यथा जीमूतघोषेण हृष्यन्ति वरवारणाः । तथास्तु तव शब्देन हर्षोऽस्माकं मुदावह ।। २६९.
Just as noble elephants rejoice at the sound of thunderclouds, so let your voice bring us joy and delight.
यथा जीमूतशब्देन स्त्रीणं त्रासोऽभिजायते । तथा तु तव शब्देन त्रस्यन्त्वस्मद्द्विषो रणे ।। २६९.
Just as the sound of thunder causes fear among women, so let your voice cause our enemies to tremble in battle.
मन्त्रैः सदार्च्चनीयास्ते योजनीया जयादिषु । घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ।। २६९.
You should always be worshipped with mantras and employed in victories and other rites. The annual consecration involves ghee, a blanket, and Vishnu.
पुष्कर उवाच सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।२७१.००१ ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ॥२७१.००१ भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः ।२७१.००२ शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥२७१.००२ ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।२७१.००३ एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस्तथा ॥२७१.००३ शतानि दश विप्राणां षडशीतिश्च शाखिकाः ।२७१.००४ काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा ॥२७१.००४ मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।२७१.००५ वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥२७१.००५ साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।२७१.००६ गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥२७१.००६ उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।२७१.००७ सचतुःशतकाश्चैव ब्रह्मसङ्घटकाः स्मृताः ॥२७१.००७ पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।२७१.००८ सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्वके ॥२७१.००८ शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।२७१.००९ मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥२७१.००९ व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् ।२७१.०१० शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥२७१.०१० प्राप्य व्यासात्पुराणादि सूतो वै लोमहर्षणः ।२७१.०११ सुमतिश्चाग्निवर्चाश्च मित्रयुःशिंशपायनः ॥२७१.०११ कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।२७१.०१२ शांशपायनादयश्चक्रुः(१) पुराणानान्तु संहिताः ॥२७१.०१२ ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।२७१.०१३ महापुराणे ह्याग्नेये विद्यारूपो हरिः स्थितः ॥२७१.०१३ सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।२७१.०१४ तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥२७१.०१४ विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्यादिरूपवान् ।२७१.०१५ अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥२७१.०१५ वेदेषु सपुराणेषु यज्ञमूर्तिश्च गीयते ।२७१.०१६ आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥२७१.०१६ आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।२७१.०१७ तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥२७१.०१७ सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्(२) ।२७१.०१८ सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥२७१.०१८ विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम्(३) ।२७१.०१९ राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् ॥२७१.०१९ स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।२७१.०२० गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥२७१.०२० टिप्पणी १ शिंशपायनादयश्चक्रुरिति ख .. २ परमिति ञ .. ३ श्रीबलप्रदमिति ञ कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।२७१.०२१ गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥२७१.०२१ सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।२७१.०२२ पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥२७१.०२२ इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम एकसप्तत्यधिकद्विशततमोऽध्यायः पुष्कर उवाच सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः । ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ।। २७१.
Pushkara said: The mantras are beneficent to all and accomplish the four aims of life. The count of Rig, Atharva, Sama, and Yajur is one hundred thousand.
भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः । शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ।। २७१.
There is one Sankhyayana branch and a second Ashvalayana branch; ten hundred mantras and two thousand Brahmanas.
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः । एकोनद्विसहस्रन्तु मन्त्राणआं यजुषस्तथा ।। २७१.
The Rigveda is established by authority, remembered by Dvaipayana and others. The Yajur mantras are just under two thousand.
शतानि दश विप्राणां षड़शीतिश्च शारिबकाः । काणअवमाध्यन्दिनी संज्ञा कठी माध्यकठीतथा ।। २७१.
Ten hundred belong to the Brahmins, and eighty-six are the branches. Kanva, Madhyandini, Kathi, and Madhyakathi are their names.
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका । वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ।। २७१.
Maitrayani and Samjna, and Taittiriya are so named. Vaishampayana and others are branches established in the Yajur.
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी । गानान्यपि च तत्वारि वेद आरण्यकन्तथा ।। २७१.
Of the Sama, Kauthuma is one branch, and Atharvanayani is the second. There are also four songs and the Aranyakas of the Veda.
उक्था ऊहचतुर्थश्च मन्त्रा नवसहस्रकाः । सचतुःशतकाश्चैव ब्ह्मसङ्घटकाः स्मृताः ।। २७१.
Uktha, Uha, and the fourth are mantras numbering nine thousand. Four hundred are the Brahma collections, as remembered.
पञ्चविंशतिरेवात्र साममान् प्रकीर्त्तितं । सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्व्वके ।। २७१.
Twenty-five are mentioned here as the measure of the Sama. Sumantu, Jajali, and Shlokayana are in the Atharva.
शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे । मन्त्राणामयुतं षष्टशतञेचोपनिषच्छतं ।। २७१.
Shaunaka, Pippalada, and others like Munjakesha are further branches. There are ten thousand sixty mantras and a hundred Upanishads.
व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् । शाखाबेदादयो विष्णुरितिहासः पुराणकं ।। २७१.
The blessed Vyasa, in his form, created the divisions of branches. Vishnu is the cause of the branch divisions, history, and the Purana.
प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः । सुमतिश्चाग्निवर्च्चाश्च मित्रयुः शिंशपायनः ।। २७१.
Having received the Purana and other texts from Vyasa, the bard Lomaharshana, Sumati, Agnivarcha, Mitrayu, and Shimshapayana followed.
कृतव्रतोथ सावर्णिः षट़शिष्यास्तस्य चाभवन्। शांशपायनादयश्चक्रुः१ पुराणानान्तु संहिताः ।। २७१.
Then Kṛtavrata, also called Sāvarṇi, had six disciples; among them were Śāṃśapāyana and others, who composed the collections of the Purāṇas.
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च । महापुराणे ह्याग्नेये विद्यारूपो हरिः त्थितः ।। २७१.
The Purāṇas beginning with the Brāhma, and also the ten and eight teachings of Hari, are found in the great Agni Purāṇa, where Hari abides in the form of knowledge.
सप्रपञ्चो निष्प्रपञ्चो मूर्त्तामुर्त्तस्वरूपधृक् । तं ज्ञात्वाभ्यर्च्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ।। २७१.
He is both with and without manifestation, bearing both formed and formless natures; knowing, worshipping, and praising him, one attains both enjoyment and liberation.
विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्य्यादिरूपवान् । अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ।। २७१.
Viṣṇu is the victorious one, the one who will be, possessing forms such as Agni and Sūrya; through the form of Agni, he is the mouth of the gods, and Viṣṇu is the supreme goal.
वेदेषु सपुराणेषु यज्ञमूर्त्तिश्च गीयते । आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ।। २७१.
In the Vedas and the Purāṇas, he is sung as the embodiment of sacrifice; the Purāṇa called Āgneya is the greatest form of Viṣṇu.
आग्नेयाख्यपुराणस्य कर्त्ता श्रोता जनार्दनः । तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ।। २७२.
Janārdana is the author and listener of the Purāṇa called Āgneya; therefore, the Agni Purāṇa is great and composed of all the Vedas.
सर्वात्म हरिरूपं हि पठतां श्रृण्वतां नृणां ।। २७२.
For those who read or listen, Hari, the form of the Self of all, is indeed present.
राज्यर्थिनां राज्यदञ्च धर्म्मदं धर्मकामिनाम् ।। २७२.
For those who desire sovereignty, it grants kingship; for those who desire righteousness, it grants righteousness.
स्वर्गार्थिना स्वर्गदञ्च पुत्रदं पुत्रकामिनां । गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ।। २७२.
For those who seek heaven, it grants heaven; for those who desire sons, it grants sons; for those who desire cows and the like, it grants cows; for those who desire villages, it grants villages.
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्पदम् । गुणकीर्त्तिप्रदं नॄणां जयदञ्जयकामिनाम् ।। २७२.
For those who desire pleasures, it grants pleasures and all auspicious prosperity; for people, it bestows virtue and fame, and for those who desire victory, it grants victory.
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां । पापघ्नं पापाकर्तॄणामाग्नेयं हि पुराणकम् ।। २७२.
For those who desire everything, it grants everything; for those who seek liberation, it grants liberation; for those who have committed sins, the Agni Purāṇa destroys sin.
पुष्कर उवाच ब्रह्मणाभिहितं पूर्व्वं यावन्मान्नं मरीचये । लक्षार्द्धार्द्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदाप्येत् ।। २७२.
Puṣkara said: That which was formerly spoken by Brahmā to Marīci, up to the measure of food, half of a hundred thousand, that Brāhma should be written and given.
वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् । पाद्मं द्वादशसाहस्रं ज्येष्ठे दद्याच्च धेनुमत् ।। २७२.
In Vaiśākha, on the full moon, one desiring heaven should give the Pādma, of twelve thousand verses, along with a cow yielding much milk; in Jyeṣṭha, one should give it with a cow.
वराहकल्पवृत्तान्तमधिकृत्य पराशरः । त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ।। २७२.
Concerning the account of the Varāha epoch, Parāśara composed the Vaiṣṇava of twenty-three thousand verses, and it should be given.
जलधेनुमदापाढ्यां विष्णोः पदमवाप्नुयात् । चतुर्दशसहस्राणि वायवीयं हरिप्रियं ।। २७२.
By giving it, along with a richly endowed cow, one attains the abode of Viṣṇu; the Vāyavīya, beloved of Hari, is of fourteen thousand verses.
श्वेतकल्पप्रसङ्गेन घर्म्मान् वायुरिहाब्रवीत् । दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुड़धेनुमत् ।। २७२.
On the occasion of the Śveta epoch, Vāyu spoke the Gharma; having written it, one should give it to a brāhmaṇa in Śrāvaṇa, along with a superior cow.