पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः। कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः श्रृणु
आकाशवायुतेजांसि सलिलं पृथिवी तथा। स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते
प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत्। हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः
फकारमपि तत्रैव अहङ्कारमयं न्यसेत्। मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम्
शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत्। स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत्
दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् । थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत्
तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्। णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि
डकारं नेत्रयुग्मे तु रसनायां ठकारकम्। टकारं नासिकायान्तु ञकारं वाचि विन्यसेत्
झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः। जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके
विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके। वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत्
खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत्। ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः
हृत्पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतम्। द्वासप्ततिसहस्त्राणि हृदयादभिनिः सृताः
कलाषोडशसंयुक्त मकारं तत्र विन्यसेत्। तन्मध्ये चिन्तयेन्मन्त्री बिन्दुं वह्नेस्तु मण्डलम्
हकारं विन्यसेत्तत्र प्रणवेन सुरोत्तमः। ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने
ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः। ओं वा नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः
स्थाने तु प्रथमा योज्या द्वितीया आसने मता। तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि
ग्रत्यर्च्चायां पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः। हुङ्कारं विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिम्
यां मूर्ति स्थापयेत्तस्मात् मूलमन्त्रं न्यसेत्ततः। ओं नमों भगवते वासुदेवाय मूलकम्
शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात्। भुजयोर्जङ्घयोरङ्घ्र्योः केशवं शिरसि न्यसेत्
नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत्। गोविन्दं भुजयोर्न्यस्य विष्णु च हृदेये न्यसेत्
मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत्। कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत्
हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके। दामोदरं पादयोश्च हृदयादिषडङ्गकम्
एतत् साधारणं प्रोक्तमादिमूर्त्तेस्तु सत्तम। अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत्
तस्यैव मूलमन्त्रेण सजीवकरणं भवेत्। यस्या मूर्त्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत्
तत् स्वरैर्द्वादशैर्भेद्यं ह्यङ्गानि परिकल्पयेत्। हृदयादीनि देवेश मूलञ्च दशमाक्षरम्
यथा देवे तथा देहे तत्त्वानि विनियोजयेत्। चक्राव्जमण्डले विष्णुं यजेद्गन्धादिना तथा
पूर्व्ववच्चासनं ध्यायेत्सगात्रं सपरिच्छदम्। शुभञ्चक्रं द्वादशारं ह्यपरिष्टाद्विचिन्तयेत्
त्रिनाभिचक्रं द्विनेमि खरैस्तच्च समन्वितम्। पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत्
पूजयेदारकाग्रेषु सूर्य्यं द्वादशधा पुनः। कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत्
सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः। पद्माञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत्