रावणं राक्षसं हत्वा सबलं देविमाशुच। साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु। काकाक्षिपातनकथाम्प्रतियाहि हि शोकह
मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः । अथवा ते त्वारा काचित् पृष्ठमारुह मे शुभे
अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् । सीताऽब्रवलीद्धनूमन्तं नयतां मां हि राघवः
हनूमान् स दशग्रीवदर्शनोपायमाकरोत्। वनं बभञ्च तत्पालान् हत्वा दन्तनखादिभिः
हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि। पुत्रमक्षं कुमारञ्च शक्रजिच्चबबन्ध तम्
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम्। उवाच रावणः कस्त्वं मारुतिः प्राह रावणम्
रामदूतो राघवाय सीतां देहि मरिष्यसि। रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम्
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः। दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः
दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम। समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत्
अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु। जित्वा दधिमुखादींश्च दृष्ट्वा तेऽब्रवन्
दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम्। कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति
सीताकथामृतेनैव सिञ्च मां कामवह्निगम्। हनूमानब्रवोद्रामं लङ्घयित्वाऽब्धिमागतः
सीतां दृष्ठ्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै। हत्वा त्वं रावणं सीतां प्रास्यसे राम मा शुचः
गृहीत्वा तं मणिं रामो रुरोद विरहातुरः । मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्
तथा विना न जीवामि सुग्रीवाद्यैः प्रबोधितः। समुद्रतीरं गतवान् तत्र रामं विभीषणः
गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना। रामाय देहि सीतां त्वमित्युक्तेनासहायवान्
रामो विभीषणं मित्रं लङ्कैवर्येऽभ्यषेचयत्। समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः
भेदयामास रामञ्च उवाचाब्धि समागतः। नलेन सेतुं बद्ध्वाब्धौ लङ्कां व्रज गभीरकः
अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना। कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः
नारद उवाच रामोक्तञ्चाङ्गदौ गत्वा रावणं प्राह जानकी। दीयतां राघवायाशु अन्यथा त्वं मरिप्यसि
रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः। रामयाह दशग्रीवो युद्धमेकं तु मन्यते
रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ। वानरो हनुमान मैन्दो द्विविदौ जाम्बवान्नलः
नीलस्तारोङ्गदो धूभ्रः सुषेणः केशरी गयः। पनसो विनतो रम्भः शरभः कथनो बली
गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः। एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः
रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ। राक्षसा वानराञजघ्नुः शरशक्तिगदादिभिः
वानरा राक्षसाञ् जघ्नुर्नखदन्तशिलादिभिः। हस्त्थश्वरथपादातं राक्षसानां बलं हतम्
हनूमान् गिरिऋङ्गेण धूम्राक्षमवधीद्रिपुम्। अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत्
इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्षमणौ। तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्ननू राक्षसं बलम्
रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे। रावणः कुम्बकर्णञ्च बौधयामास दुः खितः