अथ सप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि पुष्कर उवाच महापापानुयुक्तानां(१) प्रायश्चित्तानि(२) वच्मिते ।१७०.००१ संवत्सरेण पतति पतितेन सहाचरन् ॥१७०.००१ याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ।१७०.००२ यो येन पतितेनैषां संसर्गं याति मानवः ॥१७०.००२ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।१७०.००३ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥१७०.००३ निन्दितेऽहनि सायाह्णे ज्ञात्यृत्विग्गुरुसन्निधौ ।१७०.००४ दासो घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा(३) ॥१७०.००४ अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ।१७०.००५ निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥१७०.००५ ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ।१७०.००६ टिप्पणी १ महापापोपपन्नानामिति ङ.. २ प्रायश्चित्तं वदामि त इति झ.. ३ प्रेतवत्सदेति ख.. , ग.. , घ.. , ङ.. च प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥१७०.००६ तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ।१७०.००७ एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥१७०.००७ वस्त्रान्नपानन्देयन्तु वसेयुश्च गृहान्तिके ।१७०.००८ तेषां द्विजानां सावित्री नानूद्येत(१) यथाविधि ॥१७०.००८ तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ।१७०.००९ विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥१७०.००९ जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ।१७०.०१० मासङ्गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१७०.०१० ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।१७०.०११ अभिचारमहीनानान्त्रिभिः कृच्छैर्व्यपोहति(२) ॥१७०.०११ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।१७०.०१२ संवत्सं यताहारस्तत्पापमपसेधति ॥१७०.०१२ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।१७०.०१३ नरोष्ट्राश्वैर्वराहैश्च(३) प्राणायामेन शुद्ध्यति ॥१७०.०१३ स्नातकव्रतलोपे च कर्मत्यागे ह्यभोजनं ।१७०.०१४ हुङ्कारं(४) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥१७०.०१४ स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ।१७०.०१५ अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥१७०.०१५ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं ।१७०.०१६ टिप्पणी १ न युज्येतेति ख.. २ कृच्छ्रैर्विशुद्ध्यति इति ग.. , घ.. , ङ.. च ३ नरोष्टविड्वराहैश्चेति ङ.. ४ क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च । हङ्कारञ्चेति ख.. चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥१७०.०१६ सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ।१७०.०१७ चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥१७०.०१७ प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ।१७०.०१८ गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥१७०.०१८ कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ।१७०.०१९ मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥१७०.०१९ द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ।१७०.०२० कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(१) ॥१७०.०२० शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ।१७०.०२१ यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥१७०.०२१ द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ।१७०.०२२ भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥१७०.०२२ भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ।१७०.०२३ अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥१७०.०२३ व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ।१७०.०२४ चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥१७०.०२४ द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ।१७०.०२५ चण्डालेन तु संस्पृष्टो(२) यस्त्वपः पिवते द्विजः ॥१७०.०२५ त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ।१७०.०२६ उच्छिष्टेन यदि(३) स्पृष्टः शुना शूद्रेण वा द्विजः ॥१७०.०२६ टिप्पणी १ स्पर्शसङ्कल्पभूषिता इति झ.. २ संसृष्ट इति क.. ३ यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ।१७०.०२७ वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥१७०.०२७ अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।१७०.०२८ पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥१७०.०२८ अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ।१७०.०२९ शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश्च दर्शयेत् ॥१७०.०२९ म्लेच्छैर्गतानां चौरैर्वा कान्तारे वा प्रवासिनां ।१७०.०३० भक्ष्याभक्ष्यविशुद्ध्यर्थं(१) तेषां वक्ष्यामि निष्कृतिं ॥१७०.०३० पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ।१७०.०३१ कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥१७०.०३१ पादोनान्ते क्षत्रियश्च अर्धान्ते वैश्य एव च ।१७०.०३२ पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥१७०.०३२ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।१७०.०३३ तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥१७०.०३३ रजस्वला तु नाश्नीयात्संस्पृष्टा हीनवर्णया ।१७०.०३४ यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥१७०.०३४ मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ।१७०.०३५ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥१७०.०३५ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।१७०.०३६ मोहाद्भुक्त्वा(२) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥१७०.०३६ ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा ।१७०.०३७ टिप्पणी १ भक्ष्यभोज्यविशुद्ध्यर्थमिति झ.. २ लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च अनाशकनिवृताश्च तेषां शुद्धिः प्रचक्ष्यते ॥१७०.०३७ चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।१७०.०३८ जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥१७०.०३८ उपानहममेध्यं च यस्य संस्पृशते मुखं ।१७०.०३९ मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥१७०.०३९ वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ।१७०.०४० तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर्विशुद्ध्यति ॥१७०.०४० अन्त्यजातिश्वपाकेन(१) संस्पृष्टा स्त्री रजस्वला ।१७०.०४१ चतुर्थेऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(२) ॥१७०.०४१ चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ।१७०.०४२ शवं तत्स्पर्शिनं स्पृष्ट्वा(३) सद्यः स्नानेन शुद्ध्यति ॥१७०.०४२ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।१७०.०४३ रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः ॥१७०.०४३ वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ।१७०.०४४ स्नानात्क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणेऽन्नभुक् ॥१७०.०४४ अपाङ्क्तेयाशी गव्याशी शुना दष्टस्तथा शुचिः ।१७०.०४५ कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥१७०.०४५ होमाद्यैश्चानुतापेन पूयन्ते पापिनोऽखिलाः(४)
Now, the one hundred seventieth chapter: On expiations.
अथ द्विसप्तत्यधिकशततमोऽध्यायः सर्वपापप्रायश्चित्तानि पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा ।१७२.००१ प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१७२.००१ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(१) नमः ।१७२.००२ नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥१७२.००२ चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।१७२.००३ विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥१७२.००३ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।१७२.००४ यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥१७२.००४ करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ।१७२.००५ तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥१७२.००५ ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।१७२.००६ तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥१७२.००६ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।१७२.००७ हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥१७२.००७ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।१७२.००८ हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥१७२.००८ नृसिंहानन्त गोविन्द भूतभवन केशव ।१७२.००९ टिप्पणी १ विष्णवे विष्णवे इति ज.. , ञ.. च दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥१७२.००९ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।१७२.०१० अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१७२.०१० ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।१७२.०११ जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१७२.०११ यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।१७२.०१२ कायेन मनसा वाचा कृतं पापमजानता ॥१७२.०१२ जानता च हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१३ नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१७२.०१३ शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१४ पापं प्रशमयाद्य त्वं(१) बाक्कृतं मम माधव ॥१७२.०१४ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ।१७२.०१५ कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१७२.०१५ यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ।१७२.०१६ तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१७२.०१६ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।१७२.०१७ तस्मिन्(२) प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७२.०१७ यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।१७२.०१८ सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं(३) ॥१७२.०१८ पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(४) ।१७२.०१९ टिप्पणी १ प्रशमात्यर्थमिति ख.. , घ.. , ज.. च २ अस्मिन्निति घ.. ३ सर्वं गमयत्वघमिति झ.. ४ यः पठेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ.. शारीरैर्मानसैर्वाग्जैः कृतैः पपैः प्रमुच्यते ॥१७२.०१९ सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।१७२.०२० तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥१७२.०२० प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।१७२.०२१ प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥१७२.०२१ ततः कार्याणि(१) संसिद्ध्यै तानि वै भुक्तिमुक्तये
Now, the one hundred seventy-second chapter: Expiations for all sins.
अथाष्टसप्तत्यधिकशततमोऽध्यायः तृतीयाव्रतानि अग्निरुवाच तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।१७८.००१ ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥१७८.००१ तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।१७८.००२ तिलस्नातोऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः ॥१७८.००२ नमोऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।१७८.००३ शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥१७८.००३ त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयोः ।१७८.००४ शिवं रुद्रायेश्वराय(१) विजयायैव जानुनी ॥१७८.००४ ईशायेति कटिं देव्याः(२) शङ्करायेति शङ्करम् ।१७८.००५ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज.. , झ.. , ञ.. , ट.. च २ ईशाय कट्यां देव्याश्च इति ङ.. । ईशायेति तातो देव्या इति घ.. - - - -- - - -- - - -- - - -- - - - कुक्षिद्वयञ्च कोटव्यै शूलिनं शूलपाणये ॥१७८.००५ मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।१७८.००६ सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥१७८.००६ शिवं देवात्मने तद्वथ्रादिन्यै(१) कण्ठमर्चयेत् ।१७८.००७ महादेवाय च शिवमनन्तायै करद्वयं ॥१७८.००७ त्रिलोचनायेति हरं बाहुं कालानलप्रिये(२) ।१७८.००८ सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥१७८.००८ अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।१७८.००९ चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥१७८.००९ नमोऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।१७८.०१० नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥१७८.०१० सर्वाय पुरहन्तारं(३) वासन्त्यै चैव तालुकं(४) ।१७८.०११ नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥१७८.०११ भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।१७८.०१२ मल्लिकाशोककमलकुन्दन्तगरमालती(५) ॥१७८.०१२ कदम्बकरवीरञ्च(६) वाणमम्लानकुङ्कुमं ।१७८.०१३ सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं ॥१७८.०१३ उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः(७) ।१७८.०१४ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च २ हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च ३ पुरहर्तारमिति घ.. ४ वासन्यै च तथालकमिति छ.. , ट.. च ५ मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च ६ कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च ७ मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्यन्तः छ.. पुस्तके नास्ति - - - -- - - -- - - -- - - -- - - - स्थापयेद्(१) घृतनिष्पावकुसुम्भक्षीरजीवकं ॥१७८.०१४ तरुराजेक्षुलवणं(२) कुस्तुम्बुरुमथाष्टमं ।१७८.०१५ चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥१७८.०१५ प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(३) ।१७८.०१६ तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(४) ॥१७८.०१६ शृङ्गोदकं(५) गोमयं च मन्दारं बिल्वपत्रकं ।१७८.०१७ कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥१७८.०१७ गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।१७८.०१८ ललिता विजया भद्रा भवानी कुमुदा शिवा ॥१७८.०१८ वासुदेवी तथा गौरी मङ्गला कमला सती ।१७८.०१९ चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥१७८.०१९ फलमेकं पवित्राज्यं(६) व्रतान्ते शयानं ददेत् ।१७८.०२० उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥१७८.०२० गुरुञ्च मिथुनान्यर्च्य(७) वस्त्राद्यैर्भुक्तिमुक्तिभाक्(८) ।१७८.०२१ सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् ॥१७८.०२१ नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(९) ।१७८.०२२ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ अर्पयेदिति ख.. , छ.. च २ तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च ३ द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च ४ ललिता प्रीयतामिति ट.. ५ पृष्ठोदकमिति ञ.. । कूपोदकमिति ज.. , झ.. च ६ परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति ङ.. ७ गुरुं मिथुनमभर्च्येति ङ.. ८ वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट.. च ९ कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च - - - -- - - -- - - -- - - -- - - - शुक्लपक्षे तृतीयायां ललितायै नमो यजेत् ॥१७८.०२२ प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(१) मित्युनानि च ।१७८.०२३ चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर्भुक्तिमुक्तिभाक् ॥१७८.०२३ उक्तो मार्गो द्वितीयोऽयं सौभाग्यव्रतमावदे ।१७८.०२४ फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥१७८.०२४ समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।१७८.०२५ सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(२) ॥१७८.०२५ सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।१७८.०२६ माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥१७८.०२६ दमनकतृतीयाकृत्चैत्रे दमनकैर्यजेत् ।१७८.०२७ आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥१७८.०२७ गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।१७८.०२८ वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(३) ॥१७८.०२८ मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात्
अथाशीत्यधिकशततमोऽध्यायः पञ्चमीव्रतानि अग्निरुवाच पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(१) ।१८०.००१ नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥१८०.००१ वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।१८०.००२ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥१८०.००२ एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियम्
Now, the one hundred eightieth chapter: The vows of the fifth lunar day.
; चतुर्दशीव्रतानि अग्निरुवाच व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(१) ।१९२.००१ कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥१९२.००१ वर्षभोगधनायुष्मान्(२) कुर्वन् शिवचतुर्दशीम् ।१९२.००२ मार्गशीर्षे सितेऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥१९२.००२ टिप्पणी १ भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ.. २ भोगबलायुष्मानिति ङ.. द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत्सुरं(१) ।१९२.००३ त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥१९२.००३ चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।१९२.००४ अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥१९२.००४ कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।१९२.००५ इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥१९२.००५ कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत्सुखी ।१९२.००६ आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(२) ॥१९२.००६ ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।१९२.००७ कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥१९२.००७ शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।१९२.००८ अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(३) ॥१९२.००८ कर्तव्यं सरितां चान्ते कथां कृत्वा(४) हरेरिति ।१९२.००९ अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥१९२.००९ अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।१९२.०१० अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥१९२.०१० स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत्सुखी
Now, the one hundred ninety-second chapter: The vows of the fourteenth lunar day.
अथ चतुर्नवत्यधिकशततमोऽध्यायः अशोकपूर्णिमादिव्रतं अग्निरुवाच अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् । फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१ कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥२ पित्र्या यामावसी तस्यां पितॄणां दत्तमक्षयं । उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥३ पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् । वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥४ पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं । त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥५ प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः । वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥६ नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद्द्विजे । वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् ॥७ सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात्
Now, the one hundred ninety-fourth chapter: The vow of the Aśoka full moon and others.
अथ पञ्चनवत्यधिकशततमोऽध्यायः वारव्रतानि अग्निरुवाच वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।१९५.००१ करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥१९५.००१ श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।१९५.००२ सङ्क्रान्तौ सूर्यवारो यः सोऽर्कस्य हृदयः शुभः ॥१९५.००२ कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।१९५.००३ चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥१९५.००३ स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।१९५.००४ विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००४ अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(१) ।१९५.००५ शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००५ मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्तिनुत्
Now, the one hundred ninety-fifth chapter: The weekday vows.
अथ षण्णवत्यधिकशततमोऽध्यायः नक्षत्रव्रतानि अग्निरुवाच नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितोऽर्थदः ।०१ नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥०१ मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं ।०२ जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके ॥०२ मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च ।०३ पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च ॥०३ स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं ।०४ भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत् ॥०४ अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् ।०५ श्रोत्रे विष्णोश्च श्रवणे मुखं पुष्ये हरेर्यजेत् ॥०५ यजेत्स्वातिषु दन्ताग्रमास्यं वारुणतोऽर्चयेत् ।०६ मघासु नसां नयने मृगशीर्षे ललाटकं ॥०६ चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं ।०७ गुडपूर्णे घटेऽभ्यर्च्य शय्यागोर्थादि दक्षिणा ॥०७ नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः ।०८ शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥०८ कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।०९ नामभिः केशवाद्यैस्तु अच्युताय नमोऽपि वा ॥०९ कार्त्तिके कृत्तिकाभेऽह्नि मासनक्षत्रगं हरिं ।१० शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं ॥१० केशवादि महामूर्तिमच्युतं सर्वदायकं ।११ आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं ॥११ कार्त्तिकादौ सकासारमन्नंमासचतुष्टयं ।१२ फाल्गुनादौ च कुशरमाषाढादौ च पायसं ॥१२ देवाय ब्राह्मणेभ्यश्च नक्तन्नैवेद्यमाशयेत् ।१३ पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः ॥१३ अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।१४ विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात् ॥१४ नमो नमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं ।१५ ऐश्वर्यवित्तादि सदाक्षयं मेक्षयञ्च मा सन्ततिरभ्यपैतु ॥१५ यथाच्युतस्त्वम्परतः परस्तात्स ब्रह्मभूतः परतः परात्मन् ।१६ तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥१६ अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।१७ अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ॥१७ सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् ।१८ अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं॥१८ मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं ।१९ अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥१९ ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि ।२० अनन्तपुण्योपचयङ्करोत्येतन्महाव्रतं ॥२० यथाभिलषितप्राप्तिं करोत्यक्षयमेव च ।२१ पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं ॥२१ घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं ।२२ चैत्रादौ शालिना होमः पयसा श्रावणादिषु ॥२२ मान्धाताभूद्युवनाश्वादनन्तव्रतकात्सुतः
Now, the one hundred ninety-sixth chapter: The vows relating to the lunar mansions.
अग्निरुवाच दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।२००.००१ देवद्विजातिकगृहे दीपदोऽब्दं स सर्वभाक् ॥२००.००१ चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।२००.००२ दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२००.००२ दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।२००.००३ सौभाग्यं दीपदः प्राप्य स्वर्गलोके महीयते ॥२००.००३ विदर्भराजदुहिता ललिता दीपदात्मभाक् ।२००.००४ चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥२००.००४ ददौ दीपसहस्रं सा विष्णोरायतने सती ।२००.००५ पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥२००.००५ ललितोवाच सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।२००.००६ तेन चायतनं विष्णोः कारितं देविकातटे ॥२००.००६ कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।२००.००७ वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥२००.००७ निर्वाणवान् प्रदीप्तोऽभूद्वर्त्या मूषिकया तदा ।२००.००८ मृता राजात्मजा जाता राजपत्नी शताधिका ॥२००.००८ असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।२००.००९ विष्ण्वायतनदीपस्य तस्येदं भुज्यते फलं ॥२००.००९ जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ।२००.०१० एकदश्यां दीपदो वै विमाने दिवि मोदते ॥२००.०१० जायते दीपहर्ता तु मूको वा जड एव च ।२००.०११ अन्धे तमसि दुष्पारे नरके पतते किल ॥२००.०११ विक्रोशमानांश्च नरान् यमकिङ्कराहतान् ।२००.०१२ विलापैरलमत्रापि किं वो विलपिते फलं ॥२००.०१२ यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।२००.०१३ जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥२००.०१३ तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।२००.०१४ स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥२००.
Now, the two hundredth chapter: The vow of giving lamps.
नरकस्वरूपम् अग्निरुवाच पुष्पाद्यैः पूजनाद्विष्णोर्न याति नरकान्दवे ।२०३.००१ आयुषोऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥२०३.००१ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।२०३.००२ निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥२०३.००२ अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।२०३.००३ भुङ्क्तेऽथ पापकृत्दुःखं सुखं धर्माय सङ्गतः ॥२०३.००३ नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।२०३.००४ कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥२०३.००४ यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(२) ।२०३.००५ टिप्पणी १ आसनं मूर्तिषोढाङ्गमिति ख.. २ पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।पीड्यते नरकेऽधुनेति घ.. , छ.. च स्वर्गे तु नीयते धर्माद्वसिष्ठाद्युक्तिसंश्रयात् ॥२०३.००५ गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।२०३.००६ आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥२०३.००६ महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।२०३.००७ स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥२०३.००७ महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।२०३.००८ दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥२०३.००८ नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।२०३.००९ महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥२०३.००९ यावद्भूमिर्मातृहाद्या असिपत्रवनेऽसिभिः(१) ।२०३.०१० नैककल्पन्तु नरके करम्भवालुकासु च ॥२०३.०१० येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।२०३.०११ काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥२०३.०११ कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।२०३.०१२ सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥२०३.०१२ तैलपाके तु तिलवत्पीड्यते परपीडकः ।२०३.०१३ तैलपाके तु पच्येत शरणागतघातकः ॥२०३.०१३ निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे ।२०३.०१४ नाम्ना वज्रकवाटेन महापाते तदानृती ॥२०३.०१४ महाज्वाले पापबुद्धिः क्रकचेऽगम्यगामिनः ।२०३.०१५ सङ्करी गुडपाके च(२) प्रतुदेत्परमर्मनुत् ॥२०३.०१५ टिप्पणी १ असिपत्रवनेऽग्निभिरिति ङ.. २ गुरुपाके चेति ख.. , ज.. च क्षारह्रदे(१) प्राणिहन्ता क्षुरधारे च भूमिहृत् ।२०३.०१६ अम्बरीषे गोस्वर्णहृद्द्रुमच्छिद्वज्रशस्त्रके ॥२०३.०१६ मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।२०३.०१७ कश्मलेऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥२०३.०१७ दुर्धरे तु काचभक्षी वन्दिग्राहरताश्च ये ।२०३.०१८ मञ्जुषे नरके लोहेऽप्रतिष्ठे श्रुतिनिन्दकः ॥२०३.०१८ पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।२०३.०१९ बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥२०३.०१९ विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(२)
Now, the two hundred third chapter: The nature of hell.
पृथ्वीदानानि अग्निरुवाच पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।२१३.००१ शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥२१३.००१ जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।२१३.००२ उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥२१३.००२ तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।२१३.००३ उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥२१३.००३ कन्यसा च त्रिभागेन(१) त्रिहान्या कूर्मपङ्कजे ।२१३.००४ पलानान्तु सहस्रेण कल्पयेत्कल्पपादपं ॥२१३.००४ मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ।२१३.००५ टिप्पणी १ स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत्सुधीः ॥२१३.००५ एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।२१३.००६ विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥२१३.००६ ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।२१३.००७ धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥२१३.००७ विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ।२१३.००८ अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥२१३.००८ भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्य प्ररोहिणीम् ।२१३.००९ ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥२१३.००९ कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४)
Now, the two hundred thirteenth chapter: Gifts of land.
गायत्रीनिर्वाणं अग्निरुवाच एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत्स्मरेत् ।०१ गायञ्च्छिष्यान् यतस्त्रायेत्भार्यां प्राणांस्तथैव च(१) ॥०१ ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ।०२ प्रकाशनात्सा सवितुर्वाग्रूपत्वात्सरस्वती ॥०२ तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ।०३ भा दीप्ताविति रूपं हि भ्रस्जः पाकेऽथ तत्स्मृतं ॥०३ ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ।०४ भर्गः स्याद्भ्राजत इति बहुलं छन्द ईरितं ॥०४ वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ।०५ स्वर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥०५ वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ।०६ नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥०६ अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ।०७ तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥०७ शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ।०८ केचित्सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥०८ टिप्पणी १ कायान् प्राणांस्तथैव चेति ञ.. अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।०९ तत्पदं परमं विष्णोर्देवस्य सवितुः स्मृतं ॥०९ महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ।१० पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्च पाचयेत् ॥१० अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।११ आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥११ दधातेर्वा धीमहीति मनसा धारयेमहि ।१२ नोऽस्माकं यश्च भर्गश्च सर्वेषां प्राणिनां धियः ॥१२ चोदयात्प्रेरयेद्बुद्धीर्भोक्तॄणां सर्वकर्मसु ।१३ दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् ॥१३ ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वा ।१४ ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥१४ स्वर्गाद्यैः क्रीडते देवो योऽहं स पुरुषः प्रभुः ।१५ आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥१५ जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ।१६ ध्यानेन पुरुषोऽयञ्च द्रष्टव्यः सूर्यमण्डले ॥१६ तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत्परमं पदं ।१७ देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥१७ देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ।१८ योऽसावादित्यपुरुषः सोऽसावहमनन्त ओं ॥१८ ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा
Now, the two hundred sixteenth chapter: The dissolution into Gāyatrī.
गायत्रीनिर्वाणं अग्निरुवाच लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।२१७.००१ निर्वाणं(१) परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२) ॥२१७.००१ नमः कनकलिङ्गाय(३) वेदलिङ्गाय वै नमः ।२१७.००२ नमः परमलिङ्गाय(४) व्योमलिङ्गाय वै नमः ॥२१७.००२ नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।२१७.००३ नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥२१७.००३ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।२१७.००४ नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥२१७.००४ नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।२१७.००५ नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥२१७.००५ नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।२१७.००६ नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥२१७.००६ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।२१७.००७ टिप्पणी १ निर्मलमिति ख.. २ वशिष्तोप्येव शङ्करादिति ख.. , घ.. च ३ कमललिङ्गायेति ट.. ४ नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१) वै नमः(२) ॥२१७.००७ नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।२१७.००८ नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥२१७.००८ नमो वायूर्ध्वलिङ्गाय(३) श्रुतिलिङ्गाय वै नमः ।२१७.००९ नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४) वै नमः ॥२१७.००९ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।२१७.०१० नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५) ॥२१७.०१० दिश नः परमं योगमपत्यं मत्समन्तथा ।२१७.०११ ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६) ॥२१७.०११ अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।२१७.०१२ अग्निरुवाच वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥२१७.०१२ वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत
Now, the two hundred seventeenth chapter: The dissolution into Gāyatrī.
अग्निरुवाच पुष्करेण च रामाय राजधर्म्मं हि पृच्छते। यथादौ कथितं तद्वद्वशिष्ठ कथयामि ते ।। २१८.
Agni said: When Puṣkara asked Rāma about the king's duties, as told at the beginning, so I will tell you, O Vasiṣṭha.
