अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि। गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत्
Here also, the lump should be placed on Brahma-stone and others as prescribed; perform everything as before, using the bindings of cow and others.
एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः। कुण्डमध्ये महेशानं मेखलासु महेश्वरं
Having thus performed the placements, proceed to the vicinity of the fire-pit; in the center of the pit, place Maheśāna, and in the girdles, Maheśvara.
क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यासेत्। घटं स्थण्डिलवह्नीशैः नीडीसन्धानकन्तत
Place the power of action in the other girdles and at the root of the sound; arrange the pot with the fire-lord on the altar, at the junction of the nest.
पद्मतन्तुसमां शक्तिमुद्घातेनां समुद्यतां । विशन्ती सूर्यमार्गेण निः सरन्तीं समुद्गतां
Contemplate the power, equal to the thread of a lotus, rising with force, entering by the path of the sun, and emerging, flowing outward.
पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत्। एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परं
Again, contemplate it entering by the path of emptiness; thus, everywhere, the forms should be joined with one another.
सम्पूज्य घारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात्। तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः
After worshipping the supporting power and offering it in the fire-pit in order, one should offer the forms of the lords of the principles and their portions with ghee and other substances.
सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः । शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत्
Having worshipped and offered oblations, in the presence of the assembled particles, one should perform the full or half oblation a hundred or a thousand times, together with the complete offering.
तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान् । तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि
After offering to the forms of the lords of the principles and their portions, as well as the supporting ones, in the presence, the form-bearers should also make offerings.
ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः। सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः
Then, having satisfied the power with Brahmins and limbs, according to the materials and time, sprinkle water from the pot at the root of the kusa grass.
लिङ्गमुलं च संस्पृश्य विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्सर्वं होमसङ्श्याजपादिकम्
Touch the base of the liṅga for purification, along with Viṣṇu and others; perform everything as before, including the counting of oblations and recitations.
एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम्
Thus, having purified Brahma and others for the purification of Viṣṇu and others, perform everything as before, including the counting of oblations and recitations.
कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत्। यथा यथा च सन्धानं तदिदानीमिहोच्यते
By joining the tip of the kusa grass with the tip of the liṅga, touch it; now, the method of joining is explained here.
ओँ हाँ हँ ओँ ओँ ओँ एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः । ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः। एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयं । पञ्चमूर्च्यांत्मकेप्येवं सन्धानं हृदयादिभिः
Oṃ hā ha o o o e o bhū bhū, homage to the form of vāhya; oṃ hā vā ā oṃ ā ṣā o bhū bhū vā, homage to the form of fire; thus, one should perform the ritual with the forms beginning with the yajamāna; in the case of the fivefold forms as well, the connection should be made with the heart and so on.
मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वात्रयात्मके । शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः
Either with the root or with one's own seed syllables, or with the threefold essence to be known; the stone lump on the bulls should be full or unbroken, and well bound.
भागाभागविशुद्ध्यर्थं होमं। कुर्य्याच्छतादिकं । न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं
For the sake of purity in the portions and non-portions, one should perform the homa a hundred times or more; to remove defects of deficiency or excess, one should perform a hundred and eight with the mantra of Śiva.
हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत्। एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो
Having offered, one should then present the act performed into the ear of Śiva, saying: 'This act, endowed with these elements, has been performed by me according to my capacity, O Lord.'
ओं नमो भगवते रुद्राय रुद्र नमोस्तुते । विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यतां
Om, obeisance to the Blessed Rudra; O Rudra, salutations to you. Whether this is complete or incomplete according to the rite, may it be accepted, filled by your own power.
ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायां। अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे
Om hrīṃ, O Śāṅkarī, fill it—svāhā: thus, in the piṇḍikā. Then, upon the liṅga, let the knower place the kriyā-designated seat-form.
आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि। निबध्य सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं
Let him place the Śakti, who is the form of the support, upon the brahmaśilā stone, binding it for seven nights, or five nights, or three nights.
करात्रमथो वापि यद्वा सद्योधिवासनं । विनाधिवासनं यागः कृतोऽपि न फलप्रदः
Or for one night, or even immediately as a consecration; for without consecration, even if the worship is performed, it does not yield fruit.
स्वमन्त्रैः प्रत्याहं देयमाहुतीनां शतं शतं। शिवकुम्भादिपूजाञ्च दिग्बलिञ्च निवेदयेत्
Each day, with one's own mantras, one should offer a hundred oblations, and also perform the worship of Śiva's pot and other vessels, as well as the offerings to the directions.
गुर्वादिसहितो वासो रात्रौ नियमपूर्वकम्। अदिवासः स वसतेवधेर्भावः समीरितः
Together with the guru and others, one should reside at night with proper observance; this is called 'adivāsa'—dwelling as if at the base of a tree, as has been declared.
गयायात्राविधिः अग्निरुवाच गायत्र्यैव महानद्यां स्नातः(१) सन्ध्यां समाचरेत् ।११६.००१ गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥११६.००१ मध्याह्ने चोद्यति(२) स्नात्वा गीतवाद्यैर्ह्युपास्य च ।११६.००२ सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥११६.००२ अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ।११६.००३ निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(३) ॥११६.००३ टिप्पणी १ प्रात इति क.. २ मध्याह्ने सरसीति ग.. ३ मुच्यते भयादिति छ.. , झ.. च बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः(१) ।११६.००४ स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थेऽथ पिण्डदः ॥११६.००४ भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ।११६.००५ कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥११६.००५ कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(२) ।११६.००६ गदालोले वानरके गोप्रचारे च पिण्डदः(३) ॥११६.००६ नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ।११६.००७ श्राद्धपिण्डप्रदाता(४) स्यात्क्रौञ्चपदे च पिण्डदः(५) ॥११६.००७ तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ।११६.००८ ऋणमोक्षे पापमोक्षे भस्मकुण्डेऽथ भस्मना ॥११६.००८ स्नानकृन्मुच्यते पापान्नमेद्देवं जनार्दनम् ।११६.००९ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥११६.००९ परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।११६.०१० गयायां पितृरूपेण स्वयमेव जनार्दनः ॥११६.०१० तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ।११६.०११ मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(६) ॥११६.०११ मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ।११६.०१२ टिप्पणी १ नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च २ मासपदेऽन्नद इति ख.. , घ.. च ३ कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्यन्तः पाठो ग.. पुस्तके नास्ति ४ श्राद्धे पिण्डप्रदतेति ख.. ५ भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्यन्तः पाठः छ.. पुस्तके नास्ति ६ नमेद्भूतेश्वरं नर इति घ.. (१)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥११६.०१२ पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ।११६.०१३ प्रभासेशन्नमेत्प्रेतशिलायां पिण्डदो भवेत् ॥११६.०१३ दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।११६.०१४ प्रेतादिरूपा मुक्ताः(२) स्युः पिण्डैर्दत्तैर्मयाखिलाः ॥११६.०१४ स्थानत्रये प्रेतशिला गयाशिरसि पावनी ।११६.०१५ प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत्कुलम् ॥११६.०१५ वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०१६ गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः ॥११६.०१६ गदाधराग्रतो मुण्डपृष्ठे देव्याश्च सन्निधौ ।११६.०१७ मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥११६.०१७ पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ।११६.०१८ ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत्कुलम् ॥११६.०१८ सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ।११६.०१९ सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(३) ॥११६.०१९ हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०२० माधवं पूजयित्वा च देवो वैमानिको(४) भवेत् ॥११६.०२० महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ।११६.०२१ पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगोऽत्र शास्त्रधीः ॥११६.०२१ टिप्पणी १ सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ.. पुस्तकेऽधिकोऽस्ति २ प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च ३ कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति ४ देवैर्वैमानिक इति छ.. द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ।११६.०२२ रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् ॥११६.०२२ प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ।११६.०२३ सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥११६.०२३ सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ।११६.०२४ अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(१) सर्वभाक् ॥११६.०२४ नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ।११६.०२५ ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥११६.०२५ सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ।११६.०२६ सर्वकामानवाप्नोति ब्रह्मलोकं नयेत्पितॄन् ॥११६.०२६ देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ।११६.०२७ ऋणत्रयविनिर्मुक्तस्तारयेत्सकलं कुलम् ॥११६.०२७ देवरूपा शिला पुण्या तस्माद्देवमयी शिला ।११६.०२८ गयायां नहि तत्स्थानं यत्र तीर्थं न विद्यते ॥११६.०२८ यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ।११६.०२९ फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥११६.०२९ मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ।११६.०३० हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥११६.०३० तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ।११६.०३१ रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(२) ॥११६.०३१ पिण्डदो धेनुकारण्ये पदे धेनोर्नमेच्च गाम् ।११६.०३२ टिप्पणी १ पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च २ नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति घ.. सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥११६.०३२ सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ।११६.०३३ त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥११६.०३३ गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ।११६.०३४ अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥११६.०३४ स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ।११६.०३५ गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥११६.०३५ धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ।११६.०३६ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥११६.०३६ नित्यशुद्धं बुद्धियुक्तं(१) सत्यं ब्रह्म नमाम्यहम् ।११६.०३७ आनन्दमद्वयं देवं देवदानववन्दितम् ॥११६.०३७ देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ।११६.०३८ कलिकल्मषकालार्तिदमनं(२) वनमालिनम् ॥११६.०३८ पालिताखिललोकेशं(३) कुलोद्धरणमानसम् ।११६.०३९ व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥११६.०३९ स्थितं स्थिरतरं(४) सारं वन्दे घोराघमर्दनम्(५) ।११६.०४० आगतोऽस्मि गयां देव पितृकार्ये गदाधरः ॥११६.०४० त्वं मे साक्षी भवाद्येह अनृणोऽहमृणत्रयात् ।११६.०४१ टिप्पणी १ नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च २ कालार्तिनाशनमिति घ.. । कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च ३ पालिताखिलदेवेशमिति घ.. ४ स्थिततरमिति ग.. , घ.. , ङ.. च ५ वन्देहमरिमर्दनमिति ङ.. । वन्दे संसारमर्दनमिति ज.. साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥११६.०४१ मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।११६.०४२ गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥११६.०४२ पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम्
श्राद्धकल्पः thumb|पार्वणश्राद्ध. [https://www.youtube.com/watch?v=Vmk_20EaOS8 पार्वण श्राद्ध विधि] अग्निरुवाच कात्यायनो मुनीनाह यथा श्राद्धं तथा वदे ।११७.००१ गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥११७.००१ काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।११७.००२ सम्याद्य च पदर्क्षे च(१) पूर्वेद्युश्च निमन्त्रयेत् ॥११७.००२ यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।११७.००३ अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(२) ॥११७.००३ टिप्पणी १ सम्पाद्य परमर्क्षे चेति छ.. २ आचारसंस्कृतानिति ग.. , ज.. च वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।११७.००४ स्नाताञ्छुचींस्तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥११७.००४ उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।११७.००५ एवं मातामहादेश्च शाकैरपि च कारयेत् ॥११७.००५ तदह्नि ब्रह्मचारी स्यादकोपोऽत्वरितो मृदुः(१) ।११७.००६ सत्योऽप्रमत्तोऽनध्वन्यो अस्वाध्यायश्च(२) वाग्यतः ॥११७.००६ सर्वांश्च पङ्क्तिमूर्धन्यान् पृच्छेत्प्रश्ने तथासने ।११७.००७ दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥११७.००७ विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।११७.००८ विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥११७.००८ विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।११७.००९ पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥११७.००९ तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।११७.०१० सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥११७.०१० यवोऽसीति यवान् दत्वा पित्रे सर्वत्र वै तिलान् ।११७.०११ तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।११७.०११ प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः स्वधा । इति श्रीश्च तेति ददेत्पुष्पं पात्रे हैमेऽथ राजते ॥११७.०११ औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।११७.०१२ देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥११७.०१२ टिप्पणी १ अत्वरितोऽत्यृजुरिति ङ.. २ सत्ये प्रपन्नोऽनध्वन्यो ह्यस्वाध्यायश्चेति ख.. , घ.. च एकैकस्य एकैकेन सपवित्रकरेषु च ।११७.०१३ या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपार्थिवीर्याः हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः सुहवा भवन्तु ११७.०१३ अवधैवं पितामहदेः संस्रवात्प्रथमे चरेत्(१) ।११७.०१४ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥११७.०१४ अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।११७.०१५ घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥११७.०१५ कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निकोऽनले ।११७.०१६ अनग्निकः पितृहस्ते(२) सपवित्रे तु मन्त्रतः ॥११७.०१६ अग्नये कव्यवाहनाय स्वाहेति(३) प्रथमाहुतिः ।११७.०१७ सोमाय पितृमतेऽथ यमायाङ्गिरसे परे ॥११७.०१७ हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।११७.०१८ पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥११७.०१८ अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।११७.०१९ जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥११७.०१९ टिप्पणी १ एकैकस्येत्यादिः, प्रथमे चरेदित्यन्तः पाठो झ.. पुस्तके नास्ति २ अनग्निको जले चैवेति ङ.. ३ स्वधेति क.. देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।११७.०२० नमः स्वधायै स्वाहयै नित्यमेव नमो नमः(१) ॥११७.०२० तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात्सकृत्सकृत् ।११७.०२१ गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥११७.०२१ तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।११७.०२२ शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥११७.०२२ उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।११७.०२३ दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥११७.०२३ आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।११७.०२४ अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः(२) ॥११७.०२४ अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।११७.०२५ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥११७.०२५ श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ।११७.०२६ अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ॥११७.०२६ याचितारश्च नः सन्तु मा च याचिस्म कञ्चन ।११७.०२७ स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्(३) ॥११७.०२७ स्वधां वाचयिष्ये पृच्छेदनुज्ञातश्च वाच्यतां ।११७.०२८ पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥११७.०२८ स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।११७.०२९ अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥११७.०२९ टिप्पणी १ स्वाहायै नित्यमेव भवन्त्विति इति ख.. , छ.. च २ प्रार्थयेत्तत इति घ.. , ज.. , झ.. च ३ अघोराः पितर इत्यादिः, आस्तीर्य सपवित्रकानित्यन्तः पाठः ख.. , छ.. पुस्तकद्वये नास्ति यथाशक्ति प्रदद्याच्च दैवे पैत्रेऽथ वाचयेत् ।११७.०३० विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥११७.०३० आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।११७.०३१ गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥११७.०३१ एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।११७.०३२ एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥११७.०३२ नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।११७.०३३ तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥११७.०३३ उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।११७.०३४ अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ॥११७.०३४ सपिण्डीकरणं वक्ष्ये अब्दान्ते मध्यतोऽपि वा ।११७.०३५ पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥११७.०३५ सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।११७.०३६ गन्धोदकेन युक्तानि(१) पूरयित्वाभिषिञ्चति ॥११७.०३६ प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।११७.०३७ पूर्ववत्पिण्डदानादि प्रेतानां पितृता भवेत् ॥११७.०३७ अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।११७.०३८ जपेत्पितृमन्त्रवर्जं पूर्वाह्णे तत्प्रदक्षिणं ॥११७.०३८ उपचारा ऋजुकुशास्तिलार्थैश्च यवैरिह(२) ।११७.०३९ तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥११७.०३९ टिप्पणी १ गन्धोदकेन सिक्तानि इति ज.. २ अथाभ्युदयिकमित्यादिः, यवैरिह इत्यन्तः पाठो झ.. पुस्तके नास्ति दध्यक्षतवदराद्याः(१) पिण्डा नान्दीमुखान् पितॄन् ।११७.०४० आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥११७.०४० नान्दीमुखाश्च पितरो वाचयिष्येऽथ पृच्छति ।११७.०४१ नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥११७.०४१ नान्दीमुखाश्च पितरस्तत्पिता प्रपितामहः ।११७.०४२ मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥११७.०४२ स्वधाकारन्न युञ्जीत युग्मान् विप्रांश्च भोजयेत् ।११७.०४३ तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैरोषधिभिस्तथा ॥११७.०४३ मासन्तृप्तिस्तथारण्यैः(२) कन्दमूलफलादिभिः ।११७.०४४ मत्स्यैर्मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥११७.०४४ चतुरो रौरवेणाथ(३) पञ्च षट्छागलेन तु(४) ।११७.०४५ कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥११७.०४५ मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।११७.०४६ संवत्सरन्तु गव्येन पयसा पायसेन वा ॥११७.०४६ वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।११७.०४७ खड्गमांसं कालशाकं लोहितच्छागलो(५) मधु ॥११७.०४७ महाशल्काश्च वर्षासु मघाश्राद्धमथाक्षयं(६) ।११७.०४८ मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥११७.०४८ तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य(७) पाठकः ।११७.०४९ त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥११७.०४९ टिप्पणी १ दध्यक्षतवदर्याद्या इति ग.. , छ.. च २ तथा वन्यैरिति ख.. , ङ.. च ३ वत्सरं रौरवेणाथेति घ.. ४ पञ्चकं छागस्तेन तु इति ङ.. ५ लोहितच्छागक इति ग.. , घ.. , ङ.. च ६ मघाश्राद्धमिहाक्षयमिति झ.. ७ जलद्रोणस्येति झ.. कम्यानां कल्पमाख्यास्ये(१) प्रतिपत्सु धनं बहु ।११७.०५० स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥११७.०५० पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि(२) ।११७.०५१ कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥११७.०५१ नवम्याञ्च एकशफा(३) दशम्याङ्गोगणो भवेत् ।११७.०५२ एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥११७.०५२ ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः(४) ।११७.०५३ मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं(५) ॥११७.०५३ सप्त व्याधा दशारण्ये(६) मृगाः कालञ्जरे गिरौ ।११७.०५४ चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥११७.०५४ तेऽपि जाताः(७) कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।११७.०५५ प्रस्थिता दूरमध्वानं यूयन्तेभ्योऽवसीदत ॥११७.०५५ श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।११७.०५६ श्राद्धं कुर्याच्च पुत्रादिः(८) पितुर्जीवति तत्पितुः ॥११७.०५६ तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।११७.०५७ पितुः पितामस्हस्याथ परस्य प्रपितामात्(९) ॥११७.०५७ टिप्पणी १ कालमाख्यास्ये इति झ.. च २ श्रेष्ठभाग्यपि इति ख.. , ग.. , ङ.. , छ.. च । ज्येष्ठभागपि इति घ.. ३ नवम्यां वै शफपतिरिति ज.. ४ चतुर्दश्याञ्च शास्त्रत इति ख.. , घ.. च ५ मृतानां श्राद्धं सर्वाप्तिरमावास्या समीरिता इति क.. ६ दशार्णेषु इति ख.. , ग.. , ङ.. , छ.. च ७ तेऽभिजाता इति ख.. , घ.. च ८ कुर्यात्सुपुत्रोऽपि इति छ.. ९ तत्पितुरित्यादिः, प्रपितामहादित्यन्तः पाठो झ.. पुस्तके नास्ति एवं मात्रादिकस्यापि तथा मातामहादिके ।११७.०५८ श्राद्धकल्पं पठेद्यस्तु स लभेत्श्राद्धकृत्फलं(१) ॥११७.०५८ तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।११७.०५९ अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥११७.०५९ तृतीया चैव माघस्य तथा भाद्रपदस्य च ।११७.०६० फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥११७.०६० आषाढस्यापि दशमी माघमासस्य सप्तमी ।११७.०६१ श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥११७.०६१ कर्तिकी फाल्गुनी तद्वज्ज्यैष्ठे पञ्चदशी सिता ।११७.०६२ स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥११७.०६२ गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।११७.०६३ श्रीपर्वतः प्रभासश्च शालग्रामो वराणसी(२) ॥११७.०६३ गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु
भारतवर्षं अग्निरुवाच उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणं ।११८.००१ वर्षं तद्भारतं नाम नवसाहस्रविस्तृतं ॥११८.००१ कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ।११८.००२ टिप्पणी १ यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च २ वाराणसी इति ख.. , ङ.. , छ.. , ज.. च महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(१) ॥११८.००२ विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः ।११८.००३ इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥११८.००३ नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ।११८.००४ अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥११८.००४ योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ।११८.००५ नव भेदा भारतस्य(२) मध्यभेदेऽथ पूर्वतः ॥११८.००५ किराता यवनाश्चापि ब्राह्मणाद्याश्च मध्यतः ।११८.००६ वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥११८.००६ विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ।११८.००७ गोदावरीभीमरथीकृष्णवेणादिकास्तथा ॥११८.००७ मलयात्कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ।११८.००८ कुमाराद्याः शुक्तिमतो(३) हिमाद्रेश्चन्द्रभागका ॥११८.००८ पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः
Agni said:
भुवनकोषः अग्निरुवाच विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ।१२०.००१ उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥१२०.००१ अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।१२०.००२ महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥१२०.००२ कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ।१२०.००३ भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥१२०.००३ पातालानामधश्चास्ते शेषो विष्णुश्च तामसः ।१२०.००४ गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥१२०.००४ भुवोऽधो नरका नैके न पतेत्तत्र वैष्णवः ।१२०.००५ रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥१२०.००५ भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ।१२०.००६ रवेर्लक्षेण चन्द्रश्च लक्षान्नाक्षत्रमिन्दुतः ॥१२०.००६ द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ।१२०.००७ द्विलक्षेण कुजः शुक्राद्भौमाद्द्विलक्षतो गुरुः ॥१२०.००७ गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ।१२०.००८ लक्षाद्ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥१२०.००८ ध्रुवात्कोट्या महर्लोको यत्र ते कल्पवासिनः ।१२०.००९ जनो द्विकोटितस्तस्माद्यत्रासन् सनकादयः ॥१२०.००९ जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।१२०.०१० षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥१२०.०१० अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।१२०.०११ पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥१२०.०११ स्वर्गलोको ध्रुवान्तस्तु नियुतानि चतुर्दश ।१२०.०१२ एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥१२०.०१२ वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।१२०.०१३ वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥१२०.०१३ दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।१२०.०१४ महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥१२०.०१४ अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते ।१२०.०१५ हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥१२०.०१५ असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।१२०.०१६ दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिति ॥१२०.०१६ प्रधाने च स्थितो व्यापी चेतनात्मात्मवेदनः ।१२०.०१७ प्रधानञ्च पुमांश्चैव सर्वभूतात्मभृतया ॥१२०.०१७ विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।१२०.०१८ तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥१२०.०१८ क्षोभकारणभूतश्च सर्गकाले महामुने ।१२०.०१९ यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥१२०.०१९ जगच्छक्तिस्तथा विष्णोः प्रधानप्रतिपादिकां ।१२०.०२० विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥१२०.०२० स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ।१२०.०२१ योजनानां सहस्राणि भास्करस्य रथो नव ॥१२०.०२१ ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।१२०.०२२ सार्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥१२०.०२२ योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।१२०.०२३ त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥१२०.०२३ संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।१२०.०२४ चत्वारिंशत्सहस्राणि द्वितीयाक्षो विवस्वतः ॥१२०.०२४ पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।१२०.०२५ अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥१२०.०२५ ह्रस्वोऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ।१२०.०२६ हयाश्च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥१२०.०२६ उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।१२०.०२७ यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥१२०.०२७ स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे ।१२०.०२८ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥१२०.०२८ एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।१२०.०२९ निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥१२०.०२९ ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी ।१२०.०३० दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥१२०.०३० स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।१२०.०३१ स रथोऽधिष्ठिता देवैरादित्यैर्ऋषिभिर्वरैः ॥१२०.०३१ गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।१२०.०३२ हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥१२०.०३२ ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।१२०.०३३ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ॥१२०.०३३ वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।१२०.०३४ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥१२०.०३४ त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरं ।१२०.०३५ एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥१२०.०३५ वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।१२०.०३६ अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥१२०.०३६ शुक्रस्यापि रथोऽष्टाश्वो भौमस्यापि रथस्तथा ।१२०.०३७ बृहस्पते रथोऽष्टाश्वः शनेरष्टाश्वको रथः ॥१२०.०३७ स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।१२०.०३८ यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥१२०.०३८ पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।१२०.०३९ ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥१२०.०३९ यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(१) ।१२०.०४० न विज्ञानमृते किञ्चिज्ज्ञानं विष्णुः परम्पदं ॥१२०.०४० तत्कुर्याद्येन विष्णुः स्यात्सत्यं ज्ञानमनन्तकं ।१२०.०४१ पठेद्भुवनकोषं हि यः सोऽवाप्तसुखात्मभाक् ॥१२०.०४१ ज्योतिःशास्त्रादिविध्याश्च शुभाशुभाधिपो हरिः(२)
कालगणनं अग्निरुवाच कालः समागणो वक्ष्ये गणितं कालबुद्धये ।१२२.००१ कालः समागणोऽर्कघ्नो(१) मासैश्चैत्रादिभिर्युतः ॥१२२.००१ द्विघ्नो द्विस्ट्ःः सवेदः स्यात्पञ्चाङ्गष्टयुतो गुणः(२) ।१२२.००२ त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश्च सः ॥१२२.००२ अष्टरन्ध्राग्निहीनः(३) स्यादधः सैकरसाष्टकैः ।१२२.००३ मध्यो हीनः षष्टिहतो(४) लब्धयुक्तस्तथोपरि ॥१२२.००३ न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ।१२२.००४ सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥१२२.००४ अधः स्वरामसंयुक्तो रसार्काष्टफलैर्युतः ।१२२.००५ अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥१२२.००५ टिप्पणी १ समागणोर्काब्द इति ख.. , छ.. च २ पञ्चदशयुतो गण इति ज.. ३ अष्टचन्द्राग्निहीन इति ज.. ४ षष्टिहत इति ङ.. गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत्पुनः ।१२२.००६ मध्ये रुद्रगुणः कार्यो ह्यधः सैको नवाग्निभिः(१) ॥१२२.००६ लब्धहीनो(२) भवेन्मध्यो द्वाविंशतिविवर्जितः ।१२२.००७ षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् ॥१२२.००७ सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ।१२२.००८ मासि मासि क्षिपेद्वारन्द्वात्रिंशद्घटिकास्तिथौ ॥१२२.००८ द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्यृणे ।१२२.००९ वारस्थाने तिथिन्दद्यात्सप्तभिर्भार्गवमाहरेत् ॥१२२.००९ शेषवाराश्च सूर्याद्या घटिकासु च पातयेत् ।१२२.०१० पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश ॥१२२.०१० ऋणं धनं धनमृणं क्रमाज्ज्ञेयं चतुर्दशे ।१२२.०११ प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥१२२.०११ पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।१२२.०१२ चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥१२२.०१२ पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ।१२२.०१३ षष्ठाष्टमे त्वखण्डाः स्युश्चतुर्विंशतिरेव च ॥१२२.०१३ सप्तमे पञ्चविंशः स्यात्खण्डशः पिण्डिकाद्भवेत्(३) ।१२२.०१४ कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥१२२.०१४ तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् ।१२२.०१५ टिप्पणी १ सैकेन सप्तकैरिति ख.. , ग.. च २ ऋतुहीन इति ङ.. ३ खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च मकरादौ दीयते च रसवेदत्रयः क्रमात् ।१२२.०१५ मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(१) ।१२२.०१६ खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥१२२.०१६ कर्कटे प्रातिलोम्यं स्यादृणमेतत्तुलादिके ।१२२.०१७ चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥१२२.०१७ हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ।१२२.०१८ षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् ॥१२२.०१८ द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ।१२२.०१९ तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता ॥१२२.०१९ रविकर्मविपरीता तिथिनाडीसमायुता ।१२२.०२० ऋणे शुद्धे तु नाड्यः स्युर्ऋणं शुध्येत नो यदा ॥१२२.०२० सषष्टिकं प्रदेयन्तत्षष्ट्याधिक्ये च तत्त्यजेत्(२) ।१२२.०२१ नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥१२२.०२१ तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ।१२२.०२२ तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं ॥१२२.०२२ रविचन्द्रौ समौ कृत्वा योगो भवति निश्चलः ।१२२.०२३ एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(३) ॥१२२.०२३ तिथिश्च द्विगुणैकोना कृताङ्गैः करणन्निशि ।१२२.०२४ टिप्पणी १ मकरादौ इत्यादिः, वेदरसाः क्रमादित्यन्तः पाठः छ.. पुस्तके नास्ति २ सन्त्यजेदिति घ.. ३ सप्तभिन्ना गतिर्द्विधेति ख.. । सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥१२२.०२४ प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे
युद्धजयार्णवीयनानायोगाः वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ।१२३.००१ अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥१२३.००१ कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ।१२३.००२ {| class="wikitable" | स्वराः || अ || इ || उ || ए || ओ |- | तिथयः|| नन्दा || भद्रा || जया || रिक्ता || पूर्णा |- | ||
I shall explain, for the sake of victory and auspiciousness, the essence found in the Ocean of Victory in Battle: the vowels a, i, u, e, o correspond in order to the tithis beginning with Nandā.
अथ चतुर्विंशत्यधिकशततमोऽध्यायः युद्धजयार्णवीयज्योतिःशास्त्रसारः अग्निरुवाच ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे । विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरोऽब्रवीत्(१) ॥१ देव्युवाच देवैर्जिता दानवाश्च(२) येनोपायेन तद्वद । शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं ॥२ ईश्वर उवाच मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा । चराचरं ततो जातं यामाराध्याखिलार्थवित्(३) ॥३ मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं । ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥४ ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते । सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश्च रुद्रकः ॥५ ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः । अ+इ+उ+ए+ओ कलाश्च मूलं ब्रह्मेति कीर्तितं ॥६ काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते । विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते ॥७ आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता । ततो बिन्दुर्महादेवि एकारेण व्यवस्थितः ॥८ - - - - - - -- - -- - - - - - - - -- टिप्पणी १ ईश्वरोऽवदतिति घ.. २ दानवाद्या इति ज.. ३ यामाराध्याखिलात्मविदिति ख.. , ग.. च - - - - - - -- - -- - - - - - - - -- जातो नाद उकारस्तु नदते हृदि संस्थितः । अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः ॥९ अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः(१) । अकार ऐश्वरे भूमिर्निवृत्तिश्च कला स्मृता ॥१० गन्धो नबीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता । इकारश्च प्रतिष्ठाख्यो रसो पालश्च पिङ्गला ॥११ क्रूरा शक्तिरीबीजः स्याद्धरबीजोऽग्निरूपवान् । विद्या समाना गान्धारी शक्तिश्च दहनी स्मृता ॥१२ प्रशान्तिर्वार्युपस्पृशो यश्चोदानश्चला क्रिया । ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः ॥१३ {| class="wikitable" |- ! अ !! इ!! उ!! ए !! ओ |- | मंगल|| बुध || गुरु || शुक्र|| शनि |- | क|| च|| ट|| त || प |- | ख|| छ|| ठ|| थ || फ |- | ग|| ज || ड || द|| ब |- | घ || झ|| ढ || ध || भ |- | ङ|| ञ || ण|| न|| म |- |} पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः । शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः ॥१४ एतन्मूलमतः सर्वं ज्ञायते सचराचरं । विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः ॥१५ उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्र्यपि । ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः ॥१६ रत्ननाडीत्रयञ्चैव(२) स्थूलः सूक्ष्मः परोऽपरः । चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं ॥१७ प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं । अजरत्वं भवेद्देवि शिवत्वमुपगच्छति(३) ॥१८ - - - - -- - - -- - -- - -- - - -- - - टिप्पणी १ भोगमोक्षप्रदः शुभ इति ज.. २ बहुनाडीत्रयञ्चैवेति क.. , ङ.. च ३ शिवत्वमधिगच्छतीति ज.. - - - - - - -- - -- - - - - - - - -- अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्येऽथ देहके । मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् ॥१९ शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् । रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता ॥२० सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं । नाभिमूले(१) स्थितं कन्दं शिवरूपन्तु मण्डितं ॥२१ शक्तिव्यूहेन सोमोऽर्को हरिस्तत्र व्यवस्थितः । दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं ॥२२ कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं । तज्जीवं जीवलोकस्य(२) स्थावरस्य चरस्य च ॥२३ तस्मिन्नष्टे(३) मृतं मन्ये मन्त्रपीठेऽनिलात्मकम्
युद्धजयार्णवीयनानाचक्राणि ईश्वर उवाच ओं ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं फट्ओं हः ओं ग्रस ग्रस कृन्त कृन्त छक छक छक ह्रूं फट् नमः पठ्यमानो ह्ययं मन्त्रः क्रुद्धः संरक्तलोचनः ।१२५.००१ मारणे पातने वापि मोहनोच्चाटने भवेत् ॥१२५.००१ कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।१२५.००२ नानाविद्या पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥१२५.००२ नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।१२५.००३ उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥१२५.००३ करोति साधकः क्रुद्धो जपहोमपरायणः ।१२५.००४ हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे ॥१२५.००४ कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।१२५.००५ दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥१२५.००५ गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।१२५.००६ स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥१२५.००६ चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।१२५.००७ रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥१२५.००७ उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।१२५.००८ सौम्या च भीषणी देवी जया च विजया तथा ॥१२५.००८ अजिता चापराजिता महाकोटी च रौद्रया ।१२५.००९ शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥१२५.००९ विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः ।१२५.०१० संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥१२५.०१० पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।१२५.०११ भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥१२५.०११ स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।१२५.०१२ द्वात्रिंशन्मातरश्चक्रे अष्टाष्टक्रमशः स्थिताः ॥१२५.०१२ एक एव रविश्चन्द्र एकश्चैकैकशक्तिका ।१२५.०१३ भूतभेदेन तीर्थानि यथा तोयं महीतले ॥१२५.०१३ प्राण एको मण्डलैश्च भिद्यते भूतपञ्जरे ।१२५.०१४ वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥१२५.०१४ बिन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।१२५.०१५ ब्रह्माण्डेन कपालेन पिवेत परमामृतं ॥१२५.०१५ पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।१२५.०१६ अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥१२५.०१६ इ+ईखछठथफराः षो वर्गश्च द्वितीयकः ।१२५.०१७ उ+ऊगजडदबलाः सो वर्गश्च तृतीयकः ॥१२५.०१७ ए+ऐघझढधभवाः सो वर्गश्च चतुर्थकः ।१२५.०१८ ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥१२५.०१८ वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।१२५.०१९ बालः कुमारो युवा स्याद्वृद्धो मृत्युश्च नामतः ॥१२५.०१९ आत्मपीडा शोषकः स्यादुदासीनश्च कालकः ।१२५.०२० कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥१२५.०२० षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।१२५.०२१ मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥१२५.०२१ बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।१२५.०२२ जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥१२५.०२२ जीवोऽष्टमी धनिष्ठार्द्रा जीवोऽश्लेषा त्रयोदशी ।१२५.०२३ मृत्यौ शुक्रश्चतुर्थी स्यात्पूर्वभाद्रपदा श्रिये ॥१२५.०२३ पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।१२५.०२४ भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥१२५.०२४ कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।१२५.०२५ अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत् ॥१२५.०२५ मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।१२५.०२६ तिथियोगः पूर्वोत्तराग्निनैर्ऋत्यदक्षिणानिलचन्द्रमाः ॥१२५.०२६ ब्रह्माद्याः स्युर्दृष्टयः स्युः प्रतिपन्नवमीमुखाः ।१२५.०२७ राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥१२५.०२७ मेषाद्याश्चतुरः कुम्भा जयः पूर्णेऽन्यथा मृतिः ।१२५.०२८ सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥१२५.०२८ रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।१२५.०२९ कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥१२५.०२९ जयाय मनसे शुक्रो मन्दे भङ्गो रणे भवेत् ।१२५.०३० देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥१२५.०३० मुखे नेत्रे ललाटेऽथ शिरोहस्तोरुपादके ।१२५.०३१ पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षेऽर्थनाशनम् ॥१२५.०३१ मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।१२५.०३२ कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥१२५.०३२ इन्द्राच्च नैर्ऋतङ्गच्छेन्नैर्ऋतात्सोममेव च ।१२५.०३३ सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥१२५.०३३ रुद्राद्यमं यमाद्वायुं वायोश्चन्द्रं व्रजेत्पुनः ।१२५.०३४ भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्ठे जयो रणे ॥१२५.०३४ अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।१२५.०३५ आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥१२५.०३५ पूर्वे कृष्णाष्टमीं यावद्राहुदृष्टौ भयो भवेत् ।१२५.०३६ ऐशान्याग्नेयनैर्ऋत्यवायव्ये फणिराहुकः ॥१२५.०३६ मेषाद्या दिशि पूर्वादौ यत्रादित्योऽग्रतो मृतिः ।१२५.०३७ तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥१२५.०३७ चतुर्दशी तथा शुक्ले चतुर्थ्येकादशी तिथिः ।१२५.०३८ पञ्चदशी विष्टयः स्युः पूर्णिमाग्नेयवायवे ॥१२५.०३८ अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।१२५.०३९ गृध्रोलूकश्येनकाश्च पिङ्गलः कौशिकः क्रमात् ॥१२५.०३९ सारसश्च मयूरश्च गोरङ्कुः पक्षिणः स्मृताः ।१२५.०४० आदौ साध्यो हुतो मन्त्र उच्चाटे पल्लवः स्मृतः ॥१२५.०४० वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।१२५.०४१ शान्तो प्रीतो नमस्कारो वौषट्पुष्टौ वशादिषु ॥१२५.०४१ हुं मृत्यौ प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।१२५.०४२ वषट् सुते च दीप्त्यादौमन्त्राणां जातयश्च षट् ॥१२५.०४२ ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।१२५.०४३ महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥१२५.०४३ सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।१२५.०४४ बला चातिबला भीरुर्मुसली सहदेव्यपि ॥१२५.०४४ जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।१२५.०४५ चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥१२५.०४५ ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।१२५.०४६ मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥१२५.०४६ तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।१२५.०४७ नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥१२५.०४७ वल्मीकमृदामाहृत्य मातरौ योजयेत्ततः ।१२५.०४८ ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय वौषट् पूजयेत्कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥१२५.०४८ अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।१२५.०४९ श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥१२५.०४९ दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।१२५.०५० तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥१२५.०५० ओं नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं मारय सहसा नमोऽस्तु ते भगवति विद्ये स्वाहा अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः ।१२५.०५१ ओं वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश महाबल रक्तमुख तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय जम्भय खन खन वैते ह्रूं फट् अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥१२५.०५१ पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः
The procedure for the Gayā pilgrimage:
The rite of Śrāddha:
The entire wheel of time is established as a complete year.
At the end of the fourteenth day of the dark fortnight, the sign of the crow is indicated; on festival days, the quadruped sign is present.
When the sign of the crow appears at the end of the fourteenth day of the dark fortnight, and on festival days, the quadruped sign is present.
By the sight of Hanumat depicted on a cloth, enemies are destroyed.