चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात्। अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे
In the wheel-lotus, worship the lords of the months in order; eight Prakritis, then six, five, and four others.
रजः पातं ततः कुर्य्याल्लिखिते मण्डले श्रृणु। कर्णिका पीतवर्णा स्याद्रेशाः सर्वाः सिताः समाः
Then, draw the lines in the diagram; listen: the pericarp should be yellow, and all the petals white and equal.
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते चार्द्धसमाः सिताः। पद्मं शुक्लेनसन्धींस्तु कृष्णेन श्यामतोथवा
The petals should be the size of a thumb in two hands, and half as much in one hand, all white; join the lotus with white at the joints, and with black or dark blue as desired.
केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत्। भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः
The filaments should be red and yellow; fill the corners with red; decorate the yogapitha as desired with all colors.
लतावितानपत्राद्यैर्वींथिकामुपशोभयेत। पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः
Adorn the structure with creepers, canopies, leaves, and the like; at the seat's entrance, use white for beauty, red for splendor, and yellow as well.
उपसोभाञ्च नीलेन कोणशंशाँस्च वै सितान्। भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम्
Enhance the decorations with blue, and make the corners white; the filling for the Bhadraka is prescribed thus, and similarly for the others.
अरकान् पीतरक्ताभिः श्यामान् नेमिन्तुरक्ततः। सितश्यामारुणाः सृष्णाः पीता रेखास्तु बाह्यतः
The araka seeds are dark with red lines, blackish from the red; white, black, and red lines are outside, and yellow lines are on the exterior.
शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम्। हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः
Powder from rice and similar grains is white; from safflower and the like, it is red; from turmeric, it is yellow; from burnt grains, it is black.
शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः। चतुर्लक्षैम्तु मन्त्राणां विद्यानां लक्षसाधनम्
From śamī leaves and the like, the seeds are dark; the marks on seeds are also dark; four hundred thousand is the measure for mantras and for the accomplishment of vidyās.
अयुतं बुद्धविद्यानां स्तोत्राणाञ्च सहस्त्कम्। पूर्ब्वमेवाथ लक्षेण मन्त्रसुद्धिस्तथात्मनः
Ten thousand is the measure for buddhividyās, and a thousand for hymns; previously, with one hundred thousand, the mantra and the self are purified.
तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत्। कूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः
Likewise, with another hundred thousand, the mantra becomes established in the field; previously, the homa of seeds has been described as equal.
पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता। पुरश्चर्य्ये तु भन्त्रे तु मासिकं व्रतमाचरेत्
The prior service of mantras and the like is said to be a tenth part; in the preliminary rite, one should observe a monthly vow.
भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम्। एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः
One should place the left foot on the ground and not accept gifts; thus, with double or triple this, come the middling and highest accomplishments.
मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम्। स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते
I will explain the meditation on the mantra, by which the fruit born of the mantra arises; the gross, sound-formed image is considered the external form.
सूक्ष्मं ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत्। चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम्
The subtle form is luminous, residing in the heart, and made of thought; that which is free from thought is called the supreme.
इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा। स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत्
For others, the heart-based, thought-formed image is always remembered; the gross is called 'virāṭ', the subtle is considered 'liṅga'.
चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम्। हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्
The form free from thought is called divine; consciousness, the imperishable light, dwelling in the lotus of the heart.
वीजं वीजात्कमं ध्यायेत् कदम्बकुसुमाकृतिम्। कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा
One should meditate on the seed, arising from the seed, in the form of a kadamba flower; like a lamp placed inside a pot, with its flame restrained.
संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि। अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः
Thus, the Lord of Mantras remains united and alone in the heart; as in a pot with many holes, so are the rays of the measures.
प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः। अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः
They spread outward in the same way, the rays of the seed through the channels; then, shining forth, they remain, having assumed a divine body.
हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः। अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते
From the heart, the channels proceed, accessible to the sense organs; of these, two channels, of the nature of fire and soma, are situated at the tip of the nose.
सम्यग्गुह्येन योगेन जित्वा देहसमीरणम्। जपध्यानरतो मन्त्री मन्त्रलक्षणमस्नुते
By the secret practice of yoga, having conquered the wind of the body, the practitioner devoted to recitation and meditation attains the mark of the mantra.
संशुद्ध भूततन्मात्रः सकामो योगमभ्यसन्। अणिमादिमवाप्नोति विरक्तः प्रबिलङ्ध्य च
Having purified the elements and their subtle forms, practicing yoga with desire, one attains aṇimā and the other powers; being detached, one transcends them.
देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात्
From the elements endowed with divinity, one is freed from the grasp of the senses.
अग्निरुवाच रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।३१.००१ यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(२) ॥३१.००१ ओं नमः परमार्थाय पुरुषाय महात्मने ।३१.००२ अरूपबहुरूपाय व्यापिने परमात्मने ॥३१.००२ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।३१.००३ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००३ वराहाय नृसिंहाय वामनाय महामुने ।३१.००४ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००४ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।३१.००५ नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००५ वराह नरसिंहेश वामनेश त्रिविक्रम ।३१.००६ हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥३१.००६ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।३१.००७ अखण्डितानुभावैस्त्वं(१) सर्वदुष्टहरो भव ॥३१.००७ हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।३१.००८ मृत्युबन्धार्तभयदं दुरितस्य च यत्फलम् ॥३१.००८ पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।३१.००९ गदस्पर्शमहारोगप्रयोगं जरया जर ॥३१.००९ ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने ।३१.०१० नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥३१.०१० नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।३१.०११ महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥३१.०११ द्ंष्ट्रोद्धृतक्षितिभृते(२) त्रयीमूर्तिमते नमः ।३१.०१२ महायज्ञवराहाय शेषभोगाङ्कशायिने ॥३१.०१२ तप्तहाटककेशाग्रज्वलत्पावकलोचन ।३१.०१३ वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते ॥३१.०१३ काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।३१.०१४ तुभ्यं वामनरूपायाक्रमते गां(३) नमो नमः ॥३१.०१४ वराहाशेषदुष्टानि सर्वपापफलानि वै ।३१.०१५ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥३१.०१५ नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल ।३१.०१६ भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥३१.०१६ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।३१.०१७ प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः ॥३१.०१७ ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।३१.०१८ चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥३१.०१८ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।३१.०१९ शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(१) ॥३१.०१९ नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।३१.०२० अन्तःश्वासमतिश्वासं(२) परितापं सवेपथुम् ॥३१.०२० गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयं(३) ।३१.०२१ कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥३१.०२१ भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलीम् ।३१.०२२ अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३१.०२२ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।३१.०२३ कफोद्भवाश्च ये केचित्ये चान्ये सान्निपातिकाः ॥३१.०२३ आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।३१.०२४ ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(५) ॥३१.०२४ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।३१.०२५ क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः ॥३१.०२५ अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।३१.०२६ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३१.०२६ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।३१.०२७ दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥३१.०२७ लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।३१.०२८ शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः ॥३१.०२८ ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(१) ।३१.०२९ वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान्(२) ॥३१.०२९ शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् ।३१.०३० मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥३१.०३० वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।३१.०३१ बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥३१.०३१ वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।३१.०३२ नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥३१.०३२ सदा(३) करालवदनो नरसिंहो महाबलः ।३१.०३३ ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥३१.०३३ नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।३१.०३४ ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥३१.०३४ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।३१.०३५ यानि च क्रूरभृतानि ग्रहपीडाश्च दारुणाः ॥३१.०३५ शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।३१.०३६ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ॥३१.०३६ किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय
अग्निरुवाच पवित्रारोहणं वक्ष्ये वर्षपूजाफलं हरेः। आषाढादौ कार्तिकान्ते प्रतिपद्धनदा तिथिः
Agni said: I will explain the rite of Pavitrārohaṇa and the fruit of worshipping Hari for a year. From the beginning of Āṣāḍha to the end of Kārtika, the first day is the day for giving Pavitra.
श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च। मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः
With Śrī, Gaurī, Gaṇeśa, Sarasvatī, Guha, the Mothers of the Sun, Durgā, the Nāgas, Ṛṣi, Hari, and Manmatha—
शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात्। यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः
Likewise for Śiva and Brahmā, from the second day onward in order; for whichever deity the devotee is devoted to, that day is the Pavitra day for him.
आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि। सौवर्णं राजतं ताम्रं नेत्रकार्प्पासकादिकम्
In the rite of Pavitrārohaṇa, the procedure is similar, except for the mantras and such, if any; gold, silver, copper, thread, cotton, and the like—
ब्राह्मण्या कर्त्तितं सूत्रं तदलाभे तु संस्कृतम्। त्रिगुणं त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकम्
The thread spun by a Brāhmaṇa woman, or if that is not available, a purified one; making it threefold, one should make the Pavitra with it.
Agni said: I will explain the protection for oneself and for others, known as Mārjana. By this, a person is freed from suffering and attains happiness.