सर्वमेतत्समं कुर्य्यात् पिण्डिकादौ हरादिके। दैवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत्
All this should be done equally at the piṇḍikā and at the beginning with Hara and others; at the time of awakening the deity, one should recite the Sauparṇa hymn.
उत्तिष्ठेति समुत्थाप्य शय्याया मण्डिकां तथा। श्रीसूक्तेन चशय्यायां विष्णोस्तु शकलीकृतिः
Raising up with the words 'Rise!', and likewise lifting the covering of the bed; on the bed, with the Śrī Sūkta, one should make the division for Viṣṇu.
अतो देवेति सूक्तेन प्रनिमां पिण्डिकां तथा। श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः
With the 'Ato Deva' hymn, one should bow at the piṇḍikā; and on the bed, with the Śrī Sūkta, one should make the division for Viṣṇu.
मृगराजं वृषं नागं व्यजनं कलशं तथा। वैजयन्ततीं तथा भेरीं दीपमित्यष्टमङ्गलम्
The lion, the bull, the serpent, the fan, the water pot, the Vaijayanta flag, the drum, and the lamp—these are the eight auspicious items.
दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति। उखां पिधानकं पात्रमम्बिकां दर्व्विकां ददेत्
One should display the horse with the Aśva Sūkta at the feet, reciting 'Tripād'; one should provide the fire-pan, the lid, the vessel, Ambikā, and the ladle.
मुषलोलूखलं दद्याच्छिलां कम्मार्जनीं तथा। तथा बोजनभाण्डानि गृहोपकरणानि च
One should give the pestle, mortar, grinding stone, broom, as well as food vessels and household implements.
शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटम्। खणडखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः
At the head, a pot called 'sleep', adorned with cloth and jewels, should be filled with pieces of food; this is remembered as the rite of bathing.
भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते ।५९.००१ सर्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमं ॥५९.००१ ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीं(१) ।५९.००२ निःसार्यात्मैकतां कृत्वा स्वस्मिन्(२) सर्वगते विभौ ॥५९.००२ योजयेन्मरुतां पृथ्वीं वह्निबीजेन दीपयेत् ।५९.००३ संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ॥५९.००३ अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः(१) सह ।५९.००४ तन्मात्रपात्रकान् कृत्वा संहरेत्तत्क्रमाद्बुधः ॥५९.००४ आकाशं मनसाहत्य मनोहङ्करणे कुरु(२) ।५९.००५ अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ॥५९.००५ अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः(३) ।५९.००६ स तामव्याकृतिं मायामभ्यष्ट सिसृक्षया ॥५९.००६ सङ्कर्षणं सं शब्दात्मा स्पर्शाख्यमसृजत्प्रभुः ।५९.००७ क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत् ॥५९.००७ अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकं ।५९.००८ अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह ॥५९.००८ तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत्पञ्चभूतवत् ।५९.००९ तस्मिन् सङ्क्रामिते जीवे(४) शक्तिरात्मोपसंहृता ॥५९.००९ प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।५९.०१० जीवोव्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ॥५९.०१० प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी(५) ।५९.०११ अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ॥५९.०११ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः ।५९.०१२ शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृता ॥५९.०१२ ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।५९.०१३ त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ॥५९.०१३ पादौ पायुःस्तथा पाणी वागुपस्थश्च पञ्चमः ।५९.०१४ कर्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु ॥५९.०१४ आकाशवायुतेजांसि सलिलं पृथिवी तथा ।५९.०१५ स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ॥५९.०१५ एतेषां वाचका मन्त्रा न्यासायोच्यन्त उत्तमाः ।५९.०१६ जीवभूतं मकारन्तु देवस्य(१) व्यापकं न्यसेत् ॥५९.०१६ प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत् ।५९.०१७ हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद्बुधः ॥५९.०१७ फकारमपि तत्रैव अहङ्कारमयं न्यसेत् ।५९.०१८ मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवं ॥५९.०१८ शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत् ।५९.०१९ स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ॥५९.०१९ दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्(२) ।५९.०२० थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ॥५९.०२० तकारं गन्धतन्मात्रं जङ्घयोर्विनिवेशयेत् ।५९.०२१ णकारं श्रोत्रयोर्न्यस्य ढकारं विन्यसेत्त्वचि ॥५९.०२१ डकारं नेत्रयुग्मे तु रसनायां ठकारकं ।५९.०२२ टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ॥५९.०२२ झकारं करयोर्न्यस्य पाणितत्त्वं विचक्षणः ।५९.०२३ जकारं पदयोर्न्यस्य छं पायौ चमुपस्थके ॥५९.०२३ विन्यसेत्पृथिवीतत्त्वं ङकारं पादयुग्मके ।५९.०२४ वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ॥५९.०२४ खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत् ।५९.०२५ ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ॥५९.०२५ हृत्पुण्डरीके विन्यस्य यकारं सूर्यदैवतं ।५९.०२६ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥५९.०२६ कलाषोडशसंयुक्तं मकारं तत्र विन्यसेत् ।५९.०२७ तन्मध्ये चिन्तयेन्मन्त्री विन्दुं वह्नेस्तु मण्डलं ॥५९.०२७ हकारं(१) विन्यसेत्तत्र प्रणवेन सुरोत्तमः ।५९.०२८ ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ॥५९.०२८ ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः ।५९.०२९ ओं वं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः(२) ॥५९.०२९ स्थाने तु प्रथमा योज्या द्वितीया आसने मता ।५९.०३० तृतीया शयने तद्वच्चतुर्थी पानकर्मणि(३) ॥५९.०३० प्रत्यर्चायां(४) पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः ।५९.०३१ हूङ्कारं(५) विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिं ॥५९.०३१ यां मूर्तिं स्थापयेत्तस्मात्(६) मूलमन्त्रं न्यसेत्ततः ।५९.०३२ ओं नमो भगवते वासुदेवाय मूलकं ॥५९.०३२ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात् ।५९.०३३ भुजयोर्जङ्घयोरङ्घ्य्रोः केशवं शिरसि न्यसेत् ॥५९.०३३ नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत् ।५९.०३४ गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत् ॥५९.०३४ मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत् ।५९.०३५ कक्ष्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ॥५९.०३५ हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके ।५९.०३६ दामोदरं पादयोश्च हृदयादिषडङ्गकं ॥५९.०३६ एतत्साधारणं प्रोक्तमादिर्मूर्तेस्तु सत्तम ।५९.०३७ अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ॥५९.०३७ तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।५९.०३८ यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ॥५९.०३८ तत्स्वैरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् ।५९.०३९ हृदयादीनि देवेश मूलञ्च दशमाक्षरं ॥५९.०३९ यथा देवे तथा देहे(१) तत्त्वानि विनियोजयेत् ।५९.०४० चक्राब्जमण्दले विष्णुं यजेद्गन्धादिना तथा(२) ॥५९.०४० पूर्ववच्चासनं ध्यायेत्सगात्रं(३) सपरिच्छदं ।५९.०४१ शुभञ्चक्रं द्वादशारं ह्युपरिष्टाद्विचिन्तयेत् ॥५९.०४१ त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितं ।५९.०४२ पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ॥५९.०४२ पूजयेदारकाग्रेषु(४) सूर्यं द्वादशधा पुनः ।५९.०४३ कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ॥५९.०४३ सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः ।५९.०४४ पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ॥५९.०४४ तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च दिशिकः(१) ।५९.०४५ प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत्सुरान्(२) ॥५९.०४५ गन्धपुष्पादिभिः सम्यक्साङ्गं सावरणं क्रमात् ।५९.०४६ द्वादशाक्षरवीजैस्तु केशवादीन् समर्चयेत् ॥५९.०४६ द्वादशारे मण्डले तु लौकपालादिकं क्रमात् ।५९.०४७ प्रतिमामर्चयेत्पश्चाद्गन्धपुष्पादिभिर्द्विजः ॥५९.०४७ पौरुषेण तु सूक्तेन श्रियाः सूक्तेन पिण्डिकां ।५९.०४८ जननादिक्रमात्पश्चाज्जनयेद्वैष्णवानलं ॥५९.०४८ हुत्वाग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०४९ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०४९ दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद्बुधः ।५९.०५० अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ॥५९.०५० उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे ।५९.०५१ अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्निरुच्यते ॥५९.०५१ पलाशसमिधानान्तु अष्टोत्तरसहस्रकं ।५९.०५२ कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ॥५९.०५२ साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतं ।५९.०५३ कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन च ॥५९.०५३ द्वादशार्णैः स्पृशेत्पादौ नाभिं हृन्मस्तकं ततः ।५९.०५४ घृतं दधि पयो हुत्वा स्पृशेन्मूर्धन्यथो ततः ॥५९.०५४ स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः(१) ।५९.०५५ गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ॥५९.०५५ दहेत्तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुं ।५९.०५६ होमयेच्च बलिं दद्यादुत्तरे भोजयेद्द्विजान् ॥५९.०५६ सामाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत् ।५९.०५७ दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्याच्च जागरं ।५९.०५७ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ॥५९.०५७ इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः ॥ भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते। सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमम्
ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीम् । निः सार्य्यात्मैकतां कृत्वास्वस्मिन् सर्वगते विभौ
By means of Oṃ, uniting the conscious power that is self-identified, having established non-duality of self, one should merge it into oneself, the all-pervading Lord.
योजयेः मरुता पृथ्वीं वह्निबीजेन पीपयेत्। संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत्
One should join earth with wind, and kindle with the seed of fire; one should dissolve fire with wind, and lead wind into space.
अधिभूतादिदेवैस्तु साध्याख्यैविभवैः। सह। तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः
With the powers called Sādhyas, along with the presiding deities of elements and senses, having made their subtle forms, the wise should dissolve them in order.
आकाशं मनसाह्त्य मनोहङ्करणे कुरु । अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत्
Having absorbed space with the mind, one should merge the mind into ego; and the ego into the great principle, and that again into the unmanifest.
अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः। स तामव्याकृति मायामवष्टब्य सिसृक्षया
The unmanifest, in the form of knowledge, is called Vāsudeva; he, having grasped that unmanifest Māyā with the desire to create—
सङ्कर्षणं स शव्दात्मा स्पर्शाख्यमसृजत् प्रभुः। क्षोभ्य मायां स प्रद्युम्नं तेजोरुपं स चासृजत्
He, the Lord, created Saṅkarṣaṇa, the essence of sound, and then, having agitated Māyā, he created Pradyumna, the form of light.
अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकम्। अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज चह
He created Aniruddha, the essence of taste, and Brahmā, the form of scent; and Aniruddha, as Brahmā, first created water.
तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत् पञ्चभूतवद्। तस्मिन् सङ्क्रामिते जीव शक्तिरात्मोपसंहृता
In that, he created the golden egg, just as with the five elements; when the soul entered that, the power was absorbed into the self.
प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते। जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः
The life-breath, joined with the soul, is called 'active'; the soul, known as vyāhṛti, is considered the internal aspect among the life-breaths.
प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिका । अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत
Endowed with the life-breaths, then intellect arises, which is eight-formed; from that, ego is born, and from that, mind arises.
अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः। शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः
Five objects arose, endowed with intention and the like: sound, touch, form, taste, and smell are thus remembered.
ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु। त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु
With the power of knowledge, the senses were created from these: skin, ear, nose, eyes, tongue, and the intellect as the senses.
पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः। कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः श्रृणु
Feet, anus, hands, speech, and the genitals as the fifth—these are the organs of action; now hear of the five elements.
आकाशवायुतेजांसि सलिलं पृथिवी तथा। स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते
Space, air, fire, water, and earth—by these, the gross body, the support of all, is produced.
प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत्। हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः
One should place the principle of vital breath, represented by the syllable 'bha', as associated with the living being; the wise should place the syllable 'ba' in the heart as the principle of intellect.
फकारमपि तत्रैव अहङ्कारमयं न्यसेत्। मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम्
There, too, one should place the syllable 'pha', which is composed of ego; the principle of mind, the syllable 'pa', should be placed, arising from intention.
शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत्। स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत्
One should place the syllable 'na', the principle of subtle sound, on the head; the syllable 'dha', embodying touch, should be placed at the region of the mouth.
दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् । थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत्
The syllable 'da', the principle of form, should be established in the heart; the syllable 'tha', the principle of taste, should be placed in the region of the abdomen.
तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्। णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि
The syllable 'ta', the principle of smell, should be established in the thighs; 'ṇa' should be placed in the ears, and 'ḍha' should be placed in the skin.
डकारं नेत्रयुग्मे तु रसनायां ठकारकम्। टकारं नासिकायान्तु ञकारं वाचि विन्यसेत्
The syllable 'ḍa' should be placed in both eyes, 'ṭha' in the tongue; 'ṭa' in the nose, and 'ña' should be placed in speech.
झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः। जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके
The syllable 'jha' should be placed in the hands by the wise, as the principle of hands; 'ja' in the feet, 'cha' in the anus, and 'ca' in the genitals.
विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके। वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत्
One should place the principle of earth, the syllable 'ṅa', in both feet; 'gha' in the abdomen, and 'ga', the principle of fire, in the heart.
The Blessed Lord said: The process of invoking the presence of Hari is called 'adhivāsana.' Meditating on oneself as the all-knowing, all-pervading Supreme Person—