पुष्कर उवाच राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः । राजा भवेत्१ शत्रुहन्ता प्रजापालः सुदण्डवान् ।। २१८.
Puṣkara said: I will declare the king's duties, for from the king's duties come all things. The king should be a destroyer of enemies, a protector of his subjects, and skilled in punishment.
मन्त्रिणश्चाखिलान्मज्ञान्महिषीं धर्म्मलक्षणां । संवत्सरं नृपः काले ससन्भारोऽभिषेचनं ।। २१८.
He should appoint all ministers who are wise, and a queen possessing the marks of virtue. The king should, at the proper time, with due ceremony, perform the consecration together with the burden of rule for a year.
कुर्य्यान्मृते नृते नात्र कालस्य नियमः स्मृतः । तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ ।। २१८.
One should perform the bathing for the deceased or the living; there is no prescribed time for this. The bathing is done with sesame seeds and mustard seeds, with the family priest present for a year.
घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः । अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके ।। २१८.
After proclaiming victory for the king, the king, seated on the auspicious throne, should announce safety, release those in fortresses, and free the keepers of the realm.
पुरोधसाऽभिषेकात् प्राक् कार्य्यैन्द्री शान्तिरेव च । उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्
Before the consecration by the priest, the Indra-rite and the pacification rite should be performed; on the day of consecration, while fasting, one should offer oblations to the fire on the altar, reciting the prescribed mantras.
वैष्णवानैन्द्रमन्त्रांस्तु सावित्रान् वैश्वदैवतान् । सौम्यान् स्वस्त्ययनं शर्म्मआयुष्याभयदाम्मनून् ।। २१८.
He should recite Vaiṣṇava, Indra, Sāvitrī, and universal deities' mantras, as well as auspicious, welfare-bestowing, life-giving, and fear-removing mantras.
अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं । सम्पातवन्तं हैमञ्च पूजयेद्गन्धषुष्पकैः ।। २१८.
He should worship the Aparājitā vessel, placed on the southern side of the fire, filled and made of gold, with fragrant substances and flowers.
प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः । रथौघमेघनिर्घोषो विधूमश्च हुताशनः ।। २१८.
The fire should have a clockwise-turning flame, shine like heated gold, roar like a chariot or cloud, and be smokeless.
अनुलोमः सुगन्धश्च स्वस्तिकाकारसन्निभः । प्रसन्नाचिर्म्महाज्वालः स्फुलिङ्गरहितो हितः ।। २१८.
It should burn upright, be fragrant, resemble the shape of a svastika, have a clear and steady flame, be great and blazing, without sparks, and be auspicious.
न व्रजेयुश्च मध्येन मार्जारमृगपक्षिणः । पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृपः ।। २१८.
Cats, deer, and birds should not pass through the middle; then, with earth from a mountain peak, the king should cleanse his head.
वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् । इन्द्रालयमृदा४ ग्रीवां हृदयन्तु नृपाजिरात् ।। २१९.
With earth from the top of an anthill, he should cleanse his ears and mouth; with earth from Indra's abode, his neck; and with earth from the royal arena, his heart.
करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं । वृषश्रृङ्गोद्धृतमृदा वामश्चैव तथा भुजं ।। २२०.
With earth taken from an elephant's tusk, he should cleanse his right arm; and with earth from a bull's horn, likewise his left arm.
वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते । यज्ञस्थानाथैवोरू गोस्थानाज्जानुनी तथा ।। २१८.
With earth from the entrance of a courtesan's house, the king's waist is purified; from the sacrificial place, the thighs; and from the cowshed, the knees.
अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके । मूर्द्धानं पञ्चगव्येन भद्रासनगतं नृपं ।। २१८.
From the horse-stable, the shanks; with earth from a chariot wheel, the feet; and the king, seated on the auspicious throne, should have his head anointed with the five products of the cow.
अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः । पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्रह्मणः ।। २१८.
He should anoint the four ministers with pitchers: in the east, the brāhmaṇa with a golden pitcher filled with ghee.
रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः । दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च ।। २१९.
In the south, the kṣatriya with a silver pitcher filled with milk; in the west, the vaiśya with a copper pitcher filled with curds.
Now, the one hundred seventy-eighth chapter: The vows of the third lunar day.