गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः। अनिरुद्धस्चक्रगदी शङ्खी पद्मी च पातु नः
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः। अधोक्षजः पद्मगदी शङखी चक्री च पातु वः
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम्। अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि। जनार्द्दनः पद्म चक्री शङ्खधारी गदाधरः
शङ्खीपद्मी च चक्री चहरिः कौमोदकीधरः। कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः
आदि मूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्पणोभवत्। सङ्कर्पणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः
केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्। द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत्
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात्
भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते। मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत्
नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत्। दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा
श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ। वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत्
नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः । तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः
छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः। रामश्चापेषुहस्तः स्यात् खड्गी परसुनान्वितः
रामश्चापी शरी खड्गी शङ्खी वा द्विभूजः स्मृतः। गदालाङ्गलधारी च रामो वाथ चतुर्भुजः
वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम्। मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनम्
धनुस्तृणान्वितः कल्की म्लेच्छोत्सादकरोद्विजः। अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः
लक्षणं वासुदेवादिनवकस्य वदामि ते। दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमम्
ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत्। शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः
लाङ्गली मुषली रामो गदापद्मधरः स्मृतः। प्रद्युम्नो दक्षिणे वज्रं शङ्खं वामे धनुः करे
गदानाभ्यावृतः ग्रीत्या प्रद्युम्नो वा धनुः शरी। चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः
चतुर्मुखश्चतुर्व्वाहुर्ब्बृहज्जठरमण्डलः। लम्बकूर्च्चे जटायुक्तो ब्रह्मा हंसाग्रवाहनः
दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका। आज्यस्थाली सरस्वती सावित्री वामदक्षिणे
विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे। गदा शरश्च वरदो वामे कार्मुकखेटके
चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः। शङ्खचक्रधरो वापि विदारितमहासुरः
चतुर्बाहुर्वराहस्तु शेषुः पाणितले धृतः। धारयन् बाहुना पृथ्वीं वामेन कमलाधरः
पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता। त्रैलोक्यमोहनस्तार्क्ष्ये अष्टवाहुस्तु दक्षिणे
चक्रं खड्गं च मुषलं अङ्कुशं वामके करे। शङ्कशार्ङ्गगदापाशान् पद्मवीणासमन्विते
लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे। मुद्गरं च तथा पाशं शक्तिशूलं शरं करे
वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्। लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम्
विंशद्बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके। त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि