न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे। यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः। खाण्डवस्य पुरा दाहो यथा समभवन्मुने
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम्। यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्। कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्
पौराणः श्रूयते राजन्राजा हरिहयोपमः। श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन। `जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम्
तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः। वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप। सत्रे क्रियासमारम्भे दानेषु विविधेषु च
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः। ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्। ततः प्रसादयामास ऋत्विजस्तान्महीपतिः
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्। ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः
सत्रं समापयामास ऋत्विग्भिरपरैः सह। तस्यैवंवर्तमानस्य कदाचित्कालपर्यये
सत्रमहार्तुकामस्य संवत्सरशतं किल। ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः। प्रणिपातेन सान्त्वेन दानेन च महायशाः
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः। ते चास्य तमभिप्रायं न चक्रुरमितौजसः
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः। यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः। तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः। प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया। प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः
अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात्। ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः
एतावदुक्त्वा वचनं विरराम स पार्थिवः। यदा न शेकू राजानं याजनार्थं परन्तप
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम्। तव कर्माम्यजस्रं वै वर्तन्ते पार्थिवोत्तम
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः। श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि
बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ। गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः। कैलासं पर्वतं गत्वा तप उग्रं समास्थितः
आराधयन्महादेवं नियतः संशितव्रतः। उपवासपरो राजन्दीर्घकालमतिष्ठत
कदाचिद्द्वादशे काले कदाचिदपि षोडशे। आहारमकरोद्राजा मूलानि च फलानि च
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः। षण्मासानभवद्राजा श्वेतकिः सुसमाहितः
तं तथा नृपशार्दूलं तप्यमानं महत्तपः। शङ्करः परमप्रीत्या दर्शयामास भारत