अष्टाष्टकदेव्यः ईश्वर उवाच त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं ।१४६.००१ ओं नमो भगवते रुद्राय नमः । नमश्चामुण्डे नमश्चाकाशमातॄणां सर्वकामार्थसाधनीनामजरामरीणां सर्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्तिनीनां सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तकर्मप्रवृत्तानां सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्मच्छेदनं परमसिद्धिकरम्मातॄणां वचनं शुभं ब्रह्मखण्डपदे रुद्रैरेकविंशाधिकं शतं ॥१४६.००१ तद्यथा, ओं नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमःचामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे स्वाहा ।ों नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ओं नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा(१) यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं ।१४६.००२ ओं नमश्चामुण्डे ऊर्ध्वकेशि ज्वलितशिखरे(२) विद्युज्जिह्वे तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ओं मांसशोणितसुरासवप्रिये हस २ ओं नृत्य २ ओं विजृम्भय २ ओं मायत्रैलोक्यरूपसहस्रपरिवर्तिनीनां ओं बन्ध २ ओं कुट्ट २ चिरि २ हिरि २ भिरि २ त्रासनि २ भ्रामणि २ ओं द्राविणि २ क्षोभणि २ टिप्पणी १ ओं नमश्चामुण्डे माहेश्वरीत्यादिः, विच्चे स्वाहेत्यन्तः पाठः छ.. पुस्तके नास्ति २ ज्वलितशिख इति ख.. , ङ.. , घ.. , ञ.. च मारिणि २ संजीवनि २ हेरि २ गेरि २ घेरि २ ओं मुरि २ ओं नमो मातृगणाय नमो नमो विच्चे एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः ॥१४६.००२ हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद्यजेत् ।१४६.००३ हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् ॥१४६.००३ अकुन्तादित्रिमध्यस्थं कुलादेश्च त्रिमध्यगं ।१४६.००४ मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं ॥१४६.००४ त्रयार्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां ।१४६.००५ ओं क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें सवीजत्र्यक्षरः ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं ॥१४६.००५ क्षादयश्च ककारान्ता अकुला च कुलक्रमात् ।१४६.००६ शशिनी भानुनी चैव पावनी शिव इत्यतः ॥१४६.००६ गान्धरी णश्च पिण्डाक्षी चपला गजजिह्विका ।१४६.००७ म मृषा भयसारा स्यान्मध्यमा फोऽजराय च ॥१४६.००७ कुमारो कालरात्री न सङ्कटा द ध कालिका ।१४६.००८ फ शिवा भवघोरा ण ट वीभत्सा त विद्युता ॥१४६.००८ ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा ।१४६.००९ कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि ॥१४६.००९ ख काली क कुलालम्वी अनुलोमा द पिण्डिनी ।१४६.०१० आ वेदिनी इ रूपी वै शान्तिर्मूर्तिः कलाकुला ॥१४६.०१० ऋ खड्गिनी उ बलिता ळ कुला ॡ तथा यदि ।१४६.०११ सुभगा वेदनादिन्या कराली अं च मध्यमा ॥१४६.०११ अः अपेतरया पीठे पूज्याश्च कक्तयः क्रमात् ।१४६.०१२ स्खां स्खीं स्खौं महाभैरवाय नमः ।१४६.०१२ अक्षोद्या ह्यृक्षकर्णी च राक्षसी क्षपणक्षया ॥१४६.०१२ पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः ।१४६.०१३ इला लीलावती नीला लङ्गा लङ्केश्वरी तथा ॥१४६.०१३ लालसा विमला माला(१) माहेश्वर्य.अष्टके स्थिताः ।१४६.०१४ हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी ॥१४६.०१४ हाहारवा तथा क्रूरा क्रोधा बाला खरानना ।१४६.०१५ कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥१४६.०१५ स्सर्वज्ञा तरला तारा ऋग्वेदा च हयानना ।१४६.०१६ सारासारस्वयङ्ग्राहा शाश्वती(२) वैष्णवीकुले ॥१४६.०१६ तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी ।१४६.०१७ मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया ॥१४६.०१७ वाराहीकुलसम्भूताः पूजनीया जयार्थिना ।१४६.०१८ चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना ॥१४६.०१८ पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः ।१४६.०१९ पावनी याचनी चैव वामनी दमनी तथा ॥१४६.०१९ बिन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी ।१४६.०२० चामुण्डाकुलसम्भूता मण्डले पूजिता जये ॥१४६.०२० यमजिह्वा जयन्ती च दुर्जया च यमान्तिका(३) ।१४६.०२१ टिप्पणी १ लोला इति ज.. २ सात्त्विकी इति ज.. ३ जयन्तिकेति ख.. विडाली रेवती चैव जया च विजया तथा ॥१४६.०२१ महालक्ष्मीकुले जाता अष्टाष्टकमुदाहृतम्
I shall explain the triple section, the goddesses of Brahmā, Viṣṇu, and Maheśvarī.
त्वरितापूजादिः ईश्वर उवाच । ओं गुह्यकुब्जिके हुं फट्मम सर्वोपद्रवान् यन्त्रमन्त्रतन्त्रचूर्णप्रयोगादिकं येन कृतं कारितं कुरुते करिष्यति कारयिष्यति तान् सर्वान् हन २ दंष्ट्राकरालिनि ह्रैं ह्रीं हुं गुह्यकुब्जिकायै द्वाहा । ह्रौं ओं खे(१) वों गुह्यकुब्जिकायै नमः ह्रीं सर्वजनक्षोभणी जनानुकर्षिणी ततः ।१४७.००१ ओं खें ख्यां(२), सर्वजनवशङ्करी तथा स्याज्जनमोहिनी ॥१४७.००१ ओं ख्यौं(३) सर्वजनस्तम्भनी ऐं खं ख्रां क्षोभणी तथा ।१४७.००२ टिप्पणी १ क्रीं ख ख ये ख्रौं इति छ.. २ ओं ख ख्यां इति छ.. । ओं स्फूं इति ग.. ३ ओं ख ख्रौं इति छ.. । ओं स्फैं इति झ.. ऐं त्रितत्त्वं वीजं श्रेष्ठङ्कुलं पञ्चाक्षरी तथा ॥१४७.००२ फं श्रीं क्षीं श्रीं ह्रीं क्षें वच्छे क्षे क्षे ह्रूं फठ्रीं नमः । ओं ह्रां क्षे वच्छे क्षे क्षो ह्रीं फट्नवेयं त्वरिता पुनर्ज्ञेयार्चिता जये ह्रीं सिंहायेत्यासनं स्याथ्रीं क्षे हृदयमीरितं ।१४७.००३ वच्छेऽथ शिरसे स्वाहा त्वरितायाः शिवः स्मृतः ॥१४७.००३ क्षें ह्रीं शिखायै वौषट्स्याद्भवेत्क्षें कवचाय हुं ।१४७.००४ ह्रूं नेत्रत्रयाय वौषठ्रीमन्तञ्च फडन्तकं ॥१४७.००४ ह्रीं कारी(१) खेचरी चण्डा छेदनी क्षोभणी क्रिया ।१४७.००५ क्षेमकारी च ह्रीं कारी फट्कारी नवशक्तयः ॥१४७.००५ अथ दूरीः प्रवक्ष्यामि पूज्या इन्द्रादिगाश्च ताः ।१४७.००६ ह्रीं नले बहुतुण्डे(२) च खगे ह्रीं(३) खेचरे ज्वलानि ज्वल ख खे छ छे शवविभीषणे(४) च छे चण्डे छेदनि करालि ख खे छे क्षे खरहाङ्गी ह्रीम् । क्षे वक्षे कपिले ह क्षे ह्रूं क्रून्तेजोवति रौद्रि मातः ह्रीं फे वे फे फे वक्रे वरी फे । पुटि पुटि घोरे ह्रूं फट्(५) ब्रह्मवेतालि मध्ये गुह्याङ्गानि च तत्त्वानि त्वरितायाः पुनर्वदे ॥१४७.००६ ह्रौं ह्रूं हः(६) हृदये प्रोक्तं हों हश्च शिरः स्मृतं ।१४७.००७ फां ज्वल ज्वलेति च शिखा वर्म इले ह्रं हुं हुं ॥१४७.००७ टिप्पणी १ क्रीं कारो इति छ.. २ ह्रीं नले वज्रतुण्डे इति ज.. ३ खगे क्रीमिति छ.. ४ शरविभीषणे इति ज.. ५ क्रूं फटिति छ.. ६ क्रीं ह्रूं ह इति छ.. क्रों क्षूं श्रीं नेत्रमित्युक्तं क्षौं अस्त्रं वै ततश्च फठुं खे वच्छे क्षेः ह्रीं क्षें हुं फट्वा हुं शिरश्चैव मध्ये स्यात्पूर्वादौ खे सदाशिवे ।१४७.००८ व ईशः छे मनोन्मानी मक्षे तार्क्षो ह्रीं च माधवः ॥१४७.००८ क्षें ब्रह्मा हुं तथादित्यो दारुणं फट्स्मृताः सदा
The worship of Tvaritā and related rites—
मन्वन्तराणि अग्निरुवाच मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ।१५०.००१ अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥१५०.००१ और्वाद्याश्च सप्तर्षय इन्द्रश्चैव शतक्रतुः ।१५०.००२ पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ॥१५०.००२ विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ।१५०.००३ चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः ॥१५०.००३ सुशान्तिरिन्द्रो देवाश्च सुधामाद्या वशिष्ठजाः ।१५०.००४ सप्तर्षयोऽजाद्याः पुत्राश्चतुर्थस्तामसी मनुः ॥१५०.००४ स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ।१५०.००५ ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥१५०.००५ रैवते वितथश्चेन्द्रो अमिताभास्तथा सुराः ।१५०.००६ हिरण्यरोमाद्या मुनयो(१) बलबन्धादयः सुताः ॥१५०.००६ मनोजवश्चाक्षुषेऽथ इन्द्रः स्वात्यादयः सुराः ।१५०.००७ सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥१५०.००७ विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ।१५०.००८ आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥१५०.००८ वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः ।१५०.००९ विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ।१५०.०१० स्वायम्भुवे मानसोऽभूदजितस्तदनन्तरे ॥१५०.०१० सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ।१५०.०११ छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः ॥१५०.०११ पूर्वस्य च सवर्णोऽसौ सावर्णिर्भविताष्टमः ।१५०.०१२ सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥१५०.०१२ मुनयो बलिरिन्द्रश्च विरजप्रमुखाः सुताः ।१५०.०१३ नवमो दक्षसावर्णिः पाराद्याश्च तदा सुराः(२) ॥१५०.०१३ इन्द्रश्चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ।१५०.०१४ धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥१५०.०१४ सुखादयो देवगणास्तेषां शान्तिः शतक्रतुः ।१५०.०१५ टिप्पणी १ हिरण्यरोमाद्या ऋषय इति ञ.. २ तथा सुरा इति छ.. हविष्याद्याश्च मुनयः सुक्षेत्राद्याश्च तत्सुताः ॥१५०.०१५ धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ।१५०.०१६ गणेशश्चेन्द्रो नश्चराद्या मुनयः पुत्रकामयोः ॥१५०.०१६ सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।१५०.०१७ ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥१५०.०१७ तपस्याद्याः सप्तर्षयः सुता वै देववन्मुखाः ।१५०.०१८ मनुस्त्रयोदशो रौच्यः सुत्रामाणादयः सुराः ॥१५०.०१८ इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।१५०.०१९ निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥१५०.०१९ मनुश्चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ।१५०.०२० चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥१५०.०२० चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।१५०.०२१ प्रवर्तयन्ति वेदांश्च भुवि सप्तर्षयो दिवः ॥१५०.०२१ देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।१५०.०२२ ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥१५०.०२२ मन्वाद्याश्च हरिर्वेदं द्वापरान्ते विभेद सः ।१५०.०२३ आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः ॥१५०.०२३ एकश्चासीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।१५०.०२४ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥१५०.०२४ औद्गात्रं सामभिओश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ।१५०.०२५ प्रथमं व्यासशिष्यस्तु पैलो ह्यृग्वेदपारगः ॥१५०.०२५ इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ।१५०.०२६ बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां ॥१५०.०२६ यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।१५०.०२७ वैशम्पायननामासौ व्यासशिष्यश्चकार वै ॥१५०.०२७ काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ।१५०.०२८ सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥१५०.०२८ सुमन्तुश्च सुकर्मा च एकैकां संहितां ततः ।१५०.०२९ गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः ॥१५०.०२९ सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ।१५०.०३० शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥१५०.०३० पुराणसंहितां चक्रे सुतो व्यासप्रसादतः
अथ सप्तपञ्चाशदधिकशततमोऽध्यायः शावाशौचादिः पुष्कर उवाच प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ।१५७.००१ दशाहं शावमाशौचं सपिण्देषु विधीयते ॥१५७.००१ जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ।१५७.००२ द्वादशाहेन राजन्यः पक्षाद्वैश्योऽथ मासतः ॥१५७.००२ शूद्रोऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ।१५७.००३ षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥१५७.००३ ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ।१५७.००४ विट्शूद्रयोनेः शुद्धिः स्यात्क्रमात्परशुरामक ॥१५७.००४ षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ।१५७.००५ आदन्तजननात्सद्य आचूडान्नैशिकी श्रुतिः(१) ॥१५७.००५ त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ।१५७.००६ ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥१५७.००६ द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ।१५७.००७ गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥१५७.००७ स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।१५७.००८ तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥१५७.००८ विवाहितासु नाशौचं पितृपक्षे विधीयते ।१५७.००९ पितुर्गृहे प्रसूतानां विशुद्धिर्नैशिकी स्मृता ॥१५७.००९ सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ।१५७.०१० विवाहिता हि चेत्कन्या म्रियते पितृवेश्मनि ॥१५७.०१० तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ।१५७.०११ समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥१५७.०११ असमानं द्वितीयेन धर्मराजवचो यथा ।१५७.०१२ देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥१५७.०१२ यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ।१५७.०१३ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥१५७.०१३ तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति ।१५७.०१४ मातामहे तथातीते आचार्ये च तथा मृते ॥१५७.०१४ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ।१५७.०१५ सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥१५७.०१५ टिप्पणी १ आचडान्नैशिकी तथेति ट.. दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ।१५७.०१६ वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥१५७.०१६ उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ।१५७.०१७ कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः ॥१५७.०१७ भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(१) ।१५७.०१८ विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः ॥१५७.०१८ चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ।१५७.०१९ वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं ॥१५७.०१९ विकर्षूणां समीपे च ज्वालयेज्ज्वलनत्रयं ।१५७.०२० सोमाय वह्नये राम यमाय च समासतः ॥१५७.०२० जुहुयादाहुतीः सम्यक्सर्वत्रैव चतुस्त्रयः ।१५७.०२१ पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥१५७.०२१ अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।१५७.०२२ मध्ये चेदधिमासः स्यात्कुर्यादभ्यधिकन्तु तत् ॥१५७.०२२ अथवा द्वादशाहेन सर्वमेतत्समापयेत् ।१५७.०२३ संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥१५७.०२३ तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ।१५७.०२४ संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥१५७.०२४ प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ।१५७.०२५ पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥१५७.०२५ सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ।१५७.०२६ टिप्पणी १ धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥१५७.०२६ प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।१५७.०२७ पृथक्पृथक्प्रकर्तव्यं कर्मैतत्कर्मपात्रके ॥१५७.०२७ मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ।१५७.०२८ सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(१) ॥१५७.०२८ श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ।१५७.०२९ गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥१५७.०२९ शक्या गणयितुं लोके नत्वतीताः पितामहाः ।१५७.०३० काले सततगे स्थैर्यं नास्ति तस्मात्क्रियां चरेत् ॥१५७.०३० देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ।१५७.०३१ नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥१५७.०३१ भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ।१५७.०३२ पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥१५७.०३२ यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।१५७.०३३ राजाज्ञाकारिणो(२) ये च स्नायाद्वै प्रेतगाम्यपि ॥१५७.०३३ मैथुने कटधूमे च सद्यः स्नानं विधीयते ।१५७.०३४ द्विजं न निर्हरेत्(३) प्रेतं शूद्रेण तु कथञ्चन ॥१५७.०३४ न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(४) ।१५७.०३५ अनाथविप्रप्रेतस्य वहनात्स्वरगलोकभाक् ॥१५७.०३५ टिप्पणी १ कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति झ.. २ राजाज्ञाकारका इति ट.. ३ न निर्दहेदिति ख.. ४ तयोर्दोषोऽभिजायते इति ङ.. सङ्ग्रामे जयमाप्नोति प्रेतेऽनाथे च काष्ठदः ।१५७.०३६ सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥१५७.०३६ परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ।१५७.०३७ प्रेताय च तथा दद्युस्त्रींस्त्रींश्चैवोदकाञ्जलीन् ॥१५७.०३७ द्वार्यश्मनि पदं दत्वा प्रविशेयुस्तथा गृहं ।१५७.०३८ अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥१५७.०३८ पृथक्शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ।१५७.०३९ एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः ॥१५७.०३९ सिद्धार्थकैस्तिलैर्विद्वान्मज्जेद्वासोपरं दधत्(१) ।१५७.०४० अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥१५७.०४० कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ।१५७.०४१ चतुर्थे च दिनेकार्यस्तथास्थ्नां चैव सञ्चयः ॥१५७.०४१ अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते
अध्याय {१५९} अथैकोनषष्ट्यधिकशततमोऽध्यायः असंस्कृतादिशौचं पुष्कर उवाच संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ।१५९.००१ अस्थ्नाङ्गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥१५९.००१ गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थितिः ।१५९.००२ आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥१५९.००२ तेषामपि तथा गाङ्गे तोयेऽस्थ्नां पतनं हितं ।१५९.००३ तेषां दत्तं जलं चान्नं गगने तत्प्रलीयते ॥१५९.००३ अनुग्रहेण महता प्रेतस्य पतितस्य च ।१५९.००४ नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥१५९.००४ अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।१५९.००५ पतनात्त्रायते यस्मात्तस्मात्पात्रं जनार्दनः ॥१५९.००५ पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ।१५९.००६ दृष्ट्वा लोकान्म्रियमाणान् सहायं धर्ममाचरेत् ॥१५९.००६ मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ।१५९.००७ जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(१) ॥१५९.००७ धर्म एको(२) व्रजत्येनं यत्र क्वचन गामिनं ।१५९.००८ श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥१५९.००८ न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ।१५९.००९ क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥१५९.००९ वृकीवीरणमासाद्य मृत्युरादाय गच्छति ।१५९.०१० न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ॥१५९.०१० आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ।१५९.०११ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥१५९.०११ कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।१५९.०१२ - - - - - -- - -- - -- - -- - -- -- - -- १ पन्था विभज्यते इति ग.. २ धर्म एवेति ज.. - - - -- - - -- - -- - -- - -- - - --- औषधानि(१) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥१५९.०१२ वत्सवत्प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ।१५९.०१३ अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥१५९.०१३ कौमारादि यथा देहे तथा देहान्तरागमः ।१५९.०१४ नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥१५९.०१४ देही नित्यमवध्योऽयं यतः शोकं ततस्त्यजेत्
Puṣkara said: For one who is consecrated or not, heaven or liberation is attained at death.
अथ द्विषष्ट्यधिकशततमोऽध्यायः धर्मशास्त्रकथनं पुष्कर उवाच मनुर्विष्णुर्याज्ञवल्को हारीतोऽत्रिर्यमोऽङिगिराः ।१६२.००१ वसिष्ठदक्षसंवर्तशातातपपराशराः ॥१६२.००१ आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ।१६२.००२ गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् ॥१६२.००२ तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ।१६२.००३ प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं ॥१६२.००३ काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ।१६२.००४ वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः ॥१६२.००४ अहिंसा गुरुसेवा च निःश्रेयसकरं परं ।१६२.००५ सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥१६२.००५ तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ।१६२.००६ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥१६२.००६ समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।१६२.००७ आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥१६२.००७ एतद्द्विजन्मसामर्थ्यं(१) ब्राह्मणस्य विशेषतः ।१६२.००८ टिप्पणी १ एतद्द्विजन्मसाग्र्यमिति ख.. , ङ.. , झ.. , ञ.. , ट.. च । एतद्द्विजन्मसामग्रीति घ. वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥१६२.००८ इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते(१) ।१६२.००९ स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥१६२.००९ हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ।१६२.०१० पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥१६२.०१० जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ।१६२.०११ त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥१६२.०११ उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा(२) ।१६२.०१२ सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥१६२.०१२ समाप्य वेदं ह्यनिशमारण्यकमधीत्य च ।१६२.०१३ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥१६२.०१३ ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ।१६२.०१४ पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः(३) ॥१६२.०१४ कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ।१६२.०१५ श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने ॥१६२.०१५ अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।१६२.०१६ अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥१६२.०१६ भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ।१६२.०१७ पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥१६२.०१७ धावतः प्राणिबाधे च विशिष्टे गृहमागते ।१६२.०१८ टिप्पणी १ ब्रह्मचर्याय कल्प्यते इति ङ.. २ स्वशाखाश्रोत्रिये मृते इति घ.. , झ.. , ञ.. , ट च ३ शशमार्जारशूकरैरिति ङ.. खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥१६२.०१८ सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः
Puṣkara said: Manu, Viṣṇu, Yājñavalkya, Hārīta, Atri, Yama, Aṅgiras, Vasiṣṭha, Dakṣa, Saṃvarta, Śātātapa, Parāśara, Āpastamba, Uśanas, Vyāsa, Kātyāyana, Bṛhaspati, Gotama, Śaṅkha, and Likhita—these sages have spoken about dharma.
thumb|पार्वण श्राद्ध अथ त्रिषष्ट्यधिकशततमोऽध्यायः श्राद्धकल्पकथनं पुष्कर उवाच श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।१६३.००१ निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥१६३.००१ प्राच्योपवेशयेत्पीठे युग्मान्दैवेऽथ पित्रके ।१६३.००२ अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥१६३.००२ मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ।१६३.००३ पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥१६३.००३ आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ।१६३.००४ यवैरन्ववकीर्याथ(?) भाजने सपवित्रके ॥१६३.००४ शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ।१६३.००५ यादिव्या इतिमन्त्रेण हस्ते ह्यर्घं विनिक्षिपेत् ॥१६३.००५ दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ।१६३.००६ अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥१६३.००६ द्विगुणांस्तु कुशान् कृत्वा ह्युशन्तस्त्वेत्यृचा पितॄन् ।१६३.००७ आवाह्य तदनुज्ञातो जपेदायान्तु नः ततः ॥१६३.००७ यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ।१६३.००८ दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥१६३.००८ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।१६३.००९ अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥१६३.००९ कुरुष्वेति ह्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।१६३.०१० हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥१६३.०१० यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ।१६३.०११ दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥१६३.०११ कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ।१६३.०१२ सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥१६३.०१२ जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।१६३.०१३ अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥१६३.०१३ अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ।१६३.०१४ तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥१६३.०१४ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।१६३.०१५ उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात्पितृयज्ञवत् ॥१६३.०१५ मातामहानामप्येवं दद्यादाचमनं ततः ।१६३.०१६ स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥१६३.०१६ दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।१६३.०१७ वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां(१) ॥१६३.०१७ टिप्पणी १ मातामहानामित्यादिः, स्वपितृभ्यः स्वधोच्यतामित्यन्तः पाठः झ.. पुस्तके नास्ति कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ।१६३.०१८ प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥१६३.०१८ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।१६३.०१९ श्रद्धा च नो माव्यगमद्बहुदेयं च नो .स्त्विति ॥१६३.०१९ इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।१६३.०२० वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं(१) ॥१६३.०२० यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ।१६३.०२१ पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥१६३.०२१ प्रदक्षिणमनुव्रज्य भक्त्वा तु पितृसेवितं ।१६३.०२२ ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥१६३.०२२ एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।१६३.०२३ यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥१६३.०२३ एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।१६३.०२४ आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥१६३.०२४ उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ।१६३.०२५ अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥१६३.०२५ गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयं ।१६३.०२६ अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१६३.०२६ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।१६३.०२७ एतत्सपिण्डीकरणमेकोद्दिष्टं स्तिया सह(२) ॥१६३.०२७ अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।१६३.०२८ टिप्पणी १ पितृपूर्वं विसर्जयेदिति ख.. , छ.. , झ.. च २ स्त्र्या अपीति ख.. , छ.. च तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥१६३.०२८ मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ।१६३.०२९ प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् ॥१६३.०२९ हविष्यान्नेन वै मासं पायसेन तु वत्सरं ।१६३.०३० मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः(१) ॥१६३.०३० ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमं ।१६३.०३१ मासवृद्ध्याभितृप्यन्ति दत्तैरेव(२) पितामहाः ॥१६३.०३१ खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च(३) ।१६३.०३२ लोहामिषं कालशाकं मांसं वार्धीनसस्य च ॥१६३.०३२ यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते(४) ।१६३.०३३ तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥१६३.०३३ कन्यां प्रजां वन्दिनश्च पशून्मुख्यान् सुतानपि ।१६३.०३४ घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥१६३.०३४ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।१६३.०३५ ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥१६३.०३५ प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ।१६३.०३६ शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥१६३.०३६ स्वर्गं(५) ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ।१६३.०३७ पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥१६३.०३७ टिप्पणी १ मात्स्याविहारिणौरभ्रशाकुनच्छागपार्षतैरिति छ.. २ दत्तैरिहेति घ.. , ङ.. , ञ.. च ३ मधुमुद्गान्नमेव वेति ङ.. ४ सर्वमानन्त्यमश्नुते इति घ.. , ङ.. च ५ स्वर्णमिति ख.. , छ.. च प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ।१६३.०३८ अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥१६३.०३८ धनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ।१६३.०३९ अश्वानायुश्च विधिवत्यः श्राद्धं सम्प्रयच्छति ॥१६३.०३९ कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ।१६३.०४० वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥१६३.०४० प्रीणयन्ति मनुष्याणां(१) पितॄन् श्राद्धेन तर्पिताः ।१६३.०४१ आयुः प्रजां धनं(२) विद्यां स्वर्गं मोक्षं सुखानि च ॥१६३.०४१ प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः(३)
अथ पञ्चषष्ट्यधिकशततमोऽध्यायः नानाधर्माः अग्निरुवाच ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ।१६५.००१ अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥१६५.००१ श्राद्धन्तु ध्यायिने देयं(३) गव्यं दधि घृतं पयः ।१६५.००२ प्रियङ्गवो मसूराश्च वार्ताकुः कोद्रवो न हि ॥१६५.००२ सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ।१६५.००३ हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिकेऽक्ष्या ॥१६५.००३ पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ।१६५.००४ तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥१६५.००४ अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ।१६५.००५ अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥१६५.००५ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।१६५.००६ बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा(१) ॥१६५.००६ सन्त्यजेद्दूषितान्नारीमृतुकाले न शुद्ध्यति ।१६५.००७ य आत्मव्यतिरेकेण द्वितीयं नात्र पश्यति(२) ॥१६५.००७ ब्रह्मभूतः स एवेह योगी चात्मरतोऽमलः ।१६५.००८ विषयेन्द्रियसंयोगात्केचिद्योगं वदन्ति वै ॥१६५.००८ अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः ।१६५.००९ आत्मनो मनसश्चैव संयोगञ्च तथा परे ॥१६५.००९ वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।१६५.०१० एकीकृत्य विमुच्येत बन्धाद्योगोऽयमुत्तमः ॥१६५.०१० कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ।१६५.०११ देवासुरमनुष्यैर्वा स जेतुं नैव शक्यते(३) ॥१६५.०११ बहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।१६५.०१२ मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६५.०१२ सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।१६५.०१३ एतज्ज्ञानञ्च ध्यानञ्च शेषोऽन्यो ग्रन्थविस्तरः(४) ॥१६५.०१३ यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ।१६५.०१४ कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥१६५.०१४ असंवेद्यं हि तद्ब्रह्म(१) कुमारी स्त्रीमुखं यथा ।१६५.०१५ अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥१६५.०१५ सन्न्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।१६५.०१६ एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥१६५.०१६ उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ।१६५.०१७ द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत्फलं ॥१६५.०१७ एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।१६५.०१८ सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥१६५.०१८ पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।१६५.०१९ भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥१६५.०१९ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।१६५.०२० अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥१६५.०२० निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ।१६५.०२१ ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥१६५.०२१ श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ।१६५.०२२ आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥१६५.०२२ अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ।१६५.०२३ आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥१६५.०२३ प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ।१६५.०२४ ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥१६५.०२४ विदुरा नाम चण्डाला जायन्ते नात्र संशयः ।१६५.०२५ शतिको म्रियते गृध्रः श्वासौ द्वादशिकस्तथा ॥१६५.०२५ भासो विंशतिवर्षाणि सूकरो दशभिस्तथा ।१६५.०२६ अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥१६५.०२६ ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ।१६५.०२७ ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः ॥१६५.०२७ पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।१६५.०२८ प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥१६५.०२८ योगमेव निषेवेतेत नान्यं मन्त्रमघापहम्
अथ षट्षष्ट्यधिकशततमोऽध्यायः वर्णधर्मादिकथनं पुष्कर उवाच वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(१) ।१६६.००१ वर्णत्वमेकमाश्रित्य योऽधिकारः प्रवर्तते ॥१६६.००१ वर्णधर्मः स विज्ञेयो यथोपनयनन्त्रिषु ।१६६.००२ यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥१६६.००२ उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ।१६६.००३ उभयेन निमित्तेन यो विधिः सम्प्रवर्तते ॥१६६.००३ नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।१६६.००४ ब्रह्मचारी गृही चापि वानप्रस्थो यतिर्नृप ॥१६६.००४ उक्त आश्रमधर्मस्तु धर्मः स्यात्पञ्चधा परः(१) ।१६६.००५ षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥१६६.००५ स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ।१६६.००६ उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥१६६.००६ तुल्यार्थानां विकल्पः स्याद्यागमूलः प्रकीर्तितः ।१६६.००७ वेदे तु विहितो धर्मः स्मृतौ तादृश एव च ॥१६६.००७ अनुवादं स्मृतिः सूते(२) कार्यार्थमिति मानवाः ।१६६.००८ गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(३) ॥१६६.००८ विशेषदृष्ट एवासौ फलार्थ इति मानवाः ।१६६.००९ स्यादष्टचत्वारिंशद्भिः संस्कारैर्ब्रह्मलोकगः ॥१६६.००९ गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।१६६.०१० जातकर्म नामकृतिरन्नप्राशनचूडकं ॥१६६.०१० संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ।१६६.०११ स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥१६६.०११ देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ।१६६.०१२ ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरोऽष्टकाः ॥१६६.०१२ पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ।१६६.०१३ आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥१६६.०१३ अग्न्याधेयमग्निहोत्रं(१) दर्शः स्यात्पशुबन्धकः ।१६६.०१४ चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः ॥१६६.०१४ सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ।१६६.०१५ अत्यग्निष्टोम उक्थश्च षोडशी वाजपेयकः ॥१६६.०१५ अतिरात्रास्तथा स्तोम अष्टौ चात्मगुणास्ततः ।१६६.०१६ दया क्षमानसूया च अनायासोऽथ मङ्गलं ॥१६६.०१६ अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ।१६६.०१७ प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥१६६.०१७ स्नानभोजनकाले च षट्सु मौनं समाचरेत् ।१६६.०१८ पुनर्दानं पृथक्पानमाज्येन पयसा निशि ॥१६६.०१८ दन्तच्छेदनमुष्णं च सप्त सक्तुषु वर्जयेत् ।१६६.०१९ स्नात्वा पुष्पं न गृह्णीयाद्देवायोग्यन्तदीरितं ॥१६६.०१९ अन्यगोत्रोप्यसम्बद्धः(२) प्रेतस्याग्निन्ददाति यः ।१६६.०२० पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥१६६.०२० उदकञ्च तृणं भस्म द्वारं पन्थास्तथैव च ।१६६.०२१ एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥१६६.०२१ पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः
Now, the one hundred sixty-sixth chapter: On the duties of the classes and related topics.
अथाष्टषष्ट्यधिकशततमोऽध्यायः महापातकादिकथनम् पुष्कर उवाच दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ।१६८.००१ कामतोऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥१६८.००१ टिप्पणी १ जातवेदोमुखैः सौरैरिति ख.. २ रिपुं हरेदिति ङ.. , ञ.. च मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।१६८.००२ महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥१६८.००२ गणान्नं गणिकान्नं च(१) वार्धुषेर्गायनस्य च ।१६८.००३ अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥१६८.००३ रजकस्य नृशंसस्य वन्दिनः कितवस्य च ।१६८.००४ मिथ्यातपस्विनश्चैव चौरदण्डिकयोस्तथा(२) ॥१६८.००४ कुण्डगोलस्त्रीजितानां वेदविक्रयिणस्तथा ।१६८.००५ शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥१६८.००५ कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ।१६८.००६ मिथ्याप्रव्रजितस्यान्नम्पुंश्चल्यास्तैलिकस्य च ॥१६८.००६ आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ।१६८.००७ तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥१६८.००७ ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ।१६८.००८ एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥१६८.००८ मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ।१६८.००९ चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥१६८.००९ अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ।१६८.०१० शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥१६८.०१० तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ।१६८.०११ अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस्तथा भवेत् ॥१६८.०११ मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ।१६८.०१२ टिप्पणी १ गणानां गणिकानाञ्चेति ङ.. , ञ.. च २ चौरदाम्भिकयोस्तथेति ञ.. अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥१६८.०१२ सर्वत्र शूद्रे पादः स्याद्द्वित्रयं वैश्यभूपयोः(१) ।१६८.०१३ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥१६८.०१३ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।१६८.०१४ शुष्काणि जग्ध्वा मांसानि(२) प्रेतान्नं करकाणि च ॥१६८.०१४ क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ।१६८.०१५ गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥१६८.०१५ मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ।१६८.०१६ आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥१६८.०१६ लशुनं गुञ्जनं चाद्यात्प्राजापत्यादिना शुचिः(३) ।१६८.०१७ भुक्त्वा चान्द्रायणं कुर्यान्मांसञ्चात्मकृतन्तथा ॥१६८.०१७ पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ।१६८.०१८ वृथाकृशरसंयावपायसापूपशष्कुलीः ॥१६८.०१८ अनुपाकृटमांसानि देवान्नानि हवींषि च ।१६८.०१९ गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां ॥१६८.०१९ सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ।१६८.०२० शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च ॥१६८.०२० भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश्च वर्जिताः ।१६८.०२१ पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश्च भक्षयेत् ॥१६८.०२१ यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ।१६८.०२२ वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥१६८.०२२ टिप्पणी १ द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च २ शुष्काणि दग्धमंसानि इति ङ.. ३ प्राजापत्याद्द्विजः शुचिरिति ख.. अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ।१६८.०२३ चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥१६८.०२३ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।१६८.०२४ महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥१६८.०२४ अनृते च समुत्कर्षो राजगामि च पैशुनं ।१६८.०२५ गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(१) ॥१६८.०२५ ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ।१६८.०२६ गर्हितान्नाज्ययोर्जग्धिः(२) सुरापानसमानि षट् ॥१६८.०२६ निक्षेपस्यापहरणं नराश्वरजतस्य च ।१६८.०२७ भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥१६८.०२७ रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ।१६८.०२८ सख्युः पुत्रस्य च(३) स्त्रीषु गुरुतल्पसमं विदुः ॥१६८.०२८ गोबधोऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ।१६८.०२९ गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥१६८.०२९ परिवित्तितानुजेन परिवेदनमेव च ।१६८.०३० तयोर्दानञ्च कन्यायास्तयोरेव च याजनं ॥१६८.०३० कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ।१६८.०३१ तडागारामदाराणामपत्यस्य च विक्रियः ॥१६८.०३१ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।१६८.०३२ भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥१६८.०३२ टिप्पणी १ समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च २ गर्हितानामन्नजग्धिरिति ङ.. ३ सख्युः सुतस्य चेति ङ.. सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ।१६८.०३३ हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥१६८.०३३ इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ।१६८.०३४ योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥१६८.०३४ आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ।१६८.०३५ अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥१६८.०३५ असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ।१६८.०३६ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥१६८.०३६ स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ।१६८.०३७ ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥१६८.०३७ जैंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ।१६८.०३८ श्वखरोष्ट्रमृगेन्द्राणामजाव्योश्चैव मारणं(१) ॥१६८.०३८ सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।१६८.०३९ निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥१६८.०३९ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।१६८.०४० कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥१६८.०४० फलैधःकुसुमस्तेयमधैर्यञ्च मलावहम्
अथ सप्तत्यधिकशततमोऽध्यायः प्रायश्चित्तानि पुष्कर उवाच महापापानुयुक्तानां(१) प्रायश्चित्तानि(२) वच्मिते ।१७०.००१ संवत्सरेण पतति पतितेन सहाचरन् ॥१७०.००१ याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ।१७०.००२ यो येन पतितेनैषां संसर्गं याति मानवः ॥१७०.००२ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।१७०.००३ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥१७०.००३ निन्दितेऽहनि सायाह्णे ज्ञात्यृत्विग्गुरुसन्निधौ ।१७०.००४ दासो घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा(३) ॥१७०.००४ अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ।१७०.००५ निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥१७०.००५ ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ।१७०.००६ टिप्पणी १ महापापोपपन्नानामिति ङ.. २ प्रायश्चित्तं वदामि त इति झ.. ३ प्रेतवत्सदेति ख.. , ग.. , घ.. , ङ.. च प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥१७०.००६ तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ।१७०.००७ एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥१७०.००७ वस्त्रान्नपानन्देयन्तु वसेयुश्च गृहान्तिके ।१७०.००८ तेषां द्विजानां सावित्री नानूद्येत(१) यथाविधि ॥१७०.००८ तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ।१७०.००९ विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥१७०.००९ जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ।१७०.०१० मासङ्गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१७०.०१० ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।१७०.०११ अभिचारमहीनानान्त्रिभिः कृच्छैर्व्यपोहति(२) ॥१७०.०११ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।१७०.०१२ संवत्सं यताहारस्तत्पापमपसेधति ॥१७०.०१२ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।१७०.०१३ नरोष्ट्राश्वैर्वराहैश्च(३) प्राणायामेन शुद्ध्यति ॥१७०.०१३ स्नातकव्रतलोपे च कर्मत्यागे ह्यभोजनं ।१७०.०१४ हुङ्कारं(४) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥१७०.०१४ स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ।१७०.०१५ अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥१७०.०१५ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं ।१७०.०१६ टिप्पणी १ न युज्येतेति ख.. २ कृच्छ्रैर्विशुद्ध्यति इति ग.. , घ.. , ङ.. च ३ नरोष्टविड्वराहैश्चेति ङ.. ४ क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च । हङ्कारञ्चेति ख.. चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥१७०.०१६ सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ।१७०.०१७ चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥१७०.०१७ प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ।१७०.०१८ गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥१७०.०१८ कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ।१७०.०१९ मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥१७०.०१९ द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ।१७०.०२० कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(१) ॥१७०.०२० शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ।१७०.०२१ यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥१७०.०२१ द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ।१७०.०२२ भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥१७०.०२२ भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ।१७०.०२३ अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥१७०.०२३ व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ।१७०.०२४ चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥१७०.०२४ द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ।१७०.०२५ चण्डालेन तु संस्पृष्टो(२) यस्त्वपः पिवते द्विजः ॥१७०.०२५ त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ।१७०.०२६ उच्छिष्टेन यदि(३) स्पृष्टः शुना शूद्रेण वा द्विजः ॥१७०.०२६ टिप्पणी १ स्पर्शसङ्कल्पभूषिता इति झ.. २ संसृष्ट इति क.. ३ यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ।१७०.०२७ वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥१७०.०२७ अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।१७०.०२८ पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥१७०.०२८ अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ।१७०.०२९ शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश्च दर्शयेत् ॥१७०.०२९ म्लेच्छैर्गतानां चौरैर्वा कान्तारे वा प्रवासिनां ।१७०.०३० भक्ष्याभक्ष्यविशुद्ध्यर्थं(१) तेषां वक्ष्यामि निष्कृतिं ॥१७०.०३० पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ।१७०.०३१ कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥१७०.०३१ पादोनान्ते क्षत्रियश्च अर्धान्ते वैश्य एव च ।१७०.०३२ पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥१७०.०३२ उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।१७०.०३३ तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥१७०.०३३ रजस्वला तु नाश्नीयात्संस्पृष्टा हीनवर्णया ।१७०.०३४ यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥१७०.०३४ मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ।१७०.०३५ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥१७०.०३५ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।१७०.०३६ मोहाद्भुक्त्वा(२) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥१७०.०३६ ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा ।१७०.०३७ टिप्पणी १ भक्ष्यभोज्यविशुद्ध्यर्थमिति झ.. २ लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च अनाशकनिवृताश्च तेषां शुद्धिः प्रचक्ष्यते ॥१७०.०३७ चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।१७०.०३८ जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥१७०.०३८ उपानहममेध्यं च यस्य संस्पृशते मुखं ।१७०.०३९ मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥१७०.०३९ वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ।१७०.०४० तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर्विशुद्ध्यति ॥१७०.०४० अन्त्यजातिश्वपाकेन(१) संस्पृष्टा स्त्री रजस्वला ।१७०.०४१ चतुर्थेऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(२) ॥१७०.०४१ चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ।१७०.०४२ शवं तत्स्पर्शिनं स्पृष्ट्वा(३) सद्यः स्नानेन शुद्ध्यति ॥१७०.०४२ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।१७०.०४३ रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः ॥१७०.०४३ वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ।१७०.०४४ स्नानात्क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणेऽन्नभुक् ॥१७०.०४४ अपाङ्क्तेयाशी गव्याशी शुना दष्टस्तथा शुचिः ।१७०.०४५ कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥१७०.०४५ होमाद्यैश्चानुतापेन पूयन्ते पापिनोऽखिलाः(४)
अथ द्विसप्तत्यधिकशततमोऽध्यायः सर्वपापप्रायश्चित्तानि पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा ।१७२.००१ प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१७२.००१ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(१) नमः ।१७२.००२ नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥१७२.००२ चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।१७२.००३ विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥१७२.००३ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।१७२.००४ यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥१७२.००४ करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ।१७२.००५ तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥१७२.००५ ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।१७२.००६ तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥१७२.००६ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।१७२.००७ हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥१७२.००७ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।१७२.००८ हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥१७२.००८ नृसिंहानन्त गोविन्द भूतभवन केशव ।१७२.००९ टिप्पणी १ विष्णवे विष्णवे इति ज.. , ञ.. च दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥१७२.००९ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।१७२.०१० अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१७२.०१० ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।१७२.०११ जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥१७२.०११ यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।१७२.०१२ कायेन मनसा वाचा कृतं पापमजानता ॥१७२.०१२ जानता च हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१३ नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१७२.०१३ शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।१७२.०१४ पापं प्रशमयाद्य त्वं(१) बाक्कृतं मम माधव ॥१७२.०१४ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ।१७२.०१५ कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१७२.०१५ यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ।१७२.०१६ तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१७२.०१६ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।१७२.०१७ तस्मिन्(२) प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७२.०१७ यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।१७२.०१८ सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं(३) ॥१७२.०१८ पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(४) ।१७२.०१९ टिप्पणी १ प्रशमात्यर्थमिति ख.. , घ.. , ज.. च २ अस्मिन्निति घ.. ३ सर्वं गमयत्वघमिति झ.. ४ यः पठेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ.. शारीरैर्मानसैर्वाग्जैः कृतैः पपैः प्रमुच्यते ॥१७२.०१९ सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।१७२.०२० तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥१७२.०२० प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।१७२.०२१ प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥१७२.०२१ ततः कार्याणि(१) संसिद्ध्यै तानि वै भुक्तिमुक्तये
Now, the one hundred seventy-second chapter: Expiations for all sins.
अथाष्टसप्तत्यधिकशततमोऽध्यायः तृतीयाव्रतानि अग्निरुवाच तृतीयाव्रतान्याख्यास्ये भुक्तिमुक्तिप्रदानि ते ।१७८.००१ ललितायां तृतीयायां मूलगौरीव्रतं शृणु ॥१७८.००१ तृतीयायां चैत्रशुक्ले ऊढा गौरी हरेण हि ।१७८.००२ तिलस्नातोऽर्चयेच्छम्भुं गौर्या हैमफलादिभिः ॥१७८.००२ नमोऽस्तु पाटलायैव पादौ देव्याः शिवस्य च ।१७८.००३ शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्यजेत् ॥१७८.००३ त्रिपुरघ्नाय रुद्राय भान्यै जङ्घयोर्द्वयोः ।१७८.००४ शिवं रुद्रायेश्वराय(१) विजयायैव जानुनी ॥१७८.००४ ईशायेति कटिं देव्याः(२) शङ्करायेति शङ्करम् ।१७८.००५ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ शिवं रुद्राय विश्वायेति ख.. , छ.. च । शिवं भद्रायेश्वरायेति ज.. , झ.. , ञ.. , ट.. च २ ईशाय कट्यां देव्याश्च इति ङ.. । ईशायेति तातो देव्या इति घ.. - - - -- - - -- - - -- - - -- - - - कुक्षिद्वयञ्च कोटव्यै शूलिनं शूलपाणये ॥१७८.००५ मङ्गलायै नमस्तुभ्यमुदरञ्चाभिपूजयेत् ।१७८.००६ सर्वात्मने नमो रुद्रमैशान्यै च कुचद्वयं ॥१७८.००६ शिवं देवात्मने तद्वथ्रादिन्यै(१) कण्ठमर्चयेत् ।१७८.००७ महादेवाय च शिवमनन्तायै करद्वयं ॥१७८.००७ त्रिलोचनायेति हरं बाहुं कालानलप्रिये(२) ।१७८.००८ सौभाग्यायै महेशाय भूषणानि प्रपूजयेत् ॥१७८.००८ अशोकमधुवासिन्यै ईश्वरायेति चौष्ठकौ ।१७८.००९ चतुर्मुखप्रिया चास्यं हराय स्थाणवे नमः ॥१७८.००९ नमोऽर्धनारीशहरममिताङ्ग्यै च नासिकां ।१७८.०१० नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥१७८.०१० सर्वाय पुरहन्तारं(३) वासन्त्यै चैव तालुकं(४) ।१७८.०११ नमः श्रीकण्ठनाथायै शितिकण्ठाय केशकं ॥१७८.०११ भीमोग्राय सुपूपिण्यै शिरः सर्वात्मने नमः ।१७८.०१२ मल्लिकाशोककमलकुन्दन्तगरमालती(५) ॥१७८.०१२ कदम्बकरवीरञ्च(६) वाणमम्लानकुङ्कुमं ।१७८.०१३ सिन्धुवारञ्च मासेषु सर्वेषु क्रमशः स्मृतं ॥१७८.०१३ उमामहेश्वरौ पूज्य सौभाग्याष्टकमग्रतः(७) ।१७८.०१४ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ शिवं वेदात्मने तद्वद्रूपिण्यै इति घ.. , ज.. , ञ.. च २ हरञ्चान्तकालानलप्रिये इति ख.. , घ.. , ज.. , ञ.. च ३ पुरहर्तारमिति घ.. ४ वासन्यै च तथालकमिति छ.. , ट.. च ५ मल्लिकाशोककमलच्छदं तगरमालती इति ख.. , घ.. , ज.. च ६ कुन्दञ्च करवीरञ्चेति ख.. , घ.. , ज.. च ७ मल्लिकाशोकेत्यादिः, सौभाग्याष्टकमग्रतः इत्यन्तः छ.. पुस्तके नास्ति - - - -- - - -- - - -- - - -- - - - स्थापयेद्(१) घृतनिष्पावकुसुम्भक्षीरजीवकं ॥१७८.०१४ तरुराजेक्षुलवणं(२) कुस्तुम्बुरुमथाष्टमं ।१७८.०१५ चैत्रे शृगोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥१७८.०१५ प्रातः स्नात्वा समभ्यर्च्य विप्रदाम्पत्यमर्चयेत्(३) ।१७८.०१६ तदष्टकं द्विजे दद्याल्ललिता प्रीयतां मम(४) ॥१७८.०१६ शृङ्गोदकं(५) गोमयं च मन्दारं बिल्वपत्रकं ।१७८.०१७ कुशोदकं दधि क्षीरं कार्त्तिके पृषदाज्यकम् ॥१७८.०१७ गोमूत्राज्यं कृष्णतिलं पञ्चगव्यं क्रमाशनं ।१७८.०१८ ललिता विजया भद्रा भवानी कुमुदा शिवा ॥१७८.०१८ वासुदेवी तथा गौरी मङ्गला कमला सती ।१७८.०१९ चैत्रादौ दानकाले च प्रीयतामिति वाचयेत् ॥१७८.०१९ फलमेकं पवित्राज्यं(६) व्रतान्ते शयानं ददेत् ।१७८.०२० उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥१७८.०२० गुरुञ्च मिथुनान्यर्च्य(७) वस्त्राद्यैर्भुक्तिमुक्तिभाक्(८) ।१७८.०२१ सौभाग्यारोग्यरूपायुः सौभाग्यशयनव्रतान् ॥१७८.०२१ नभस्ये वाथ वैशाखे कुर्यान्मार्गशिरस्यथ(९) ।१७८.०२२ - - - -- - - -- - - -- - - -- - - - टिप्पणी १ अर्पयेदिति ख.. , छ.. च २ तृणराजेक्षुलवणमिति ख.. , छ.. , ट.. च ३ द्विजदाम्पत्यमर्चयेदिति ख.. , घ.. , छ.. , ट.. च ४ ललिता प्रीयतामिति ट.. ५ पृष्ठोदकमिति ञ.. । कूपोदकमिति ज.. , झ.. च ६ परित्याज्यमिति क.. , ज.. , ठ.. च । परित्यज्येति ख.. , छ.. च । परिग्राह्यमिति ङ.. ७ गुरुं मिथुनमभर्च्येति ङ.. ८ वस्त्राद्यैः सर्वमाप्नुयादिति ख.. , घ.. , ङ.. , छ.. , झ.. , ञ.. , ट.. च ९ कुर्याद्वा मार्गशीर्षके इति ङ.. , ञ.. च - - - -- - - -- - - -- - - -- - - - शुक्लपक्षे तृतीयायां ललितायै नमो यजेत् ॥१७८.०२२ प्रतिपक्षं ततः प्रार्च्य व्रतान्ते(१) मित्युनानि च ।१७८.०२३ चतुर्विंशतिमभ्यर्च्य वस्त्राद्यैर्भुक्तिमुक्तिभाक् ॥१७८.०२३ उक्तो मार्गो द्वितीयोऽयं सौभाग्यव्रतमावदे ।१७८.०२४ फाल्गुणादितृतीयायां लवणं यस्तु वर्जयेत् ॥१७८.०२४ समाप्ते शयनन्दद्याद्गृहश्चोपस्करान्वितं ।१७८.०२५ सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति(२) ॥१७८.०२५ सौभाग्यार्थं तृतीयोक्ता गौरीलोकादिदायिनी ।१७८.०२६ माघे भाद्रे च वैशाखे तृतीयाव्रतकृत्तथा ॥१७८.०२६ दमनकतृतीयाकृत्चैत्रे दमनकैर्यजेत् ।१७८.०२७ आत्मतृतीया मार्गस्य प्रार्च्येच्छाभोजनादिना ॥१७८.०२७ गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ।१७८.०२८ वैष्णवी लक्ष्मीः प्रकृतिः शिवा नारायणी क्रमात्(३) ॥१७८.०२८ मार्गतृतीयामारभ्य सौभाग्यं स्वर्गमाप्नुयात्
अथाशीत्यधिकशततमोऽध्यायः पञ्चमीव्रतानि अग्निरुवाच पञ्चमीव्रतकं वक्ष्ये आरोग्यस्वर्गमोक्षदं(१) ।१८०.००१ नभोनभस्याश्विने च कार्त्तिके शुक्लपक्षके ॥१८०.००१ वासुकिस्तक्षकः पूज्यः कालीयो मणिभद्रकः ।१८०.००२ ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥१८०.००२ एते प्रयच्छन्त्यभयमायुर्विद्यायशः श्रियम्
Now, the one hundred eightieth chapter: The vows of the fifth lunar day.
; चतुर्दशीव्रतानि अग्निरुवाच व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्तिप्रदायकं(१) ।१९२.००१ कार्त्तिके तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥१९२.००१ वर्षभोगधनायुष्मान्(२) कुर्वन् शिवचतुर्दशीम् ।१९२.००२ मार्गशीर्षे सितेऽष्टाभ्यां तृतीयायां मुनिव्रतः ॥१९२.००२ टिप्पणी १ भुक्तिमुक्तिप्रदं शृणु इति ख.. , घ.. , ज.. , झ.. , ञ.. , ट.. च । भुक्तिमुक्तिसुखप्रदमिति ङ.. २ भोगबलायुष्मानिति ङ.. द्वादश्यां वा चतुर्दश्यां फलाहारो यजेत्सुरं(१) ।१९२.००३ त्यक्त्वा फलानि दद्यात्तु कुर्वन् फलचतुर्दशीं ॥१९२.००३ चतुर्दश्यां मथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।१९२.००४ अनश्नन् पूजयेच्छम्भुं स्वर्ग्युभयचतुर्दशीं ॥१९२.००४ कृष्णाष्टम्यान्तु नक्तेन तथा कृष्णचतुर्दशीं ।१९२.००५ इह भोगानवाप्नोति परत्र च शुभाङ्गतिं ॥१९२.००५ कार्तिके च चतुर्दश्यां कृष्णायां स्नानकृत्सुखी ।१९२.००६ आराधिते महेन्द्रे तु ध्वजाकारासु यष्टिषु(२) ॥१९२.००६ ततः शुक्लचतुर्दश्यामनन्तं पूजयेद्धरिं ।१९२.००७ कृत्वादर्भमयं चैव वारिधानी समन्वितं ॥१९२.००७ शालिप्रस्थस्य पिष्टस्य पूपनाम्नः कृतस्य च ।१९२.००८ अर्धं विप्राय दातव्यमर्धमात्मनि योजयेत्(३) ॥१९२.००८ कर्तव्यं सरितां चान्ते कथां कृत्वा(४) हरेरिति ।१९२.००९ अनन्तसंसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव ॥१९२.००९ अनन्तरूपे विनियोजयस्व अनन्तरूपाय नमो नमस्ते ।१९२.०१० अनेन पूजयित्वाथ सूत्रं बद्धा तु मन्त्रितं ॥१९२.०१० स्वके करे वा कण्ठे वा त्वनन्तव्रतकृत्सुखी
Now, the one hundred ninety-second chapter: The vows of the fourteenth lunar day.
अथ चतुर्नवत्यधिकशततमोऽध्यायः अशोकपूर्णिमादिव्रतं अग्निरुवाच अशोकपूर्णिमां वक्ष्ये भूधरं च भुवं यजेत् । फाल्गुन्यां सितपक्षायां वर्षं स्याद्भुक्तिमुक्तिभाक् ॥१ कार्त्तिक्यान्तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । शैवं पदमवाप्नोति वृषव्रतमिदं परं ॥२ पित्र्या यामावसी तस्यां पितॄणां दत्तमक्षयं । उपोष्याब्दं पितॄनिष्ट्वा निष्पापः स्वर्गमाप्नुयात् ॥३ पञ्चदश्यां च माघस्य पूज्याजं सर्वमाप्नुयात् । वक्ष्ये सावित्र्यमावास्याम्भुक्तिमुक्तिकरीं शुभां ॥४ पञ्चदश्यां व्रती ज्यैष्ठे वटमूले महासतीं । त्रिरात्रोपोषिता नारी सप्तधान्यैः प्रपूजयेत् ॥५ प्ररूढैः कण्ठसूत्रैश्च रजन्यां कुङ्कुमादिभिः । वटावलम्बनं कृत्वा नृत्यगीतैः प्रभातके ॥६ नमः सावित्र्यै सत्यवते नैवेद्यं चार्पयेद्द्विजे । वेश्म गत्वा द्विजान् भोज्य स्वयं भुक्त्वा विसर्जयेत् ॥७ सावित्री प्रीयतां देवी सौभाग्यादिकमाप्नुयात्
Now, the one hundred ninety-fourth chapter: The vow of the Aśoka full moon and others.
अथ पञ्चनवत्यधिकशततमोऽध्यायः वारव्रतानि अग्निरुवाच वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ।१९५.००१ करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥१९५.००१ श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ।१९५.००२ सङ्क्रान्तौ सूर्यवारो यः सोऽर्कस्य हृदयः शुभः ॥१९५.००२ कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ।१९५.००३ चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥१९५.००३ स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ।१९५.००४ विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००४ अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(१) ।१९५.००५ शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥१९५.००५ मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्तिनुत्
Now, the one hundred ninety-fifth chapter: The weekday vows.
अथ षण्णवत्यधिकशततमोऽध्यायः नक्षत्रव्रतानि अग्निरुवाच नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितोऽर्थदः ।०१ नक्षत्रपुरुषं चादौ चैत्रमासे हरिं यजेत् ॥०१ मूले पादौ यजेज्जङ्घे रोहिणीस्वर्चयेद्धरिं ।०२ जानुनी चाश्विनीयोगे आषाढासूरुसञ्ज्ञके ॥०२ मेढ्रं पूर्वोत्तरास्वेव कटिं वै कृत्तिकासु च ।०३ पार्श्वे भाद्रपदाभ्यान्तु कुक्षिं वै रेवतीषु च ॥०३ स्तनौ चैवानुराधासु धनिष्ठासु च पृष्ठकं ।०४ भुजौ पूज्यौ विशाखासु पुनर्वस्वङ्गुलीर्यजेत् ॥०४ अश्लेषासु नखान् पूज्य कण्ठं ज्येष्ठासु पूजयेत् ।०५ श्रोत्रे विष्णोश्च श्रवणे मुखं पुष्ये हरेर्यजेत् ॥०५ यजेत्स्वातिषु दन्ताग्रमास्यं वारुणतोऽर्चयेत् ।०६ मघासु नसां नयने मृगशीर्षे ललाटकं ॥०६ चित्रासु चार्द्रासु कचानब्दान्ते स्वर्णकं हरिं ।०७ गुडपूर्णे घटेऽभ्यर्च्य शय्यागोर्थादि दक्षिणा ॥०७ नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः ।०८ शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥०८ कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।०९ नामभिः केशवाद्यैस्तु अच्युताय नमोऽपि वा ॥०९ कार्त्तिके कृत्तिकाभेऽह्नि मासनक्षत्रगं हरिं ।१० शाम्भवायनीयव्रतकं करिष्ये भुक्तिमुक्तिदं ॥१० केशवादि महामूर्तिमच्युतं सर्वदायकं ।११ आवाहयाम्यहन्देवमायुरारोग्यवृद्धिदं ॥११ कार्त्तिकादौ सकासारमन्नंमासचतुष्टयं ।१२ फाल्गुनादौ च कुशरमाषाढादौ च पायसं ॥१२ देवाय ब्राह्मणेभ्यश्च नक्तन्नैवेद्यमाशयेत् ।१३ पञ्चगव्यजलेस्नातस्तस्यैव प्राशनाच्छुचिः ॥१३ अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।१४ विसर्जिते जगन्नाथे निर्माल्यन्भवति क्षणात् ॥१४ नमो नमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यं ।१५ ऐश्वर्यवित्तादि सदाक्षयं मेक्षयञ्च मा सन्ततिरभ्यपैतु ॥१५ यथाच्युतस्त्वम्परतः परस्तात्स ब्रह्मभूतः परतः परात्मन् ।१६ तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥१६ अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।१७ अक्षयं माममेयात्मन् कुरुष्व पुरुषोत्तम ॥१७ सप्त वर्षाणि सम्पूज्य भुक्तिमुक्तिमवापुनुयात् ।१८ अनन्तव्रतमाख्यास्ये नक्षत्रव्रतकेर्थदं॥१८ मार्गशीर्षे मृगशिरे गोमूत्राशो यजेद्धरिं ।१९ अनन्तं सर्वकामानामनन्तो भगवान् फलं ॥१९ ददात्यनन्तञ्च पुनस्तदेवान्यत्र जन्मनि ।२० अनन्तपुण्योपचयङ्करोत्येतन्महाव्रतं ॥२० यथाभिलषितप्राप्तिं करोत्यक्षयमेव च ।२१ पादादि पूज्य नक्ते तु भुञ्जीयात्तैलवर्जितं ॥२१ घृतेनानन्तमुद्दिश्य होमो मासचतुष्टयं ।२२ चैत्रादौ शालिना होमः पयसा श्रावणादिषु ॥२२ मान्धाताभूद्युवनाश्वादनन्तव्रतकात्सुतः
Now, the one hundred ninety-sixth chapter: The vows relating to the lunar mansions.
अग्निरुवाच दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।२००.००१ देवद्विजातिकगृहे दीपदोऽब्दं स सर्वभाक् ॥२००.००१ चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।२००.००२ दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२००.००२ दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।२००.००३ सौभाग्यं दीपदः प्राप्य स्वर्गलोके महीयते ॥२००.००३ विदर्भराजदुहिता ललिता दीपदात्मभाक् ।२००.००४ चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥२००.००४ ददौ दीपसहस्रं सा विष्णोरायतने सती ।२००.००५ पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥२००.००५ ललितोवाच सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।२००.००६ तेन चायतनं विष्णोः कारितं देविकातटे ॥२००.००६ कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।२००.००७ वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥२००.००७ निर्वाणवान् प्रदीप्तोऽभूद्वर्त्या मूषिकया तदा ।२००.००८ मृता राजात्मजा जाता राजपत्नी शताधिका ॥२००.००८ असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।२००.००९ विष्ण्वायतनदीपस्य तस्येदं भुज्यते फलं ॥२००.००९ जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ।२००.०१० एकदश्यां दीपदो वै विमाने दिवि मोदते ॥२००.०१० जायते दीपहर्ता तु मूको वा जड एव च ।२००.०११ अन्धे तमसि दुष्पारे नरके पतते किल ॥२००.०११ विक्रोशमानांश्च नरान् यमकिङ्कराहतान् ।२००.०१२ विलापैरलमत्रापि किं वो विलपिते फलं ॥२००.०१२ यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।२००.०१३ जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥२००.०१३ तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।२००.०१४ स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥२००.
Now, the two hundredth chapter: The vow of giving lamps.
नरकस्वरूपम् अग्निरुवाच पुष्पाद्यैः पूजनाद्विष्णोर्न याति नरकान्दवे ।२०३.००१ आयुषोऽन्ते नरः प्राणैरनिच्छन्नपि मुच्यते ॥२०३.००१ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः ।२०३.००२ निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥२०३.००२ अन्यच्छरीरमादत्ते यातनीयं स्वकर्मभिः ।२०३.००३ भुङ्क्तेऽथ पापकृत्दुःखं सुखं धर्माय सङ्गतः ॥२०३.००३ नीयते यमदूतैस्तु यमं प्राणिभयङ्करैः ।२०३.००४ कुपथे दक्षिणद्वारि धर्मिकः पश्चिमादिभिः ॥२०३.००४ यमाज्ञप्तैः किङ्करैस्तु पात्यते नरकेषु च(२) ।२०३.००५ टिप्पणी १ आसनं मूर्तिषोढाङ्गमिति ख.. २ पात्यते नरकेष्वपि इति ख.. । पात्यते नरके सदा इति ङ.. ।पीड्यते नरकेऽधुनेति घ.. , छ.. च स्वर्गे तु नीयते धर्माद्वसिष्ठाद्युक्तिसंश्रयात् ॥२०३.००५ गोघाती तु महावीच्यां वर्षलक्षन्तु पीड्यते ।२०३.००६ आमकुम्भे महादीप्ते ब्रह्महा भूमिहारकः ॥२०३.००६ महाप्रलयकं यावद्रौरवे पीड्यते शनैः ।२०३.००७ स्त्रीबालवृद्धहन्ता तु यावदिन्द्राश्चतुर्दश ॥२०३.००७ महारौरवके रौद्रे गृहक्षेत्रादिदीपकः ।२०३.००८ दह्यते कल्पमेकं स चौरस्तामिस्रके पतेत् ॥२०३.००८ नैककल्पन्तु शूलाद्यैर्भिद्यते यमकिङ्करैः ।२०३.००९ महातामिस्रके सर्पजलौकाद्यैश्च पीड्यते ॥२०३.००९ यावद्भूमिर्मातृहाद्या असिपत्रवनेऽसिभिः(१) ।२०३.०१० नैककल्पन्तु नरके करम्भवालुकासु च ॥२०३.०१० येन दग्धो जनस्तत्र दह्यते वालुकादिभिः ।२०३.०११ काकोले कृमिविष्ठाशी एकाकी मिष्टभोजनः ॥२०३.०११ कुट्टले मूत्ररक्ताशी पञ्चयज्ञक्रियोज्झितः ।२०३.०१२ सुदुर्गन्धे रक्तभोजी भवेच्चाभक्ष्यभक्ष्यकः ॥२०३.०१२ तैलपाके तु तिलवत्पीड्यते परपीडकः ।२०३.०१३ तैलपाके तु पच्येत शरणागतघातकः ॥२०३.०१३ निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे ।२०३.०१४ नाम्ना वज्रकवाटेन महापाते तदानृती ॥२०३.०१४ महाज्वाले पापबुद्धिः क्रकचेऽगम्यगामिनः ।२०३.०१५ सङ्करी गुडपाके च(२) प्रतुदेत्परमर्मनुत् ॥२०३.०१५ टिप्पणी १ असिपत्रवनेऽग्निभिरिति ङ.. २ गुरुपाके चेति ख.. , ज.. च क्षारह्रदे(१) प्राणिहन्ता क्षुरधारे च भूमिहृत् ।२०३.०१६ अम्बरीषे गोस्वर्णहृद्द्रुमच्छिद्वज्रशस्त्रके ॥२०३.०१६ मधुहर्ता परीतापे कालसूत्रे परार्थहृत् ।२०३.०१७ कश्मलेऽत्यन्तमांसाशी उग्रगन्धे ह्यपिण्डदः ॥२०३.०१७ दुर्धरे तु काचभक्षी वन्दिग्राहरताश्च ये ।२०३.०१८ मञ्जुषे नरके लोहेऽप्रतिष्ठे श्रुतिनिन्दकः ॥२०३.०१८ पूतिवक्त्रे कूटसाक्षी परिलुण्ठे धनापहा ।२०३.०१९ बालस्त्रीवृद्धघाती च कराले ब्राह्मणार्तिकृत् ॥२०३.०१९ विलेपे मद्यपो विप्रो महाताम्रे तु मेदिनः(२)
Now, the two hundred third chapter: The nature of hell.
पृथ्वीदानानि अग्निरुवाच पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।२१३.००१ शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥२१३.००१ जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।२१३.००२ उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥२१३.००२ तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।२१३.००३ उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥२१३.००३ कन्यसा च त्रिभागेन(१) त्रिहान्या कूर्मपङ्कजे ।२१३.००४ पलानान्तु सहस्रेण कल्पयेत्कल्पपादपं ॥२१३.००४ मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ।२१३.००५ टिप्पणी १ स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत्सुधीः ॥२१३.००५ एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।२१३.००६ विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥२१३.००६ ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।२१३.००७ धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥२१३.००७ विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ।२१३.००८ अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥२१३.००८ भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्य प्ररोहिणीम् ।२१३.००९ ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥२१३.००९ कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४)
Now, the two hundred thirteenth chapter: Gifts of land.
गायत्रीनिर्वाणं अग्निरुवाच एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत्स्मरेत् ।०१ गायञ्च्छिष्यान् यतस्त्रायेत्भार्यां प्राणांस्तथैव च(१) ॥०१ ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ।०२ प्रकाशनात्सा सवितुर्वाग्रूपत्वात्सरस्वती ॥०२ तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ।०३ भा दीप्ताविति रूपं हि भ्रस्जः पाकेऽथ तत्स्मृतं ॥०३ ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ।०४ भर्गः स्याद्भ्राजत इति बहुलं छन्द ईरितं ॥०४ वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ।०५ स्वर्गापवर्गकामैर्वा वरणीयं सदैव हि ॥०५ वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ।०६ नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं ॥०६ अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ।०७ तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं ॥०७ शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ।०८ केचित्सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः ॥०८ टिप्पणी १ कायान् प्राणांस्तथैव चेति ञ.. अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।०९ तत्पदं परमं विष्णोर्देवस्य सवितुः स्मृतं ॥०९ महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ।१० पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्च पाचयेत् ॥१० अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।११ आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः ॥११ दधातेर्वा धीमहीति मनसा धारयेमहि ।१२ नोऽस्माकं यश्च भर्गश्च सर्वेषां प्राणिनां धियः ॥१२ चोदयात्प्रेरयेद्बुद्धीर्भोक्तॄणां सर्वकर्मसु ।१३ दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान् ॥१३ ईश्वरप्रेरितो गच्छेत्स्वर्गं वाश्वभ्रमेव वा ।१४ ईशावास्यमिदं सर्वं महदादिजगद्धरिः ॥१४ स्वर्गाद्यैः क्रीडते देवो योऽहं स पुरुषः प्रभुः ।१५ आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥१५ जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ।१६ ध्यानेन पुरुषोऽयञ्च द्रष्टव्यः सूर्यमण्डले ॥१६ तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत्परमं पदं ।१७ देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं ॥१७ देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ।१८ योऽसावादित्यपुरुषः सोऽसावहमनन्त ओं ॥१८ ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा
Now, the two hundred sixteenth chapter: The dissolution into Gāyatrī.
गायत्रीनिर्वाणं अग्निरुवाच लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।२१७.००१ निर्वाणं(१) परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२) ॥२१७.००१ नमः कनकलिङ्गाय(३) वेदलिङ्गाय वै नमः ।२१७.००२ नमः परमलिङ्गाय(४) व्योमलिङ्गाय वै नमः ॥२१७.००२ नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।२१७.००३ नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥२१७.००३ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।२१७.००४ नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥२१७.००४ नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।२१७.००५ नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥२१७.००५ नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।२१७.००६ नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥२१७.००६ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।२१७.००७ टिप्पणी १ निर्मलमिति ख.. २ वशिष्तोप्येव शङ्करादिति ख.. , घ.. च ३ कमललिङ्गायेति ट.. ४ नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१) वै नमः(२) ॥२१७.००७ नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।२१७.००८ नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥२१७.००८ नमो वायूर्ध्वलिङ्गाय(३) श्रुतिलिङ्गाय वै नमः ।२१७.००९ नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४) वै नमः ॥२१७.००९ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।२१७.०१० नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५) ॥२१७.०१० दिश नः परमं योगमपत्यं मत्समन्तथा ।२१७.०११ ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६) ॥२१७.०११ अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।२१७.०१२ अग्निरुवाच वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥२१७.०१२ वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत
Now, the two hundred seventeenth chapter: The dissolution into Gāyatrī.
अग्निरुवाच पुष्करेण च रामाय राजधर्म्मं हि पृच्छते। यथादौ कथितं तद्वद्वशिष्ठ कथयामि ते ।। २१८.
Agni said: When Puṣkara asked Rāma about the king's duties, as told at the beginning, so I will tell you, O Vasiṣṭha.
पुष्कर उवाच राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः । राजा भवेत्१ शत्रुहन्ता प्रजापालः सुदण्डवान् ।। २१८.
Puṣkara said: I will declare the king's duties, for from the king's duties come all things. The king should be a destroyer of enemies, a protector of his subjects, and skilled in punishment.
मन्त्रिणश्चाखिलान्मज्ञान्महिषीं धर्म्मलक्षणां । संवत्सरं नृपः काले ससन्भारोऽभिषेचनं ।। २१८.
He should appoint all ministers who are wise, and a queen possessing the marks of virtue. The king should, at the proper time, with due ceremony, perform the consecration together with the burden of rule for a year.
कुर्य्यान्मृते नृते नात्र कालस्य नियमः स्मृतः । तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ ।। २१८.
One should perform the bathing for the deceased or the living; there is no prescribed time for this. The bathing is done with sesame seeds and mustard seeds, with the family priest present for a year.
घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः । अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके ।। २१८.
After proclaiming victory for the king, the king, seated on the auspicious throne, should announce safety, release those in fortresses, and free the keepers of the realm.
पुरोधसाऽभिषेकात् प्राक् कार्य्यैन्द्री शान्तिरेव च । उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्
Before the consecration by the priest, the Indra-rite and the pacification rite should be performed; on the day of consecration, while fasting, one should offer oblations to the fire on the altar, reciting the prescribed mantras.
वैष्णवानैन्द्रमन्त्रांस्तु सावित्रान् वैश्वदैवतान् । सौम्यान् स्वस्त्ययनं शर्म्मआयुष्याभयदाम्मनून् ।। २१८.
He should recite Vaiṣṇava, Indra, Sāvitrī, and universal deities' mantras, as well as auspicious, welfare-bestowing, life-giving, and fear-removing mantras.
Agni said: I shall describe the Manvantaras. The first was Svāyambhuva Manu.
Puṣkara said: I shall explain the purification after death and after childbirth.
Puṣkara said: I shall explain the procedure for śrāddha, which grants enjoyment and liberation.
Agni said: One should meditate on the self, which dwells in the heart like a lamp, O Lord.
Now, the one hundred sixty-eighth chapter: On the description of great sins.
Now, the one hundred seventieth chapter: On expiations.
Now, the one hundred seventy-eighth chapter: The vows of the third lunar day.