यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः। तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यताम्
आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान्। स्वनाम्ना स्थापयेदन्यानायुधादीन् स्वमुद्रया
यात्रावर्षादिकं दृष्ट्वा ज्ञेयः स्न्निहितो हरिः। नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकम्
चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः। अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत्
दिगीशान् दिशि देवाश्चं स्थाप्य सम्पूज्य देशिकः। विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत्
सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्पयेत्। ग्रामवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत्
यागोपयोगिद्रव्याद्यमाचार्य्याय नरोर्पयेत्। आचार्य्यादक्षिणार्द्धन्तु ऋत्विगभ्यो दक्षिणां ददेत्
अन्येब्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः। अवारितान् फलान् दद्याद्यजमानाय वैगुरुः
विष्णुं नयेत् प्रतिष्ठाता चात्मना सकलं कुलम । सर्वेषामेव देवानामेष साधारणो विधिः। मूलमन्त्राः पृथक् तेषा शेषं कार्य्यं समानकम्
भगवानुवाच समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते। लक्ष्म्याः प्रतिष्ठां प्रथमं तथा देवीगणस्य च
पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकम् । भद्रपीठेश्रियं न्यस्य स्थापयेदष्ट वै घटा
घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः। हिरण्यवर्णां हरिणी नेत्रे चोन्मीलयेच्छ्रियाः
तन्म आवह इत्येवं प्रदद्यान्मधुरत्रयम्। अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्
कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत्। चन्द्रं प्रभासामुच्चार्य्याद्त्यवर्णेति चोत्तरात्
उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैर्ऋतात्। गन्धद्वारेति वायव्यां मनसः कममाकृतिम्
ईशानकलशेनैव शिरः सौवर्णकर्द्दमात्। एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम्
आद्र्द्रां पुष्करिणीं गन्धैराद्र्द्रामित्यादिपुष्पकैः। तन्मयावह मन्त्रेण य आनन्द ऋ चाखिलम्
शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम्। लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः
श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत्। करवीराणि वा हत्वा सहस्रं शतमेव वा
गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत्। ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत्
मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः । श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत्
चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत्। भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणेर्पयेत्। एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत्
अग्निपुराणम् अध्यायः ७१- गणेशपूजाविधिः अथ एकसप्ततितमोऽध्यायः ईश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदाम् । गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः
गजकर्णिने च शिखा गजवक्त्राय वर्ग च । महोदराय स्वदन्तहस्तायाति तथास्त्रकम्
गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः । मुख्यास्थिमण्डलं चाधश्चोर्ध्वच्छदनमर्चयेत्
पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दयार्चयेत् । सूर्येशा कामरूपा च उदया कामवर्तिनी
सत्या च विघ्ननाशा च ग्रासनं गन्धमृत्तिका । यं शोषो रं च दहनं प्लवो लं वं तथामृतम्
लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ॥ गणपतिर्गणाधिपो गणेशो गणनायकः। गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः
गजवक्त्रो लम्बकुक्षिर्विकटो विघ्ननाशनः। धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः
भगवानुवाच एवं ताक्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस्तथा। प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण तां श्रृणु