चतुर्मुखश्चतुर्व्वाहुर्ब्बृहज्जठरमण्डलः। लम्बकूर्च्चे जटायुक्तो ब्रह्मा हंसाग्रवाहनः
दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका। आज्यस्थाली सरस्वती सावित्री वामदक्षिणे
विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे। गदा शरश्च वरदो वामे कार्मुकखेटके
चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः। शङ्खचक्रधरो वापि विदारितमहासुरः
चतुर्बाहुर्वराहस्तु शेषुः पाणितले धृतः। धारयन् बाहुना पृथ्वीं वामेन कमलाधरः
पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता। त्रैलोक्यमोहनस्तार्क्ष्ये अष्टवाहुस्तु दक्षिणे
चक्रं खड्गं च मुषलं अङ्कुशं वामके करे। शङ्कशार्ङ्गगदापाशान् पद्मवीणासमन्विते
लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे। मुद्गरं च तथा पाशं शक्तिशूलं शरं करे
वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्। लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम्
विंशद्बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके। त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि
श्रिया धृतैकचरणो विमलाद्याभिरीडितः। नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः
शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे। रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः
शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः। वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः
दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह। विष्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः
भगवानुवाच चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करः। शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम्
डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम्। कुठाराङ्कुशचापांश्च घण्टाध्वजगदांस्तथा
आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका। तदधो महिषश्छिन्नमूर्द्धा पातितमस्तकः
शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान्। शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्द्धजेक्षणः
सिहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम्। याम्याङ्घ्न्याक्रान्तसिहा च सव्याङघ्निर्नीचगासुरे
चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी। नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः
आदौ मध्ये तथेन्द्रादौ नवतत्त्वात्मभिः क्रमात्। अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम्
आदर्शतर्जनीचापं ध्वजं डमरुकं तथा। पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम्
वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया। एतैरेवायुधैर्युक्ता शेषाः षोडशबाहुकाः
डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका। उग्रचण्डा च मध्यस्था रोचनाभारुणासिता
नीला शुक्ला धूम्रिका च पीता श्वेता चसिहगाः। महीषोथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः
आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये। तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक्
सैव स्म्भा वने सिद्धाऽग्निहीना ललिता तथा। स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा
याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका। लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता
पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती। हुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी