इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम्। एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत्
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव। त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत्। तेजसा विप्रहीणत्वात्सहसा हव्यवाहन
मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि। अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम्। आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्
तत्र सर्वाणि सत्वानि निवसन्ति विभावसो। तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात्। एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः। आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः। सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः। परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः। सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः
बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम्। मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः
तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः। विलयं पावकं शीघ्रमनयन्भरतर्षभ
अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन्। सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः। पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्। उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ। कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्
भविष्यतः सहायौ ते नरनारायणौ तदा। ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत। संभूतौ तौ विदित्वा तु नरनारायणावृषी
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः। अनुस्मृत्य जगामाथ पुनरेव पितामहम्
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल। खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो। संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते। तावेतौ सहितावेहि खाण्डवस्य समीपतः
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च। ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः। देवराजं च सहितौ तत्र मे नास्ति संशयः
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः। कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम। तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः। दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च। यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्। कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः। न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्