उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा। प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप
वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव। एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत। यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः
स्वयं मां देवदेवेश याजयस्व सुरेश्वर। एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्
उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः। नास्माकमेतद्विषये वर्तते याजनं प्रति
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना। याजयिष्यामि राजंस्त्वां समयेन परन्तप
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः। सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप। एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना। पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः
दृष्टैव च स राजानं शङ्करो लोकभावनः। उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा।। याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप। ममांशस्तु क्षितितले महाभागो द्विजोत्तमः
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति। मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्। स्वपुरं पुनरागम्य संभारान्पुनरार्जयत्
ततः संभृतसंभारो भूयो रुद्रमुपागमत्। `उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः।' संभृता मम संभाराः सर्वोपकरणानि च
त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति। एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत्। एष राजा महाभागः श्वेतकिर्द्विजसत्तम
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्। बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः। यथाविधि यथाकालं यथोक्तं बहुदक्षिणम्
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः। दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः। सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा
पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः। बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः
एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः। कालेन महता चापि ययौ स्वर्गमभिष्टुतः
ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः। तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान्
सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि। हविषा च ततो वह्निः परां तृप्तिमगच्छत
न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित्। पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते
ततो भघवतो वह्नेर्विकारः समजायत। तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः। जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत्। भगवन्परमा प्रीतिः कृता श्वेतकिना मम
अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम्। तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते