आदौ मध्ये तथेन्द्रादौ नवतत्त्वात्मभिः क्रमात्। अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम्
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा। पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम्
वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया। एतैरेवायुधैर्युक्ता शेषाः षोडशबाहुकाः
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका। उग्रचण्डा च मध्यस्था रोचनाभारुणासिता
नीला शुक्ला धूम्रिका च पीता श्वेता चसिहगाः। महीषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः
आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये। तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक्
सैव स्म्भा वने सिद्धाऽग्निहीना ललिता तथा। स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा
याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका। लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती। हुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी
कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते। सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे
गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता। कुण्डक्षपात्रिणी वामे हंसगा शाङ्करी सिता
शरचापौ दक्षिणेऽस्यावामे चक्रं धनुर्वृषे। कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका
चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाव्जधृक्। दण्डशङ्खासि गदया वाराही महिषस्थिता
ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये। चामुण्डा कोटरक्षीस्यान्निर्म्मंसा तु त्रिलोचना
निर्म्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी। द्वीपिचर्म्मधरावामे कपालं पट्टिशङ्करे
शूलं कर्त्री दक्षिणेऽस्याः शवारूढास्थिभूषणा। विनायको नराकारो बृहत्कुक्षिर्गजाननः
बृहच्छुण्डो ह्युपवीती मुखं सप्तकलं भवेत्। विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिशदङ्गुलम्
कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छिता। षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम्
नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे। स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये
सुमुखी च विडालाक्षी पार्श्वे स्कन्दो मयुरगः। स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक्
दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः। षड्भुजो वा द्वादशभिर्ग्रामेरण्ये द्विबाहुकः
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः। शक्त्या दक्षिणहस्तेषु षट्सु वामे करे तथा
शिखिपिच्छन्धतुः खेटं पताकाभयकुक्कुटे। कपालकर्तरीशूलपाशेभृद्याम्यसौम्ययोः
गजचर्म्मभृदूर्ध्वास्यपादा स्याद् रुद्रचर्चिका। सैव चाष्टभुजा देवी शिरोडमरुकान्विता
तेन सा रुद्रचामुण्डा नाटेश्वर्य्यथ नृत्यती। इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी
नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान्। दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकम्
बीभ्रती दक्षिणे हस्ते घण्टां च खेटकम्। खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया
सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका। एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा
भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता। एताः श्मशानजा रौद्रा अम्बाष्टकमिदं स्मृतम्