अङ्गुलीयप्रभृतिभिर्मूत्तिपान् वलयादिभिः। कुण्डे कुण्डे स्थापयेच्च मूर्त्तिपांस्तत्र पारगान्
चतुष्कोणे चार्द्धकोणे वर्तुले पद्मसन्निभेः। पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटम्
प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणम्। सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छयम्
पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत्। तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुशन्
प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं सुदर्शनम्। पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः
वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसम्मितम्। सप्तहस्तोच्छितं वास्य कुर्य्यात् कुण्डं सुरोत्तम
अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः। रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात्
कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः। शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः
पूज्या कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः। जलाढकसुपूरास्तु पक्कविम्बोपमा घटाः
अष्टविंशाधिकशतं कालमण्डनवर्जिताः। सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद् बहिः
घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान्। चतुरः स्थापयेत् कुम्भानाजिघ्ने ति चमन्त्रतः
कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात्। इन्द्रागच्छ देवराज वज्रहस्त गजस्थिता
पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते। त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः
आगच्छाग्रे शक्तियुत छागस्थ बलसंयुत। रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते
अग्निर्मूर्द्धेतिमन्त्रेण यजेद्वा अग्नये नमः। महिषस्थ यमागच्छ पण्डहस्त महाबल
रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते। वैवस्वतं सङ्गमनभित्यनेन यजेद्यमम्
नैर्ऋ तागच्छ खङ्गाढ्य बलवाहनसंयुत । इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशम्
एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः। मकरारूढ वरुण पाशहस्त महाबल
आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते। उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः
आग्च्छ वायो सबल ध्वजहस्त सवाहन। वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते
वात इत्यादिभिश्चार्चेदोन्नमो वायवेपि वा। अगच्छ सोम सबल गदाहस्त सवाहन
रक्ष त्वमुत्तरद्वारं सकुवेर नमोस्तु ते। सोमं राजानमिति वा यजेत्सोमाय वै नमः
आगच्छेशान सबल शूलहस्त वृषस्थित। यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते
ईशानमस्येति यजेदीशानाय नमोऽपि वा। ब्रह्मन्नागच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक
सलोकोद्र्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते। हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा
अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर। अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते
नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा
भगवानुवाच भूमेः परिग्रहं कुर्य्यात् क्षिपेद् व्रीहींश्च सर्षपान्। नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः
भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिम्। अस्त्रमन्त्रेण करकं तत्र चाष्टशतं यजेत्
अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत्। प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि