सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियम्। योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ष
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च। विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम्
वामनं दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम्। विद्याधिपान् यजेद्विष्णुं मधुगातं त्रिविक्रमम्
अभ्यर्च्य पञ्चादैशान्यां चतुष्कुम्बे सवेदिके। स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत्
स्नानकुम्भेषु कुम्भां स्तां श्चतुर्दिक्ष्वधिवासयेत्। कल्शाः स्थापनीयास्तु अभिषेकार्थमादरात्
वटोदुम्बरकाश्वत्थांश्वम्पकाशोकश्री द्रुमान् । पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान्
पल्लवांस्तु समानीय पूर्वकुम्भे विनिक्षिपेत्। पद्मकं रोचनां दूर्व्वा दर्भपिञ्जलमेव च
जातीपुष्पं कुन्दपुष्पञ्चन्दनं रक्तचन्दनम्। सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत्
सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा। नद्याः समुद्रगामिन्या विशेषात् जाह्रवीमृदम्
गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत्। विष्णुपर्णी श्यामलतां भृङ्गराजं शताधरीम्
सहदेवां महादेवीं बलां व्याघ्नीं सलक्ष्मणाम्। ऐसान्यामपरे सुम्भे मह्गल्यान्विनिवेशयेत्
वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत्। जाह्नतीवालुकातोयं विन्यसेदपरे घटे
वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम्। मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत्
तीर्थपर्वतमृद्भिस्च युक्तमप्यपरे न्यसेत्। नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत्
चन्द नागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत्। वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च
एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम। नदीनदतडागानां सलिलैरपरं न्यसेत्
एकाशीतिपदे धान्यान्मण्डपे कलशान् न्यसेत्। गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत्
यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा। लितान् फलं तता पुष्पमघ्यार्थं पूर्वतो न्यसेत्
पद्मं श्यामलतां दूर्वां विष्णुपर्णी कुशांस्तथा। पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे
कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम्। उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितम्
पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले। गन्धुपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत्
मुरामांसीं चामलकं सहदेवां निशादिकम्। षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च
शङ्खंहचक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकम्। हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम्
भगवानुवाच एशान्यां जययेत् कुण्डं गुरुर्व्वह्निञ्च वैष्णवम्। गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान्
प्रोक्षयेत् कारुशालायां शिल्पिभिमुर्त्तिर्व्रजेत्। तुर्य्यशबदैः कौतुकञ्च बन्धयेद्दक्षिणे करे
विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः। पट्टवस्त्रेण कर्त्तव्यं देशिकस्यापि कौतुकम्
मण्डपे प्रतिमां स्थाप्य सवस्त्रां पूजितां स्तुवन्। नमस्तेर्च्यें सुरेशानि प्रणीते विश्वकर्म्मण
प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः। त्वयि सम्पूजयामीशे नारायणमनामयम्
रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव। एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम्
शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत्। चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः