नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति। स तं नानापताकाभिः शोभितं रथसत्तमम्
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च। सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः
आरुरोह तदा पार्थो विमानं सुकृती यथा। तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः। हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्
जग्राह बलमास्थाय ज्यया च युयुजे धनुः। मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह
येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः। लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि। वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा। अब्रवीत्पावकश्चैवमेतेन मधुसूदन
अमानुषानपि रणे जेष्यसि त्वमसंशयम्। अनेन तु मनुष्याणां देवानामपि चाहवे
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा। भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु। हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्। दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ। कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः। किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता
चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान्। चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान्। त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी। अहमप्युत्सहे लोकान्विजेतुं युधि पावक
सर्वतः परिवार्यैवं दावमेतं महाप्रभो। कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि
यदि खाण्डवमेष्यति प्रमादा- त्सगणो वा परिरक्षितुं महेन्द्रः। शरताडितगात्रकुण्डलानां कदनं द्रक्ष्यति देववाहिनीनाम्
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च। तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा। ददाह खाण्डवं दावं युगान्तमिव दर्शयन्
प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ। मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्
दह्यतस्तस्य च बभौ रूपं दावस्य भारत। मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंशुभिः
तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ। दिक्षु सर्वासु भूतानां चक्राते कदनं महत्
यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः। पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम्
छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः। आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः। उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे। स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे। त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः
सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः। ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले। तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः