घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान्। चतुरः स्थापयेत् कुम्भानाजिघ्ने ति चमन्त्रतः
कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात्। इन्द्रागच्छ देवराज वज्रहस्त गजस्थिता
पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते। त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः
आगच्छाग्रे शक्तियुत छागस्थ बलसंयुत। रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते
अग्निर्मूर्द्धेतिमन्त्रेण यजेद्वा अग्नये नमः। महिषस्थ यमागच्छ पण्डहस्त महाबल
रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते। वैवस्वतं सङ्गमनभित्यनेन यजेद्यमम्
नैर्ऋ तागच्छ खङ्गाढ्य बलवाहनसंयुत । इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशम्
एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः। मकरारूढ वरुण पाशहस्त महाबल
आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते। उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः
आग्च्छ वायो सबल ध्वजहस्त सवाहन। वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते
वात इत्यादिभिश्चार्चेदोन्नमो वायवेपि वा। अगच्छ सोम सबल गदाहस्त सवाहन
रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते। सोमं राजानमिति वा यजेत्सोमाय वै नमः
आगच्छेशान सबल शूलहस्त वृषस्थित। यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते
ईशानमस्येति यजेदीशानाय नमोऽपि वा। ब्रह्मन्नागच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक
सलोकोद्र्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते। हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा
अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर। अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा
भगवानुवाच भूमेः परिग्रहं कुर्य्यात् क्षिपेद् व्रीहींश्च सर्षपान्। नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः
भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिम्। अस्त्रमन्त्रेण करकं तत्र चाष्टशतं यजेत्
अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत्। प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि
सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियम्। योगे योगेति मन्त्रेण न्यसेच्छय्यान्तु मण्डले ष
कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च। विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम्
वामनं दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम्। विद्याधिपान् यजेद्विष्णुं मधुगातं त्रिविक्रमम्
अभ्यर्च्य पञ्चादैशान्यां चतुष्कुम्बे सवेदिके। स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत्
स्नानकुम्भेषु कुम्भां स्तां श्चतुर्दिक्ष्वधिवासयेत्। कल्शाः स्थापनीयास्तु अभिषेकार्थमादरात्
वटोदुम्बरकाश्वत्थांश्वम्पकाशोकश्री द्रुमान् । पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान्
पल्लवांस्तु समानीय पूर्वकुम्भे विनिक्षिपेत्। पद्मकं रोचनां दूर्व्वा दर्भपिञ्जलमेव च
जातीपुष्पं कुन्दपुष्पञ्चन्दनं रक्तचन्दनम्। सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत्
सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा। नद्याः समुद्रगामिन्या विशेषात् जाह्रवीमृदम्
गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत्। विष्णुपर्णी श्यामलतां भृङ्गराजं शताधरीम्