धमनी तापनी चैव रागिणी विकृतानना। वायुवेगा बृहत्कुक्षिर्विकृता विश्वरूपिका
यमजिह्वा जयन्ती च दुर्जया च जयन्तिका। विडाली रेवती चैव पूतना विजयान्तिका
अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः। भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत्
खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः। चापत्रिशूलखट्वाङ्गपाशकार्द्धवरोद्यतः
गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः। प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्। तत्षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत्
मन्दिराग्निदलारुढं सुवर्णरसकान्वितम्। नादविन्द्विन्दुसंयुक्तंमातृनाथाङ्गदीपितम्
वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः। गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता
शूलं गलन्तिका* कुण्डी वरदा च चतुर्भुजा। अब्जस्था ललिता स्कन्दगणादर्शशलाकया
चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्। दक्षे वामे नागपाश चर्माङ्कुशकुठारकम्
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः
लिङ्गमानादिकथनम् भगवानुवाच वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं श्रृणु। वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम्
भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः। पक्कापक्वं मृण्मयं स्यादपक्कात् पक्क्जं वरम्
ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्। शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम्
राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्। रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम्
रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत्। मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि
वामे च स्वेच्छया तेषां पीठप्रासादकल्पना। पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितम्
पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत्। हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् । अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम्
द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः। नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत्
एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः। मध्यमानेन षट्त्रिंशत् षट्त्रिशदधमेन च
इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्। एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते
षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्। एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम्
षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम्। रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः
षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः। द्वात्रिंशत्षोडशांशांश्च कोणयोस्तु विलोपयेत्
चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा। पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम्
धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात्। लिङ्गद्वारोच्छयादर्वाग् भवेत् पादोनतः क्रमात्
गर्भार्द्धेनाधम लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्। तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम्
एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्। द्व्यन्तरो वामवामश्च लिङ्गनां दीर्घता नव
हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः। हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम्