स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः । गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती
दहेत्तु विष्णुगायत्र्या गायत्रया श्रपयेच्चरुम्। होमयेच्च बलिं दद्यादुत्तरे भोजयेद् द्विजान्
सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत्। दिकपतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरम्
ब्रह्मगीतादिशब्देन सर्वभागधिवासनात्
भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा। विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः
देवमानुषपैशाचभागेषु न कदायन। ब्रह्मभागं परित्यज्य किञ्चदाश्रित्य चाण्डज
देवमानुषभागाभ्यां स्थाप्या यत्नात्तुपिण्डिका । नपुंसकशिलायान्तु रत्नन्यासं समाचरेत्
नारसिंहेन हुत्वाथ नत्नयासं च तेन वै। व्रीहीन् सत्नांस्त्रिधातूँश्च लोहादींश्चन्दनादिकान्
पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि। अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्गुलुनावृतः
रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः। सशलाकैर्द्दर्भपुञ्जैः सहदेवैः समन्वितैः
सबाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत्। प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन च
होमार्थे स्थण्डिलं कुर्य्यात् सिकतामिः समन्ततः। सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम्
अष्टदिक्षु यथान्यासं कलशानाप विन्यसेत्। पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतम्
त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत्। अष्टार्णेनाष्टशतकं आज्यं पूर्णा प्रदापयेत्
शान्त्युदकं आम्रपत्रैः मूलेन शतमन्त्रितम्। सिञ्चेद्देवस्य तन्मूर्दिध्न श्रीश्च ते ह्यनया ऋचा
ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते। तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत्
शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकम्। गीतवेदादिशब्दैश्च प्रासादद्वारि धारयेत्
स्त्रीभिर्विप्रैर्मङ्गलाष्टघटै संस्नापयेद्धरिम्। ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः
अतो देवेति वस्त्राद्यामष्टाङ्गार्घ्यं निवेद्य च। स्थिरेलग्ने पिण्डिकायां देवस्य त्वेति धारयेत्
ओं त्रेलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम। संस्थाप्या पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः
ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि। पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च
पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम्। ध्यायेत् स्वं तस्य मूर्त्तिन्तु पृथिवी त्स्य पीठिका
कल्पयेकद्विग्रहं तस्य तैजसैः परमाणुभिः। जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगम्
चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितम्। देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्
ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु व्यवस्थितम्। हृदयात् प्रतिमाविभ्बे स्थिरो भव परेश्वर
सजीवं कुरु विम्बं त्वं ब्हह्म एकमेवाद्वितीयकम्। सजीवीकरणं कृत्वा प्रणवेन निबोध्येत्
ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकम्। सजीवीकरणं कृत्वा प्रणवेन निबोधयेत्
सान्निध्यकरणन्नाम हृदयं स्पृस्य वै जपेन्। सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत्
नमस्तेस्तु सुरेशाय सन्तोषविभवात्नमे। ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने
गुणातिक्रान्तवेशाय पुरुषाय भहात्मने। अक्षयाय पुराणाय विष्णो सन्निहितो भव