अधिभूतादिदेवैस्तु साध्याख्यैविभवैः। सह। तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः
आकाशं मनसाह्त्य मनोहङ्करणे कुरु । अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत्
अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः। स तामव्याकृति मायामवष्टब्य सिसृक्षया
सङ्कर्षणं स शव्दात्मा स्पर्शाख्यमसृजत् प्रभुः। क्षोभ्य मायां स प्रद्युम्नं तेजोरुपं स चासृजत्
अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकम्। अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज चह
तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत् पञ्चभूतवद्। तस्मिन् सङ्क्रामिते जीव शक्तिरात्मोपसंहृता
प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते। जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः
प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिका । अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत
अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः। शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः
ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु। त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु
पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः। कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः श्रृणु
आकाशवायुतेजांसि सलिलं पृथिवी तथा। स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते
प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत्। हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः
फकारमपि तत्रैव अहङ्कारमयं न्यसेत्। मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम्
शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत्। स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत्
दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् । थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत्
तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्। णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि
डकारं नेत्रयुग्मे तु रसनायां ठकारकम्। टकारं नासिकायान्तु ञकारं वाचि विन्यसेत्
झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः। जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके
विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके। वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत्
खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत्। ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः
हृत्पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतम्। द्वासप्ततिसहस्त्राणि हृदयादभिनिः सृताः
कलाषोडशसंयुक्त मकारं तत्र विन्यसेत्। तन्मध्ये चिन्तयेन्मन्त्री बिन्दुं वह्नेस्तु मण्डलम्
हकारं विन्यसेत्तत्र प्रणवेन सुरोत्तमः। ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने
ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः। ओं वा नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः
स्थाने तु प्रथमा योज्या द्वितीया आसने मता। तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि
ग्रत्यर्च्चायां पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः। हुङ्कारं विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिम्
यां मूर्ति स्थापयेत्तस्मात् मूलमन्त्रं न्यसेत्ततः। ओं नमों भगवते वासुदेवाय मूलकम्
शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात्। भुजयोर्जङ्घयोरङ्घ्र्योः केशवं शिरसि न्यसेत्
नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत्। गोविन्दं भुजयोर्न्यस्य विष्णु च हृदेये न्यसेत्