अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः। रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्। येन नागान्पिशाचांश्च निहन्यान्माधवो रणे
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि। निवारयेयं येनेन्द्रं वर्षमाणं महावने
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक। करणानि समर्थानि भगवन्दातुमर्हसि
एवमुक्तः स भगवान्धूमकेतुर्हुताशनः। चिन्तयामास वरुणं लोकपालं दिदृक्षया
आदित्यमुदके देवं निवसन्तं जलेश्वरम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्
तमब्रवीद्भमकेतुः प्रतिगृह्य जलेश्वरम्। चतुर्थं लोकपालानां देवदेवं सनातनम्
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते। तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति। चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम्
ददानीत्येव वरुणः पावकं प्रत्यभाषत। तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च। सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्। चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः। प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्। उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे। सर्वोपकरणैर्युक्तमजय्यं देवदानवैः
भावुमन्तं महाघोषं सर्वरत्नमनोरमम्। ससर्ज यं सुतपसा भौमनो भुवनप्रभुः
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव। यं स्म सोमः समारुह्य दानवानजयत्प्रभुः
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया। आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा। तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः
हनूमान्नाम तेजस्वी कामरूपी महाबलः।' दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत। ध्वजे भूतानि तत्रासन्विविधानि महान्ति च
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति। स तं नानापताकाभिः शोभितं रथसत्तमम्
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च। सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः
आरुरोह तदा पार्थो विमानं सुकृती यथा। तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः। हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्
जग्राह बलमास्थाय ज्यया च युयुजे धनुः। मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह
येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः। लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि। वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा। अब्रवीत्पावकश्चैवमेतेन मधुसूदन
अमानुषानपि रणे जेष्यसि त्वमसंशयम्। अनेन तु मनुष्याणां देवानामपि चाहवे
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा। भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे