एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ। केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः। भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्। यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति। न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा। सगणस्तत्कृते दावं परिरक्षति वज्रभृत्
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः। तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति। ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः। दहेयं खाण्डवं दावमेतदन्नं वृतं मया
युवां ह्युदकधारास्ता भूतानि च समन्ततः। उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति। रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम्
न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे। यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः। खाण्डवस्य पुरा दाहो यथा समभवन्मुने
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम्। यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्। कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्
पौराणः श्रूयते राजन्राजा हरिहयोपमः। श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन। `जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम्
तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः। वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप। सत्रे क्रियासमारम्भे दानेषु विविधेषु च
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः। ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्। ततः प्रसादयामास ऋत्विजस्तान्महीपतिः
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्। ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः
सत्रं समापयामास ऋत्विग्भिरपरैः सह। तस्यैवंवर्तमानस्य कदाचित्कालपर्यये
सत्रमहार्तुकामस्य संवत्सरशतं किल। ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः। प्रणिपातेन सान्त्वेन दानेन च महायशाः
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः। ते चास्य तमभिप्रायं न चक्रुरमितौजसः
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः। यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः। तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः। प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया। प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः