नैर्ऋताय जलेशाय वायवे धनरक्षिणे। ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः
Homage to Nairṛta, to the lord of waters, to Vāyu, the protector of wealth; and to Īśāna at the eastern beginning, to Īśāna, to Brahman, I bow.
नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः। बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि
Oblation to Nairṛta, to Viṣṇu, svāhā; an external offering for crows and others; the mantras belonging to both offerings are dissolved with the gesture of dissolution in oneself.
ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्म्मन्त्रैर्यजेच्च गाम्। ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः
Īśvara said: I will explain the worship of Kapilā; with these mantras one should worship the cow: Om, Kapilā, Nandā, salutations; Om, Kapilā, Bhadrikā, salutations.
ओं कपिले सुशीले नमः कपिले सुरभिप्रभे। ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः
Om, Kapilā, Suśīlā, salutations; Kapilā, radiant as Surabhi; Om, Kapilā, Sumanasā, salutations; Om, bestower of enjoyment and liberation, salutations.
सौरभेयि जगन्मातर्देवानाममृतप्रदे। गृहाण वरदे ग्रासमीपसितार्थञ्च देहि मे
O Saurabhi, mother of the world, giver of immortality to the gods, accept, O grantor of boons, the offering; grant me the desired object sought.
वन्दिताऽसि वसिष्ठेन विश्वामित्रेण धीमता। कपिले हर मे पापं यन्तया दुष्कृतं कृतम्
You have been worshipped by Vasiṣṭha and by the wise Viśvāmitra; O Kapilā, remove my sin, restrain the evil deed committed.
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावो मे हृदये चापि गवां मध्ये वसाम्यहम्
Cows are always before me, cows are behind me as well; cows are also in my heart, and I dwell among the cows.
दत्तं गुह्णन्तु मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः। प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः
Let them conceal the offering I have given; having recited, I shall be pure and auspicious; after worshipping, one should bow to the books of knowledge and to the feet of the teacher.
यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम्। पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुषिपिका
One should worship Śiva at midday after bathing, with eight flowers; the worship of the seat, the image, and the limbs of Śiva is performed with eight flowers.
मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत्। ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा
At midday, in the dining hall, well-plastered, one should bring the cooked food; then, with the Mṛtyuñjaya mantra ending in vauṣaṭ, seven times.
जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिविन्दुभिः। सर्वपाकाग्रमुद्धत्य शिवाय विनिवेदयेत्
With recitations, using darbha grass and conch, one should sprinkle it with drops of water; having taken the best of all cooked food, one should offer it to Śiva.
अथार्द्धं चुल्लिकाहोमे विधानायोपकल्पयेत् । विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिम्
Then, half is prepared for the cullikā fire ritual; having purified the cullikā according to the procedure, one should make the offering to that fire.
हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना। वह्निवीजं समादाय कादिस्थानगतिक्रमात्
Having offered one with the navel fire, then with the exhaled air; taking the seed of fire, according to the order of the places beginning with 'ka'.
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत्। ओं हां अग्नये नमो वै हां सोमाय वै नमः
Meditating, 'You are Śiva's fire,' one should place it in the cullikā fire; Om hāṃ, salutations to Agni; hāṃ, salutations to Soma.
सूर्य्याय बृहस्पतये प्रजानां पतये नमः। सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च
Salutations to Sūrya, to Bṛhaspati, to the lord of creatures; and to all the gods, and to all the Viśvedevas as well.
हामग्नये स्विष्टिकृते पूर्वादावर्च्चयेदिमान्। स्वाहान्तामाहुतिं दत्वा क्षमयित्वा विसर्जयेत्
Hām to Agni, for the completion of the sacrifice, one should worship these in the east; having given the offering ending with svāhā, one should ask forgiveness and dismiss.
चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः। वामबाहावधर्म्माय काञ्जिकादिकभाण्डके
At the right side of the cullikā, one should worship for Dharma, salutations; at the left side, for Adharma, in the vessel of sour gruel and others.
रसपरिवर्त्तमानाय वरुणाय जलाग्नये । विघ्नराजो गृहद्वारे पेषण्यां सुभगो नमः
For the transformation of taste, to Varuṇa, to the fire of water; at the house door, to the lord of obstacles, in the grinding place, salutations to Subhaga.
ओं रौद्रिके नमो गिरिके नमश्चोलूखले यजेत्। बलप्रियायायुधाय नमस्ते मुषले यजेत्
Om, reverence to the fierce one, reverence to the mountain-dweller; one should worship at the mortar. To the lover of strength, to the weapon, reverence; one should worship at the pestle.
सम्मार्ज्जन्यां देवतोक्ते कामाय शयनीयके। मध्यस्तम्भे च स्कन्दाय दत्वा वास्तुबलिं ततः
On the broom, as prescribed by the gods, for desire; on the bedstead; and on the central pillar, for Skanda—having offered the house-offering, then—
भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके। आचार्य्यः साधकः पुत्र समयी मौनमास्थितः
He should eat from a golden vessel, or one adorned with lotus or other leaves; the teacher, the adept, and the son, having made an agreement, should remain in silence.
वटाश्वत्थार्क्कवाताविसर्ज्ज भल्लातकांस्त्यजेत्। आपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः
He should avoid banyan, sacred fig, arka, vata, and bhallataka trees; having taken pure water beforehand, he should sip it with the vital airs, accompanied by the sacred syllable Om.
स्वाहान्तेनाहुतीः पञ्च दत्वा दीप्योदरानलं। नागः कूर्म्मोऽथ कृकरो देवदत्तो धनञ्जयः
Having offered five oblations ending with 'svaha' into the blazing fire within, the nāga, the tortoise, the kṛkara, devadatta, and dhanañjaya—
एतेभ्य उपवायुभ्यः स्वाहापोशानवारिणा। भक्तादिकं निवेद्याय पिबेच्छेषोदकं नरः
To these upavāyus, with water sipped with 'svaha', having offered food and the like, a man should drink the remaining water.
अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत्। प्रणाय स्वाहाऽपानाय समानाय ततस्तथा
You are the immortal covering; then he should offer the prāṇāhutis: 'To prāṇa, svāhā; to apāna, to samāna, likewise—'
उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत्। अमृतापिधानमसीति शरीरेऽन्नादिवायवः
To udāna and to vyāna; having eaten, he should perform the cullaka rite; 'You are the immortal closure'—thus, the bodily airs related to food.
ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्चादिषु पूरणं ।७८.००१ नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ॥७८.००१ आषाढादिचतुर्दश्यामथ श्रावणभाद्रयोः ।७८.००२ सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु तत् ॥७८.००२ कुर्याद्वा कार्त्तिकीं यावत्तिथौ प्रतिपादिके ।७८.००३ वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनां ॥७८.००३ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजां ।७८.००४ सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमं ॥७८.००४ कलौ कार्पासजं चापि पट्टपद्मादिसूत्रकं ।७८.००५ प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः ॥७८.००५ सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु ।७८.००६ अष्टोत्तरशतान्यर्धं तदर्धं चोत्तमादिकं ॥७८.००६ एकाशीत्याथवा सूत्रैस्त्रिंशताप्पष्टयुक्तया ।७८.००७ पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकं ॥७८.००७ द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च ।७८.००८ लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ॥७८.००८ तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतं ।७८.००९ गङ्गावतारकं कार्यं सुजातेन सुधौतकं ॥७८.००९ ग्रन्थिं कुर्याच्च वामेन अघोरणाथ शोधयेत् ।७८.०१० रञ्जयेत्पुरुषेणैव रक्तचन्दनकुङ्कुमैः ॥७८.०१० कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः ।७८.०११ ग्रन्थयो दश कर्तव्या अथवा तन्तुसङ्ख्यया ॥७८.०११ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलं ।७८.०१२ प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥७८.०१२ जयान्या विजया षष्ठी अजिता च सदाशिवा ।७८.०१३ मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ॥७८.०१३ कार्या वा चन्द्रवह्न्यर्कपवित्रं शिववद्धृदि ।७८.०१४ एकैकं निजमूर्तौ वा पुप्तके गुरुके गणे ॥७८.०१४ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु ।७८.०१५ हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकं ॥७८.०१५ अष्टाविंशतितो युद्धं दशभिर्दशभिः क्रमात् ।७८.०१६ द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ॥७८.०१६ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितं ।७८.०१७ सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ॥७८.०१७ भूषयेत्पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरं ।७८.०१८ कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्पणं ॥७८.०१८ परिगृहीते भूभागे पवित्रे सूर्यमर्चयेत् ।७८.०१९ आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ॥७८.०१९ द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्चयेत् ।७८.०२० हां शान्तिकलाद्वाराय तथा विद्याकलात्मने ॥७८.०२० निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने ।७८.०२१ तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ॥७८.०२१ नन्दिने महाकालाय भृङ्गिणेऽथ गणाय च ।७८.०२२ वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात् ॥७८.०२२ नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे ।७८.०२३ इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ॥७८.०२३ प्रोक्षणाद्यं विधायाथ यज्ञसम्भारकृन्नरः ।७८.०२४ मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ॥७८.०२४ शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत् ।७८.०२५ शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ॥७८.०२५ अत्यर्थं भावयेद्देवं ज्ञानखद्गकरो गुरुः ।७८.०२६ नैर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः ॥७८.०२६ अर्घ्याम्बु पञ्चगव्यञ्च समस्तान्मखमण्डपे ।७८.०२७ चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः ॥७८.०२७ विक्षिप्य विकिरांस्तत्र कुशकूर्चोपसंहरेत् ।७८.०२८ तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ॥७८.०२८ नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत् ।७८.०२९ पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितं ॥७८.०२९ प्रणवेन वृषारूढं सिंहस्थां वर्धनीन्ततः ।७८.०३० कुम्भे साङ्गं शिवन्देवं वर्धन्यामर्चयेत् ॥७८.०३० दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान् ।७८.०३१ वर्धनीं सम्यगादाय घटपृष्टानुगामिनीं ॥७८.०३१ शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरं ।७८.०३२ अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ॥७८.०३२ समन्ताद्भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीं ।७८.०३३ पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः ॥७८.०३३ समग्रासनके कुम्भे यजेद्देवं स्थिरासने ।७८.०३४ वर्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ॥७८.०३४ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।७८.०३५ कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ॥७८.०३५ तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेदपि ।७८.०३६ गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ॥७८.०३६ स्नापयेत्पूर्ववत्प्रार्च्य कुण्डे च शिवपावकं ।७८.०३७ विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितं ॥७८.०३७ देवाग्र्यात्मविभेदेन दर्ष्या तं विभजेत्त्रिधा ।७८.०३८ दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥७८.०३८ शरेण चर्मणा देयं पूर्वतो दन्तधावनं ।७८.०३९ तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदं ॥७८.०३९ साद्योजातेन च हृदा चोत्तरे वामनीकृतं ।७८.०४० जलं वामेन शिरसा ईशे गन्धान्वितं जलं ॥७८.०४० पञ्चगव्यं पलाशादिपुटकं वै समन्ततः ।७८.०४१ ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ॥७८.०४१ अगुरुं निर्ऋताशायां वायव्यां च चतुःसमं ।७८.०४२ होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह ॥७८.०४२ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे ।७८.०४३ कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ॥७८.०४३ ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ।७८.०४४ आसनं पादुके पात्रं योगपट्टातपत्रकं ॥७८.०४४ ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ।७८.०४५ पूर्वस्याञ्चरुकं साज्यं दद्याद्गन्धादिकं नवे ॥७८.०४५ पूर्वित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा ।७८.०४६ संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ॥७८.०४६ कृष्णाजिनादिना.अच्छाद्य स्मरन् संवत्सरात्मकं ।७८.०४७ साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ॥७८.०४७ स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः ।७८.०४८ शोधयेच्च पवित्राणि वाराणामेकविंशतिं ॥७८.०४८ गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत् ।७८.०४९ पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः ॥७८.०४९ नन्द्यादिभ्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च ।७८.०५० शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके ॥७८.०५० वर्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत् ।७८.०५१ अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ॥७८.०५१ आमन्त्र्य च पवित्रंतत्विधायाञ्जलिमध्यगं ।७८.०५२ ओं समस्तविधिच्छिद्रपूरणे च विधिं प्रति ॥७८.०५२ प्रभवमन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां ।७८.०५३ तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ॥७८.०५३ सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ।७८.०५४ आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ॥७८.०५४ मन्त्रेशैर्लोकपालैश्च सहितः परिचारकैः ।७८.०५५ निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकं ॥७८.०५५ नियमञ्च करिष्यामि परमेश तवाज्ञया ।७८.०५६ इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतं ॥७८.०५६ शिवान्तं मूलमुच्चार्य तच्छिवाय निवेदयेत् ।७८.०५७ जपं स्तोत्रं प्रमाणञ्च कृत्वा शम्भुं क्षमापयेत् ॥७८.०५७ हुत्वा चरोस्तृतीयांशं तद्दद्दीत शिवाग्नये ।७८.०५८ दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ ॥७८.०५८ रुद्रेभ्यो क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयं ।७८.०५९ दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ॥७८.०५९ समाचम्य विधिच्छिद्रपूरकं होममाचरेत् ।७८.०६० पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ॥७८.०६० तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि ।७८.०६१ ओमग्नीषोमाभ्यां स्वाहाग्नये स्विष्टकृते तथा ॥७८.०६१ इत्याहुतिचतुष्कन्तु दत्वा कुर्यात्तु योजनां ।७८.०६२ वह्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ॥७८.०६२ नाडीसन्धानरूपेण विधिना योजयेत्ततः ।७८.०६३ वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ॥७८.०६३ अधिरोप्य पवित्राणि कलाभिर्वाथ मन्त्रयेत् ।७८.०६४ षडङ्गं ब्रह्ममूलैर्वा हृद्धर्मास्त्रञ्च योजयेत् ॥७८.०६४ विधाय सूत्रैः संवेष्ट्य पूजयित्वाङ्गसम्भवैः ।७८.०६५ रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ॥७८.०६५ पूजिते पुष्पधूपाद्यैर्दत्वा सिद्धान्तपुस्तके ।७८.०६६ गुरोः पादान्तिकं गत्वा भक्त्या दद्यात्पवित्रकं ॥७८.०६६ निर्गत्य वहिराचम्य गोमये मण्डलत्रये ।७८.०६७ पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद्यजेत् ॥७८.०६७ आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः ।७८.०६८ स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ॥७८.०६८ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् ।७८.०६९ केवलम्भस्मशय्यायां सोपवासः समाहितः ॥७८.०६९ इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः ॥ ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणं। नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं
आषाढादि चतुर्द्दश्यामथ श्रावणबाद्रयोः। सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत्
On the fourteenth day beginning from Āṣāḍha, and during Śrāvaṇa and Bhādra, whether on the bright or dark fortnight, it should be performed on the fourteenth and eighth days.
कुर्य्याद्वा कार्तिकीं यावत्तिथौ प्रतिपदादिके। वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम्
Or one may perform it on any lunar day up to Kārtikī, beginning from the first; for Agni, Brahmā, Ambikā, the serpent, Skanda, the sun, and the wielder of the trident.
दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम् । सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमम्
For Durgā, Indra, Govinda, Smara, Śambhu, and the nectar-drinker; gold, silver, copper, and other metals should be used in due order.
The Lord said: I shall explain the rite of installing the sacred thread, which completes the acts of worship and related rituals. This is always prescribed as a daily and also an occasional observance.