इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः। आनीता वानराः सर्वे सीतायाश्च गवेषणे
त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् । पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान्
इत्युक्ता वानराः पूर्वपश्चमोत्तरमार्गगाः। जग्मू रामं ससुग्रीवमपशयन्तस्तु जानकीम्
रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह। दक्षिणे मागयामास सुप्रभाया गुहान्तिके
मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम्। ऊचुर्वृथामरिष्यामो जटायुर्द्धन्य एव सः
सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे। तच्छ्रु त्वा प्राह सम्पातिर्विहाय कपिभक्षणम्
भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम्। अर्क तापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः
रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम्। पश्याम्यशोकवनिकागतां लङ्कागतां किल
शतयोजनचविश्तीर्णे लवणाब्धौ त्रिकूटके। ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै
नारद उवाच सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः। अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत को नु जीवयेत्
कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये। शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः
दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च । लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे
दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः। विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसाम्
नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः। अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले
राक्षसीरक्षितां सीतां भव भार्येति वादिनम्। रावणं शिशपास्थोऽथ नेति सीतान्तु वादिनीम्
भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः। गते तु रावणे प्राह राजा दशरथोऽभवत्
रामोऽस्य लक्ष्ममः पुत्रौ वनवासङ्गतौ वरौ। रामपत्नी जानकी त्वं रावणेन हृता बलात्
रामः सुग्रीवमित्रस्त्वा मार्गयन् प्रैषयच्च माम् । साभिज्ञानञ्चांगुलीयं रामदत्तं गृहाण वै
सीताऽङ्गुलीयं जग्रह साऽपश्यन्मारुतिन्तरौ। भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति
रामः कथं न नयति शङ्कितामब्रवीत् कपिः। रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति
रावणं राक्षसं हत्वा सबलं देविमाशुच। साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ
उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु। काकाक्षिपातनकथाम्प्रतियाहि हि शोकह
मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः । अथवा ते त्वारा काचित् पृष्ठमारुह मे शुभे
अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् । सीताऽब्रवलीद्धनूमन्तं नयतां मां हि राघवः
हनूमान् स दशग्रीवदर्शनोपायमाकरोत्। वनं बभञ्च तत्पालान् हत्वा दन्तनखादिभिः
हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि। पुत्रमक्षं कुमारञ्च शक्रजिच्चबबन्ध तम्
नागपाशेन पिङ्गाक्षं दर्शयामास रावणम्। उवाच रावणः कस्त्वं मारुतिः प्राह रावणम्
रामदूतो राघवाय सीतां देहि मरिष्यसि। रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम्
रावणो हन्तुमुद्युक्तो विभीषणनिवारितः। दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः
दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम। समुद्रपारमागम्य दृष्ट्वा सीतेति चाब्रवीत्