श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् । ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम्
नैमिषे हरिमीजाना ऋषयः शौनकादयः । तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन्
ऋषय ऊचुः सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः । येन विज्ञानमात्रेणसर्व्वज्ञत्वं प्रजायते
सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः । ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञात्वं प्रजायते
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः
अहं शुक्रश्च पैलाद्या गत्वा वदरिकाश्रमम् । व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत्
व्यास उवाच शुकाद्यैः श्रृणु सूत त्वं वशिष्ठो मां यथाऽब्रवीत्। ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम्
वसिष्ठ उवाच द्वैविध्यं ब्रह्मा वक्ष्यामि श्रृणु व्यासाखिलानुगम्। यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् । ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्
अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम् भुक्तिमुक्तिप्रदं दिव्यं पठतां श्रृण्वतां नृणाम्
वसिष्ठ उवाच संसारसागरोत्तारनावं ब्रह्मेश्वरं वेद। विद्यासारं यद्विदित्वा सर्वज्ञो जायते नरः
अग्निरुवाच विष्णुः कालाग्निरुद्रोऽहं विद्यासारं वदामि ते। विद्यासारं पुराणं यत्सर्वं सर्वस्य कारणम्
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च। वंशानुचरितादेश्च, मत्स्यकूर्म्मादिरूपधृक्
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह। ऋग्यजुः सामाथर्वाख्या वेदाङ्गानि च षड् द्विज
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः। छन्दोऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम्
न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम्। अपरेयं परा विद्या यया ब्रह्माभिगम्यते
यत्तददृश्ययमग्राह्यमगोत्रचरणं ध्रुवम्। विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम्
इत्यदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः
वसिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् । पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम्
अग्निरुवाच मत्स्यावतारं वक्ष्येऽहं वसिष्ठ श्रृणु वै हरेः । अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये। एकदा कृतमालायां कुर्वतो जलतर्पणम्
तस्याञ्चल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत। क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम
ग्राहादिभ्यो भयं मेऽद्यतच्छ्रुत्वा कलशेऽक्षिपत्। स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत्
स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत्। तत्र वृद्धोऽब्रवीद् भूपं पृथु देहि पदं मनो
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् । ऊचे देहि बृहत् स्थानप्राक्षिपच्चाम्बुधौ ततः
लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत्। मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राव्रवीन् मनुः
को भवान्ननु वै विष्णुः नारायण नमोऽस्तुते। मायया मोहयसि मां किमर्थं त्वं जनार्दन
मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम्। अवतीर्णो भवायास्य जगतो दुष्टनष्टये