटविकीर्णकेसरसटा प्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुषपरापर ब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश अविश सर्वमन्त्ररूपाणि सर्व्वमन्त्रजातयश्च हन् हन छिन्द छिन्द सङ्क्षिप सङ्क्षिप सर सर दारय दारय स्फुट स्फुट स्फोटय ज्वालामालासङ्घातमय सर्वतोऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतोऽनन्तज्वलावज्रशरपञ्चरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फट् असुरेभ्यः फट् मन्त्ररूपेभ्यः फट् मन्त्रजातिभ्यः फट् संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष ह्रूं फट् नमाऽस्तु ते
त्रैलोक्यमोहनैर्म्मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः। गदी दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः
वामोद्र्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्यधः। श्रीपुष्टिसंयुतं कुर्य्याद् बलेन सह भद्रया
प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपेऽपि वा। वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकम्
स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान्। सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकम्
अर्द्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः। भैरवं च तथा सूर्य्यं ग्रहांस्तद्वद्विनायकम्
गौरीमिन्द्रादिकां लेप्यां चित्रजां च बलाबलाम्। पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखनतद्विधिम्
स्वस्तिके मण्डलेऽभ्यर्च्य शरपत्रासने स्थितम् । लोख्यञ्च लिखितं पुस्तं गुरुं विद्यां हरिं यजेत्
यजमानो गुरुं विद्यां हरिं लिपिकृतं नरम्। प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा श्लोकपञ्चकम्
रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरम् । ब्राह्मणान् बोजयेच्छक्त्या शक्त्या दद्याच्च दक्षिणाम्
गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः। पूर्ववन्मण्डलाद्ये च ऐशान्यां भद्रपीठके
दर्प्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्व्ववद् घटैः। नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः
न्यसेत्तु पौरुषं सूक्तं वेदाद्यं तत्र पुस्तके। कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः
सम्प्राश्य दक्षिणाभिस्तु गुर्व्वादीन् भोजयेद् द्विजान्। रथेन हस्तिना वापि भ्रामयेत् पुस्तकं नरैः
गृहे देवालयादौ तु षुस्तकं स्थाप्य पूजयेत्। वस्त्रादिवेष्टितं पाठादादावन्ते समर्च्चयेत्
जगच्छान्तिञ्चावधार्य्य पुस्तकं वाचयेन्नरः। अद्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत्
द्विजाय पुस्तकं दत्त्वा फलस्यान्तो न विद्यते। त्रीण्याहुरतिदीनानि गावः पृथ्वी सरस्वती
विद्यादानफलं दत्त्वा मस्यन्तं पत्रसञ्चयम्। यावत्तु पत्रसङ्ख्यानमक्षराणां तथाऽन्घ
तावद्वर्षसहस्राणि विष्णुलोके महीयते। पञ्चरात्रं पुराणानि भारतानि ददन्नरः। कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते
ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः। यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्
उदङ्मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः। विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं
खड्गेन खातमुद्धारं पूरणं समतामपि। कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना
सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा
रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः। कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः
वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्। अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्। वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्
क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्। औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम्
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्। संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम्
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्। पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्र्ध्वं प्रदक्षिणम्