पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले। गन्धुपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत्
मुरामांसीं चामलकं सहदेवां निशादिकम्। षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च
शङ्खंहचक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकम्। हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम्
भगवानुवाच एशान्यां जययेत् कुण्डं गुरुर्व्वह्निञ्च वैष्णवम्। गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान्
प्रोक्षयेत् कारुशालायां शिल्पिभिमुर्त्तिर्व्रजेत्। तुर्य्यशबदैः कौतुकञ्च बन्धयेद्दक्षिणे करे
विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः। पट्टवस्त्रेण कर्त्तव्यं देशिकस्यापि कौतुकम्
मण्डपे प्रतिमां स्थाप्य सवस्त्रां पूजितां स्तुवन्। नमस्तेर्च्यें सुरेशानि प्रणीते विश्वकर्म्मण
प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः। त्वयि सम्पूजयामीशे नारायणमनामयम्
रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव। एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम्
शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत्। चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः
अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके। ततः शक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा
दूर्व्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः। मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद् गुरुः
हिरण्यगर्भमन्त्रेण इमं मेति च कीर्त्तयेत् घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः
मसूरपिष्टेनोद्वर्त्य अतो देवेति कीर्त्तयन्। क्षालयेदुष्णतीर्थजैः स्नानं पावमानीति रत्नजैः
द्रुपदादिवेत्यनुलिम्पेदापो हिष्ठेति सेचयेत्। नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजै
समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च। शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा
पञ्चमृद्भिर्हिरण्येति स्नापयेत्परमेश्वरम्। सिकताद्भिरिमं मेति वल्मीकोदघटेन च
तद्धिष्णोरिति ओषध्यद्भिर्था ओषधीति मन्त्रतः। यझायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः
पयः पृथिव्यां मन्त्रेण याः फलिना फलाम्बुभिः। विश्वतश्चक्षुः सौम्येन पूर्वेण कलसेन च
सोमं राजानमित्येवं विष्णो रराटं दक्षतः। हंसः शुचिः पश्चिमेन कुर्य्यादुद्वर्त्तनं हरेः
मूर्द्धानन्दिवमन्त्रेण धात्रीं मांसी च के ददेत् । मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः
इदमापेति च घटैरेकाशीतिपदस्थितैः। एह्येहि भगवन् विष्णो लोकानुग्रहकारक
यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते। अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनम्
मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत्। हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकम्
मधुवाता मधुपर्क्कं मयि गृह्मामि चाचमेत्। अक्षन्नमीमदन्तेति किरेद्दूर्वाक्षतं बुधः
काण्डान्निर्म्मञ्छनं कुर्य्याद्वन्धं गन्धवतीति च। उन्नयामीति माल्यञ्च इदं विष्णु पवित्रकम्
बृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकम्। महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत्
धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्चनम्। युञ्जन्तीति च तिलकं दीर्घायुष्ट्वे ति माल्यकम्
इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः। चामरन्तु विकर्णेन भूषां रथन्तरेण च
व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकम्। वेदाद्यैः संस्तुतिं कुर्य्याद्धरेः पुरुषसूक्ततः