तन्मध्ये पौरुषीं शक्ति ध्यात्वाभ्यर्च्य च देशिकः । प्रतिमायां हरि न्यस्य तत्र तं पूजयेत् सुरान्
गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात्। द्वादशाक्षरवीजैस्तु केशवादीन् समर्च्चयेत्
द्वादशारे मण्डले तु लोकपालादिकं क्रमात्। प्रतिमामर्च्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः
पौरुषेण तु सूक्तेन श्रिया सूक्तेन पिण्डिकाम्। जननादिक्रमात् पञ्चाज्जनयेद्वैष्णवानलम्
हुत्वाग्निं वैष्णवैर्म्मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः। तत् सिक्त्वा प्रतिमामूद्र्ध्नि वह्निप्रणयनं चरेत्
दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद् बुधः। अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः
उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे। अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्रिरुच्यते
पलाशसमिधानान्तु अष्टोत्तरसहस्रकम्। कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा
साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम्। कुर्य्यात्ततः शान्तिहोमं मधुरत्रितयेन च
द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन्मस्तकं ततः। घृतं दधि पयो हुत्वा स्पृशेन्मूर्द्धन्यथो ततः
स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः । गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती
दहेत्तु विष्णुगायत्र्या गायत्रया श्रपयेच्चरुम्। होमयेच्च बलिं दद्यादुत्तरे भोजयेद् द्विजान्
सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत्। दिकपतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरम्
ब्रह्मगीतादिशब्देन सर्वभागधिवासनात्
भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा। विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः
देवमानुषपैशाचभागेषु न कदायन। ब्रह्मभागं परित्यज्य किञ्चदाश्रित्य चाण्डज
देवमानुषभागाभ्यां स्थाप्या यत्नात्तुपिण्डिका । नपुंसकशिलायान्तु रत्नन्यासं समाचरेत्
नारसिंहेन हुत्वाथ नत्नयासं च तेन वै। व्रीहीन् सत्नांस्त्रिधातूँश्च लोहादींश्चन्दनादिकान्
पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि। अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्गुलुनावृतः
रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः। सशलाकैर्द्दर्भपुञ्जैः सहदेवैः समन्वितैः
सबाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत्। प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन च
होमार्थे स्थण्डिलं कुर्य्यात् सिकतामिः समन्ततः। सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम्
अष्टदिक्षु यथान्यासं कलशानाप विन्यसेत्। पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतम्
त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत्। अष्टार्णेनाष्टशतकं आज्यं पूर्णा प्रदापयेत्
शान्त्युदकं आम्रपत्रैः मूलेन शतमन्त्रितम्। सिञ्चेद्देवस्य तन्मूर्दिध्न श्रीश्च ते ह्यनया ऋचा
ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते। तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत्
शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकम्। गीतवेदादिशब्दैश्च प्रासादद्वारि धारयेत्
स्त्रीभिर्विप्रैर्मङ्गलाष्टघटै संस्नापयेद्धरिम्। ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः
अतो देवेति वस्त्राद्यामष्टाङ्गार्घ्यं निवेद्य च। स्थिरेलग्ने पिण्डिकायां देवस्य त्वेति धारयेत्
ओं त्रेलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम। संस्थाप्या पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः