तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्
बभूवात्र महान्नादो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि
वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत्
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वशः
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः
तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः। रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः। चिरारब्धमिदं चापि सागरस्यापि मन्थनम्
ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्
ततो नारायणं देवं वचनं चेदमब्रवीत्। विधत्स्वैषां बलं विष्णो भवानत्र परायणम्
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः। क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः। प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता। कृष्णरूपधरा देवी सर्वाभरणभूषिता
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्। प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः। मरीचिविकचः श्रीमान्नारायणउरोगतः
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः। `पारिजातश्च तत्रैव सुरभिश्च महामुने। जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः। कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।' यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम्
ततो नारायणो मायां मोहिनीं समुपाश्रितः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः
सा तु नारायणी माया धारयन्ती कमण्डलुम्। आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः
अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः