अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु। जित्वा दधिमुखादींश्च दृष्ट्वा तेऽब्रवन्
दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम्। कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति
सीताकथामृतेनैव सिञ्च मां कामवह्निगम्। हनूमानब्रवोद्रामं लङ्घयित्वाऽब्धिमागतः
सीतां दृष्ठ्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै। हत्वा त्वं रावणं सीतां प्रास्यसे राम मा शुचः
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः । मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्
तथा विना न जीवामि सुग्रीवाद्यैः प्रबोधितः। समुद्रतीरं गतवान् तत्र रामं विभीषणः
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना। रामाय देहि सीतां त्वमित्युक्तेनासहायवान्
रामो विभीषणं मित्रं लङ्कैवर्येऽभ्यषेचयत्। समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः
भेदयामास रामञ्च उवाचाब्धि समागतः। नलेन सेतुं बद्ध्वाब्धौ लङ्कां व्रज गभीरकः
अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना। कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः
नारद उवाच रामोक्तञ्चाङ्गदौ गत्वा रावणं प्राह जानकी। दीयतां राघवायाशु अन्यथा त्वं मरिप्यसि
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः। रामयाह दशग्रीवो युद्धमेकं तु मन्यते
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ। वानरो हनुमान मैन्दो द्विविदौ जाम्बवान्नलः
नीलस्तारोङ्गदो धूभ्रः सुषेणः केशरी गयः। पनसो विनतो रम्भः शरभः कथनो बली
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः। एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः
रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ। राक्षसा वानराञजघ्नुः शरशक्तिगदादिभिः
वानरा राक्षसाञ् जघ्नुर्नखदन्तशिलादिभिः। हस्त्थश्वरथपादातं राक्षसानां बलं हतम्
हनूमान् गिरिऋङ्गेण धूम्राक्षमवधीद्रिपुम्। अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत्
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्षमणौ। तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्ननू राक्षसं बलम्
रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे। रावणः कुम्बकर्णञ्च बौधयामास दुः खितः
कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्त्रकम्। मद्यस्य महिषादीनां भक्षयित्वाह रावणम्
सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः। अतो गच्छामि युद्धाय रामं हन्मि सवानरम्
इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह। गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः
कर्णनासाविहीनोऽसौ भक्ष यामास वानरान्। अथ कुम्भो निकुमभश्च मकराक्षश्च राक्षसः
ततः पादौ ततश्छित्त्वा शिरो भूमौ व्यपातयत् । अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः
महोदरो महापार्श्वो मत्त उन्तत्तराक्षसः। प्रघसो भासकर्णश्च विरूपाक्षस्छ संयुगे
देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः। रामेण लक्ष्मणेनैते वानरैः सविभीषणैः
युध्यमानास्तथाह्यन्ये राक्षसाभुवि पातिताः। इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह
वरदत्तैर्नागबाणै रोषध्या तौ विशल्यकौ। विशल्ययाव्रणौ कृत्वा मारुत्यानीतपर्वने
हनूमान् धारयामास तत्रागं यत्र संश्थितः। निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः