एकैकलिङ्गमद्येषु त्रीणी च पादशः। लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च
स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका। भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम्
चत्वारि लिङ्गरुपाणि विष्कम्बेण तु लक्षयेत्। दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम्
चतुरष्टाष्टवृत्तञ्च तत्तवत्रयगुणात्मकम् । लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वा ङ्गुलानि वै
ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम्। तान्यङ्गुलानि चच्छेषं लक्षयेच्च शुभाशुभम्
ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः। खरेषु षड्जगान्धारपञ्चमाः शुभदायकाः
भूतेषु च शूबा भूः स्यादग्निष्वाहवनीयकः। उत्तायामस्य चार्द्धाशे नागांशैर्भाजिते क्रमात्
रसभूतां शषष्ठांशत्र्यंशाधिकशरैर्भवेत्। आढ्यानाध्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः। द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः
आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्यथ । त्रिधा हस्ताकज्जिनाख्यञ्च युक्तं सर्वसमेन च ।। २९ पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा। पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति
चतुर्दशसहस्त्राणि चतुर्दशशतानि च। एवमष्टाङऱ्गुलविस्तारो नवैककरगर्भतः ।। ३१ तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः। विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम्
विभागादूद्र्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः। पादाज्जान्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः
मूद्र्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति। पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः । एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे
लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्। आद्यभागं चतुर्द्धा तु विस्तारोच्छायतो भजेत्
चत्वारि तत्र सूत्राणि भागभागानुपातनात्। पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात्
त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्। शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये
चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात्। अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः श्रृणु
अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् । पूर्णवालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात्
चतुस्त्रिरेकवदनं सुखलिङ्गमतः श्रृणु। पूजाभागं प्रकर्त्तव्यं मर्त्त्यग्निपदकल्पितम्
अर्क्काशंपूर्ववत् त्यक्त्वा षट स्थानानि विवर्त्तयेत्। शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः
वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः। कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः
मुखं प्रति समः कार्या विस्तारादष्टमांशतः। चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते श्रृणु
कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्। भुजौ चतुर्भिर्भागैम्तु कर्त्तव्यौ पञ्चिमोर्जितम्
विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः। एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम्
ललाटनासिकावक्त्रग्नीवायाञ्च विवर्त्तयेत्। भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत्
विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम्। सर्वषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम्
भगवानुवाच अतः परं प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम्। दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता
उच्छितायामतोर्द्धेन सुविस्तारार्द्धभागतः। तृतीयेन तु वा तुल्यं तत्त्रिभागेण मेखला
खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम्। विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः